Ir al contenido
The ConsciousLibrary

Capítulo 45 de 68

सुन्दरकाण्डम्/सर्गः ४५

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥५-२॥

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः। निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः॥ १॥ महद‍्बलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥ २॥ हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥ ३॥ तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः॥ ४॥ जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्। बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः॥ ५॥ ते परस्परसंघर्षात् तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्॥ ६॥ सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः॥ ७॥ अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः॥ ८॥ स शरान् वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे॥ ९॥ स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे॥ १०॥ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्॥ ११॥ तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः। मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत्॥ १२॥ प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित् तस्यैव नादेन तत्रैव पतिता भुवि॥ १३॥ ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम्॥ १४॥ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः॥ १५॥ स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा॥ १६॥ स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै- स्तदेव वीरोऽभिजगाम तोरणम्॥ १७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ५.४५।।

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Usa las flechas ← → del teclado para pasar de capítulo.

सुन्दरकाण्डम्/सर्गः ४५ · Sundarakāṇḍa (El libro hermoso) — Vālmīki · The Conscious Library