Capítulo 84 de 84
बालकाण्डम्/सम्पूर्णम् · 7
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥ राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम्। धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥१॥ तदद्भुतमचिन्त्यं च भेदनं धनुषस्तथा। तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥२॥ तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः। पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥३॥ तदहं ते बलं दृष्ट्वा धनुषोऽप्यस्य पूरणे। द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव ॥४॥ तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥५॥ क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महातपाः। बालानां मम पुत्राणामभयं दातुमर्हसि ॥६॥ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्। सहस्राक्षे प्रतिज्ञाय शस्त्रं प्रक्षिप्तवानसि ॥७॥ स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम्। दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥८॥ मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥९॥ ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्। अनादृत्य तु तद्वाक्यं राममेवाभ्यभाषत ॥१०॥ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते। दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥११॥ अनुसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे। त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥१२॥ इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः। तदिदं वैष्णवं राम धनुः परपुरंजयम् ॥१३॥ समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्। तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१४॥ शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया। अभिप्रायं तु विज्ञाय देवतानां पितामहः ॥१५॥ विरोधं जनयामास तयोः सत्यवतां वरः। विरोधे तु महद् युद्धमभवद् रोमहर्षणम् ॥१६॥ शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः। तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ॥१७॥ हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः। देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः ॥१८॥ याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ। जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ॥१९॥ अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तथा। धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः ॥२०॥ देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्। इदं च वैष्णवं राम धनुः परपुरंजयम् ॥२१॥ ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासमुत्तमम्। ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ॥२२॥ पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः। न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ॥२३॥ अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः। वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्। क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः ॥२४॥ पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने। यज्ञस्यान्तेऽददं राम दक्षिणां पुण्यकर्मणे ॥२५॥ दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः। श्रुत्वा तु धनुषो भेदं ततोऽहं द्रुतमागतः ॥२६॥ तदेवं वैष्णवं राम पितृपैतामहं महत्। क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥२७॥ योजयस्व धनुःश्रेष्ठे शरं परपुरंजयम्। यदि शक्तोऽसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥२८॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥ श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा। गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥१॥ कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव। अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥२॥ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव। अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥३॥ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्। शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥४॥ आरोप्य स धनू रामः शरं सज्यं चकार ह। जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम् ॥५॥ ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च। तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥६॥ इमां वा त्वद्गतिं राम तपोबलसमर्जितान्। लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः ॥७॥ न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः। मोघः पतति वीर्येण बलदर्पविनाशनः ॥८॥ वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः। पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः ॥९॥ गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः। यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम् ॥१०॥ जडीकृते तदा लोके रामे वरधनुर्धरे। निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥११॥ तेजोभिर्गतवीर्यत्वाज्जामदग्न्यो जडीकृतः। रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥१२॥ काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा। विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥१३॥ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्। तदाप्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१४॥ तामिमां मद्गतिं वीर हन्तुं नार्हसि राघव। मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥१५॥ लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया। जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः ॥१६॥ अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्। धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥१७॥ एते सुरगणाः सर्वे निरीक्षन्ते समागताः। त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८॥ न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥१९॥ शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥२०॥ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्। रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥२१॥ स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान्। जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥२२॥ ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा। सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥२३॥ रामं दाशरथिं रामो जामदग्न्यः प्रपूजितः। ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः ॥२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥ गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः। वरुणायाप्रमेयाय ददौ हस्ते महायशाः ॥१॥ अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥२॥ जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥३॥ रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम् ॥४॥ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः। पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥५॥ चोदयामास तां सेनां जगामाशु ततः पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥६॥ सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्। राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः ॥७॥ सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्। पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ॥८॥ पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः। प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम् ॥९॥ ननन्द स्वजनै राजा गृहे कामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१०॥ वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥११॥ कुशध्वजसुते चोभे जगृहुर्नृपयोषितः। मंगलालापनैर्होमैः शोभिताः क्षौमवाससः ॥१२॥ देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥१३॥ रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥१४॥ शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥१५॥ भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक ॥१६॥ त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः ॥१७॥ गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥१८॥ मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ॥१९॥ स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः ॥२०॥ पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥२१॥ चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ॥२२॥ गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥२३॥ रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः ॥२४॥ स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून् ॥२५॥ मनस्वी तद्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृकृता इति ॥२६॥ गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥२७॥ अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥२८॥ तया स राजर्षिसुतोऽभिकामया। समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः ॥२९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
Usa las flechas ← → del teclado para pasar de capítulo.