Capítulo 83 de 84
बालकाण्डम्/सम्पूर्णम् · 6
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥ तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥ अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥२॥ स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति ॥३॥ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥४॥ ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः ॥५॥ यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः ॥६॥ तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥७॥ ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत। एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा ॥८॥ याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥९॥ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः ॥१०॥ चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः ॥११॥ ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥१२॥ पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥१३॥ दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥१४॥ राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥१५॥ दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥१६॥ सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥१७॥ गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः ॥१८॥ विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥१९॥ रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥२०॥ सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः ॥२१॥ दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥२२॥ अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥२३॥ ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥२४॥ अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥२५॥ तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः ॥२६॥ सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे ॥२७॥ स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥२८॥ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥२९॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ॥३०॥ गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥३१॥ अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ॥३२॥ कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ॥३३॥ ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो ऋषयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥३४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥ विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्। अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ॥१॥ महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥२॥ पश्चिमायां विशालायां पुष्करेषु महात्मनः। सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम् ॥३॥ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः। तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥४॥ एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्। अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥५॥ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥६॥ पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्। अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥७॥ प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ। आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥८॥ उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः। अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥९॥ देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१०॥ स पुत्रसहितं तात सभार्यं रघुनन्दन। भृगुतुंगे समासीनमृचीकं संददर्श ह ॥११॥ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च। महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥१२॥ पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः। गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥१३॥ पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। सर्वे परिगता देशा यज्ञियं न लभे पशुम् ॥१४॥ दातुमर्हसि मूल्येन सुतमेकमितो मम। एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः ॥१५॥ नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥१६॥ उवाच नरशार्दूलमम्बरीषमिदं वचः। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥१७॥ ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥१८॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम् ॥१९॥ उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥२०॥ पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम् ॥२१॥ अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥२२॥ गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥२३॥ अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महायशाः ॥२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥ शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥१॥ तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह ॥२॥ तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च ॥३॥ पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥४॥ त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः ॥५॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥६॥ स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥७॥ तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥८॥ यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः ॥९॥ अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥१०॥ सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥११॥ नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥१२॥ मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥१३॥ कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥१४॥ तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥१५॥ निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥१६॥ श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥१७॥ कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम् ॥१८॥ पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥१९॥ इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥२०॥ शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥२१॥ राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्। निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर ॥२२॥ तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः। जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥२३॥ सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥२४॥ स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥२५॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः ॥२६॥ स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥२७॥ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥२८॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥ पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्। अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः ॥१॥ अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः। ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥२॥ तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्। विश्वामित्रो महातेजा भूयस्तेपे महत् तपः ॥३॥ ततः कालेन महता मेनका परमाप्सराः। पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥४॥ तां ददर्श महातेजा मेनकां कुशिकात्मजः। रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥५॥ कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥६॥ अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥७॥ तपसो हि महाविघ्नो विश्वामित्रमुपागमत्। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव ॥८॥ विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥९॥ सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः। बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ॥१०॥ सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्। अहोरात्रापदेशेन गताः संवत्सरा दश ॥११॥ काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः। स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१२॥ भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्। मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ॥१३॥ उत्तरं पर्वतं राम विश्वामित्रो जगाम ह। स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ॥१४॥ कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्। तस्य वर्षसहस्राणि घोरं तप उपासतः ॥१५॥ उत्तरे पर्वते राम देवतानामभूद् भयम्। आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ॥१६॥ महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः। देवतानां वचः श्रुत्वा सर्वलोकपितामहः ॥१७॥ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ॥१८॥ महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक। ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः ॥१९॥ प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ॥२०॥ यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः ॥२१॥ यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥२२॥ ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्। घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ॥२३॥ शिशिरे सलिलेशायी रात्र्यहानि तपोधनः। एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥२४॥ तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ। संतापः सुमहानासीत् सुराणां वासवस्य च ॥२५॥ रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः। उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥२६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम् ॥१॥ तथोक्ता साप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम् ॥२॥ अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः ॥३॥ ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि। एवमुक्तस्तया राम सभयं भीतया तदा ॥४॥ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम् ॥५॥ कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ॥६॥ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम् ॥७॥ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥८॥ कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत ॥९॥ अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिः संदेहमागतः ॥१०॥ सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥११॥ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥१२॥ ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥१३॥ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं कोपं संतापमात्मनः ॥१४॥ तस्य शापेन महता रम्भा शैली तदाभवत्। वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१५॥ कोपेन च महातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥१६॥ बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते। नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥१७॥ अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि। अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः ॥१८॥ तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्। अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ॥१९॥ नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः। एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ॥२०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥ अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥१॥ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तपः परमदुष्करम् ॥२॥ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥३॥ स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥४॥ भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥५॥ तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः ॥ ६॥ न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह ॥७॥ अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥८॥ त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः ॥९॥ मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥१०॥ बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ॥११॥ नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम् ॥१२॥ विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते ॥१३॥ सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः। प्रकम्पते च वसुधा वायुर्वातीह संकुलः ॥१४॥ ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः। सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ॥१५॥ भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा। बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ॥१६॥ तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः। कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ॥१७॥ देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः। ततः सुरगणाः सर्वे पितामहपुरोगमाः ॥१८॥ विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्। ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥१९॥ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक। दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ॥२०॥ स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्। पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम् ॥२१॥ कृत्वा प्रणामं मुदितो व्याजहार महामुनिः। ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ॥२२॥ ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ॥२३॥ ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः ॥२४॥ ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥२५॥ ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥२६॥ विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ॥२७॥ कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ॥ २८॥ एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम् ॥२९॥ एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ ॥३०॥ जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ॥३१॥ यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने ॥ ३२॥ गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः ॥ ३३॥ श्रुतं मया महातेजो रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥३४॥ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥३५॥ तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥३६॥ श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः। स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥३७॥ एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्। विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥३८॥ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः। प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥३९॥ विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः। स्ववासमभिचक्राम पूज्यमानो महात्मभिः ॥४०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥ ततः प्रभाते विमले कृतकर्मा नराधिपः। विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥१॥ तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥२॥ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥३॥ एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः ॥४॥ पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥५॥ एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥६॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥७॥ देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः ॥८॥ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥९॥ यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः ॥१०॥ ततो विमनसः सर्वे देवा वै मुनिपुंगव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः ॥११॥ प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्। तदेतद् देवदेवस्य धनूरत्नं महात्मनः ॥१२॥ न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ। अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः ॥१३॥ क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता। भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ॥१४॥ वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा। भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ॥१५॥ वरयामासुरागत्य राजानो मुनिपुंगव। तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ॥१६॥ वीर्यशुल्केति भगवन् न ददामि सुतामहम्। ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१७॥ मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा। तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् ॥१८॥ न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा। तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ॥१९॥ प्रत्याख्याता नृपतयस्तन्निबोध तपोधन। ततः परमकोपेन राजानो मुनिपुंगव ॥ २०॥ अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः। आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः ॥२१॥ रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्। ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ॥२२॥ साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः। ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् ॥२३॥ ददुश्च परमप्रीताश्चतुरंगबलं सुराः। ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥२४॥ अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः। तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ॥२५॥ रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत। यद्यस्य धनुषो रामः कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥२६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥१॥ ततः स राजा जनकः सचिवान् व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम् ॥२॥ जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः ॥३॥ नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन ॥४॥ तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥५॥ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः। मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि ॥६॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ ॥७॥ इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्। राजभिश्च महावीर्यैरशक्तैः पूरितं तदा ॥८॥ नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥९॥ क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा ॥१०॥ तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव। दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥११॥ विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम्। वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥१२॥ महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥१३॥ इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥१४॥ बाढमित्यब्रवीद् राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥१५॥ पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः ॥१६॥ आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥१७॥ तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥१८॥ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥१९॥ प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् ॥२०॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया ॥२१॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥२२॥ मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता ॥२३॥ भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥२४॥ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥२५॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः ॥२६॥ कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तथा ॥२७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥ जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥१॥ ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः। ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम् ॥२॥ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः। राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम् ॥३॥ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा ॥४॥ कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। जनकस्त्वां महाराज पृच्छते सपुरःसरम् ॥५॥ पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥६॥ पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥७॥ सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः ॥८॥ तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि ॥९॥ अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥१०॥ सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥११॥ प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे ॥१२॥ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥१३॥ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत् ॥१४॥ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥१५॥ दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥१६॥ यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः ॥१७॥ मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः ॥१८॥ मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥१९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥१॥ अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥२॥ चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम् ॥३॥ वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा ॥४॥ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम् ॥५॥ वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात् ॥६॥ गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥७॥ ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ ॥८॥ उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥९॥ पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ॥१०॥ सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ॥११॥ राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि ॥१२॥ यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः ॥१३॥ वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ॥१४॥ यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥१५॥ श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे ॥१६॥ हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्। अथ रामो महातेजा लक्ष्मणेन समं ययौ ॥१७॥ विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥१८॥ उवास परमप्रीतो जनकेनाभिपूजितः। जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥१९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥१॥ भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥२॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् ॥३॥ तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥४॥ एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत् ॥५॥ शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥६॥ सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम् ॥७॥ तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥८॥ स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम् ॥९॥ राजार्हं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टावुभौ तौ तु भ्रातरावमितद्युती ॥१०॥ प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम् ॥११॥ आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥१२॥ ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ॥१३॥ स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा ॥१४॥ सबन्धुरगमत् तत्र जनको यत्र वर्तते। राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः ॥१५॥ वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥१६॥ वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ॥१७॥ एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ॥१८॥ उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्। अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥१९॥ तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः। विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ॥२०॥ मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥२१॥ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ॥२२॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥२३॥ अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि। त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः ॥२४॥ धुन्धुमारान्महातेजा युवनाश्वो महारथः। युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः ॥२५॥ मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥२६॥ यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत ॥२७॥ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ॥२८॥ तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥२९॥ असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ॥३०॥ एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः ॥३१॥ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तत्र चैका महाभागा भार्गवं देववर्चसम् ॥३२॥ ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम्। तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥३३॥ स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि। तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः ॥३४॥ महावीर्यो महातेजा अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥३५॥ च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत ॥३६॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत् ॥३७॥ सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥३८॥ भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥३९॥ कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥४०॥ शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥४१॥ अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ॥४२॥ नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥४३॥ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥४४॥ रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥४५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥ एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥१॥ प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते ॥२॥ राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥३॥ तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः ॥४॥ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः ॥५॥ सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥६॥ बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥७॥ सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः ॥८॥ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥९॥ पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥१०॥ महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥११॥ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥१२॥ तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥१३॥ मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः ॥१४॥ वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् ॥१५॥ कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥१६॥ स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति ॥१७॥ तस्याप्रदानान्महर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥१८॥ निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् ॥१९॥ कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥२०॥ सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै। वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥२१॥ द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥२२॥ रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥२३॥ मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो। फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् ॥२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥१॥ अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥२॥ सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥३॥ वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥४॥ अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥५॥ भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः ॥६॥ पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः ॥७॥ उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः ॥८॥ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ ॥९॥ कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम् ॥१०॥ एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥११॥ एकाह्ना राजपुत्रीणां चतसॄणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥१२॥ उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥१३॥ एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥१४॥ परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ ॥१५॥ यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ ॥१६॥ तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥१७॥ युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः ॥१८॥ स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत् ॥१९॥ तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥२०॥ स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥२१॥ गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥२२॥ सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥२३॥ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥२४॥ स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥२५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥ यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान् ॥१॥ पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥२॥ केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥३॥ स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥४॥ श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते ॥५॥ त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥६॥ दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥७॥ प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥८॥ युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमंगलः ॥९॥ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥१०॥ राजा दशरथो राजन् कृतकौतुकमंगलैः। पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते ॥११॥ दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥१२॥ इत्युक्तः परमोदारो वसिष्ठेन महात्मना। प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥१३॥ कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥१४॥ कृतकौतुकसर्वस्वा वेदिमूलमुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः ॥१५॥ सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते ॥१६॥ तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥१७॥ ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्। कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक ॥१८॥ रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ॥१९॥ विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्। प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः ॥२०॥ अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः। सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः ॥२१॥ अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः। शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः ॥२२॥ लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः। दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ॥२३॥ अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्। जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः ॥२४॥ ततः सीतां समानीय सर्वाभरणभूषिताम्। समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥२५॥ अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्। इयं सीता मम सुता सहधर्मचरी तव ॥ २६॥ प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। पतिव्रता महाभागा छायेवानुगता सदा ॥२७॥ इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा। साधुसाध्विति देवानामृषीणां वदतां तदा ॥२८॥ देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्। एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम् ॥२९॥ अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः। लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ॥३०॥ प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥३१॥ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः ॥३२॥ श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः ॥३३॥ पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ॥३४॥ चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः। अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥३५॥ ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः। यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम् ॥३६॥ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥ ३७॥ ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥३८॥ ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते। त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥३९॥ अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥४०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥ अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥१॥ विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्। आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम् ॥२॥ अथ राजा विदेहानां ददौ कन्याधनं बहु। गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥३॥ कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च। हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥४॥ ददौ कन्याशतं तासां दासीदासमनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥५॥ ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्। दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम् ॥६॥ प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः। राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ॥७॥ ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः। गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥८॥ घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः। भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥९॥ तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥१०॥ किमिदं हृदयोत्कम्पि मनो मम विषीदति। राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥११॥ उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्। उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ॥१२॥ मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्। तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥१३॥ कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्। तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः ॥१४॥ भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम्। वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा ॥१५॥ ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥१६॥ ददर्श भीमसंकाशं जटामण्डलधारिणम्। भार्गवं जामदग्न्येयं राजा राजविमर्दनम् ॥१७॥ कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्। ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥१८॥ स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम्। प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम् ॥१९॥ तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥२०॥ संगता मुनयः सर्वे संजजल्पुरथो मिथः। कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥२१॥ पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः। क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥२२॥ एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्। ऋषयो राम रामेति मधुरं वाक्यमब्रुवन् ॥२३॥ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥
Usa las flechas ← → del teclado para pasar de capítulo.