Ir al contenido
The ConsciousLibrary

Capítulo 3 de 10

जाबालदर्शनोपनिषत् · 3 · 1

स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा । भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ ३.१॥ सुखासनसमाख्यं च नवमं मुनिपुङ्गव । जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ॥ २॥ समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥ ३॥ दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते । अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ४॥ ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् । पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥ ५॥ दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् । ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥ ६॥ गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥ ७॥ निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः । वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ८॥ मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि । गुल्फान्तरं च सङ्क्षिप्य मुक्तासनमिदं मुने ॥ ९॥ कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः । भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ॥ १०॥ समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः । मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥ ११॥ येन केन प्रकारेण सुखं धैर्यं च जायते । तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १२॥ आसनं विजितं येन जितं तेन जगत्त्रयम् । अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १३॥ इति॥ इति तृतीयः खण्डः ॥ ३॥

<poem>

Usa las flechas ← → del teclado para pasar de capítulo.

जाबालदर्शनोपनिषत् · 3 · 1 · Jābāladarśana Upaniṣad (Darśana Upaniṣad) — Dattātreya · The Conscious Library