Ir al contenido
The ConsciousLibrary

Capítulo 2 de 10

जाबालदर्शनोपनिषत् · 2 · 1

तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ २.१॥ एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥ २॥ वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ ३॥ को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् । इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ ४॥ यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् । तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५॥ ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् । सर्वत्र विगतस्नेहः सन्तोषं परमं विदुः । श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ६॥ न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने । अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥ ७॥ रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥ ८॥ सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् । प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥ ९॥ वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् । तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता । वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ १०॥ गुरुणा चोपदिष्टोऽपि तत्र सम्बन्धवर्जितः । वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ ११॥ कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके । इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥ १२॥ जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥ १३॥ वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः । मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः ॥ १४॥ उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते । मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥ १५॥ उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् । नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ॥ १६॥ इति॥ इति द्वितीयः खण्डः ॥ २॥

Usa las flechas ← → del teclado para pasar de capítulo.

जाबालदर्शनोपनिषत् · 2 · 1 · Jābāladarśana Upaniṣad (Darśana Upaniṣad) — Dattātreya · The Conscious Library