Capítulo 11 de 26
· 11
यदि तार्किकसमय इव बेदान्तेष्वपि भिन्ना कारणावग-
गतिरभविष्यत्, कचिच्चेतनं ब्रह्म जगतः कारणम् ›, कचि- दचेतनं प्रधानम, कचिदन्यदेवेति; ततः कदाचिस्मधान- कारणवादानुरोधेनापीक्षयादिश्रवणमकस्पयिष्यत् । न सवे तदस्ति । समानैव हि सर्वेषु वेदान्तेषु चेतनकारणाव- गतिः । ‹ यथाम्नञ्वैतः सवां दि्ो चिस्फुटिङ्गा विप्रति- छेरन्ेवमेवेतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो छोकाः ` इति, ^ तस्माद्रा एतस्मा- दात्मन आकारः संभूतः ' इति, ° आत्मन एवेदं सवम् ` इति, आत्मन एष प्राणो जायते ' इति च आत्मनः कारणत्वं दर्श यन्ति सर्वे वेदान्ताः । आत्मराब्दश्च चेतनवचन इदयवोचाम ¦ महच्च प्रामाण्यकारणमेतत्, यद्ेदान्तवाक्यानां चेतनकार- णत्वे समानगतित्वम्, चक्षुरादीनामिव रूपादिषु । अतो गतिसमान्यात्सवज्ञं रह्म जगतः कारणम ॥
कुतश्च सवेज्ञं ब्रह्म जगतः कारणम्!-- शचतत्वाच ।॥ ११ ॥
स्वराब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति भूयते, श्रेताश्रतराणां मन्त्रोपनिषदि सर्वज्ञमीश्ररं प्रकरय-- (स कारणं करणाधिपाधिपो न चास्य कथ्िजनिता न चाधिपः'
इति । तस्मात्सवज्ञं ब्रह्म जगतः कारणम्, नाचेतनं प्रधा- नमन्यद्वेति सिद्धम ॥
¦ जन्माद्यस्य यतः" इलयारभ्य शश्रतत्वाच्च ' इयेतदन्तै सूनरेयोन्युदाद्तानि वेदान्तवाक्यानि, तेषां सर्वज्ञः सर्वराक्ति- रीश्ररो जगतो जन्मस्थितिप्रख्यकारणमियेतस्याथैस्य प्रति- पादकस्वं न्यायपूवेकं प्रतिपादितम । गतिसामान्योपन्या- सन च सर्वे बेदान्ताश्ेतनकारणवादिन इति व्याख्यातम् । अतः परस्य प्रन्थस्य किमुत्थानमिति, उन्यते-- द्विरूपं हि ब्रह्यावगम्यते-- नामरूपविकारमेदोपाधिविरिषएटम्, तद्टिप- रीते च सर्वोपाधिविवर्जितम् । ‹यत्र हि दैतमिव भवति तदि- तर इतरं पश्यति, यत्र त्वस्य सवैमात्मैवामूत्तत्केन कं परयेत्' 'यत्र॒नान्यत्परयति नान्यच्छृणोति नान्यद्विजानाति स भूमा; अथ यत्रान्यत्पर््ययन्यच्छरुणोत्यन्यद्धिजानाति तद- स्पम्; यो वै भूमा तदमृतम्; अथ यदस्पं तन्मत्थम्: सवोणि रूपाणि विचि धीरो नामानि कृत्वाभिवदन्यदास्ते निष्करु निष्कियं शान्त निरवद्यं निरखनम् । अमतस्य परं सतुं द्ग्धेन्धनामेवानलम् ` ° नेति नेति ` ° अस्थूरमनण्व- हस्वमदीधम ' इतिः " न्यूनमन्यस्स्थानं संपू्ण॑मन्यत् ' इति चैवं सहस्रो विद्याविद्याविषयमेदेन ब्रह्मणो द्िरूपतां ददीयन्ति
वेदान्तवाक्यानि । तत्राविद्यावम्थायां ब्रद्यण उपास्योपासका- दिरृक्षणः सर्वो व्यवहारः । तत्र कानिचिद्भद्यण उपासनान्य- भयुद्या्थानि, कानिचिक्रमुक्त्यथोनि, कानिचित्कमसमू- द्वधर्थानि । तेषां गुणविरोषोपाधिभेदेन मेदः । एक एव तु पर आसमेश्ररस्तेस्तेमणविरोषर्विरिएट उपास्यो यद्यपि भवति,
तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; (तं यथा
यथोपासते तदेव भवति इति श्रुतेः, (यथाक्रतुरस्मि्टोके पुरुषो भवति, तथेतः प्रेय भवति! इति च; स्परतेश्च-- ८ यं यं वापि स्मरन्मावं यजत्यन्ते कटेवरम् । तं तमेवैति कौन्तेय सदा तद्धावभावितः ` इति । यद्यप्येक आत्मा सर्वै- भूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारत- म्यादात्मनः कूटस्थनियस्येकरूपस्याप्युन्तरोत्तरमाविष्कृतस्य तारतम्यैश्वयशाक्तिविरोषैः श्रयते-- ‹ तस्य य॒ आत्मान- माविस्तरां वेद् ' इयल्न; स्म्रतावपि-- ‹ यद्यद्विभूतिमत्स- स्वं श्रीमदूजितमेव वा । तत्तदेवावगच्छ तवं मम तेजोऽशसं- भवम् ` इति यत्र यत्र विभूयाद्यतिशयः, स स इश्वर इत्यु- पास्यतया चोद्यते । एवभिहाप्यादियमण्डटे हिरण्मयः पुरुषः सवेपाप्मोदयलिङ्घास्पर वेति वक्ष्यति । एवम ८ आकाशस्तद्िङ्गात् ' इयादटिषु द्रष्टव्यम् । एवं सद्योमक्ति-
कारणमप्यात्मज्ञानमुपाधिविसेषद्वारेणोपदिदयमानमप्यविव-
क्षितोपाधिसंबन्धविशेषं परापराविपयत्वेन संदिह्यमानं वाक्य- गतिपयौटोचनया निर्णेतव्यं मवति-- यथेहैव तावत् ‹ आ- नन्दमयोऽम्यासात् ` इति । णवमेकमपि ब्रह्य पिश्ितोपाधि- संबन्धं निरस्तोपाधिसबन्धं चोपास्यत्ेन ज्ञेयत्वेन च वेद्ा- न्तेषूपदिद्यत इति प्रदशयितुं परो भ्रन्थ आरभ्यते । यच्च ८ गतिसामान्यानं ` इत्यचेतनकारणनिराकरणमूक्तम, तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतका- रणनिषेधन प्रपञ्ज्यते--
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानु- करस्याश्नायते-- ‹ तस्माद्वा पतस्माद्विज्ञानमयादन्योऽन्तर ६. आनन्दमया- आत्मानन्दमयः! इति । तत्र संरयः-- धकरणम् । किमिहानन्दमयक्षब्देन परमेव ब्रह्मोच्यते, यलरकरतम् ‹ सयं ज्ञानमनन्तं जह्य ' इति, किं वान्नमयादिवद्र- हयणोऽ्थान्तरमिति । किं तावत्प्राप्तम् £ त्रह्मणोऽथोन्तरममु- ख्य॒ आत्मानन्दमयः स्यात् । कस्मात् £ अन्नमयाद्यसुख्या- त्मप्रवाहपतितस्वात्। अथापि स्यात्सबोन्तरत्वादानन्दमयो मु-
ख्य एवात्मेति; न स्यासियाद्यवयवयोगाच्छारीर्त्वश्रवणाच् | मुख्यश्चेदात्मा स्यान्न प्रियादिसंस्पशः स्यात् । इह तु ‹ तस्य प्रियमेव शिरः” इत्यादि श्रूयते । शरीरत्वं च श्रूय- ते-- ‹ तस्यैष एव शारीर आत्मा यः पूरवेस्य ' इति । तस्य पूवस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्द्- मय इयर्थः । न च सदारीरस्य सतः प्रियाग्रियसंस्पर्शो बार- यितुं शक्यः । तस्मात्संसार्येवानन्दमय आस्मेत्येवं प्राप्रे, इद- मुच्यते--
: आनन्दमयोऽभ्यासात् ` । पर एवात्मानन्दमयो भवि- तुमहति । कुतः अभ्यासात् । परस्मिन्नेव द्यात्मन्यान- न्दङाब्दो बहकृखोऽभ्यस्यते । आनन्दमयं प्रस्तु रसो वे सः ` इति तस्यैव रसत्वमुक्त्वा, उनच्यते-- ‹ रस. द्येवायं लन्ध्वानन्दीभवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकारा आनन्दो न स्यात् । एष द्येवानन्दयाति ` ° से- घानन्दस्य मीमासा भवति ' ˆ एतमानन्दमयमात्मानमुप- संक्रामति ' ‹अआनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति; “आनन्दो ब्रह्येति व्यजानात्” इति च । श्रुत्यन्तरे च ८ विज्ञानमानन्दं ब्रह्म ' इति ब्रह्मण्येवानन्दशब्दो ररः । ए- वमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा
ब्रह्मेति गम्यते । यत्तक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादा- नन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः, आनन्दमयस्य स- बौन्तरत्वात् । मुख्यमेव ह्यात्मानमुपदिदिष्चु शाखं खोकबु- द्विमजसरत्, अन्नमयं रारीरमनात्मानमत्यन्तमूढानामास्म- त्वेन प्रसिद्धमनूप्य मूपानिषिक्तदरुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमियेवं पूर्वेण पूर्वेण समानमुत्तरसुत्तरसनात्मानमा- त्मेति प्राहयत, प्रतिपत्तिसौकयोपेक्षया सर्वान्तरं मुख्यमान- न्दमयमात्मानमुपदिदेशेति श्छिष्टतरम् । यथारुन्धतीदरशंने बह्ीष्वपि तारास्वमुख्यास्वरुन्धतीषु दरदितासु; या अन्या प्रददयते सा मख्येवारुन्धती भवति; एवभमिहाप्यानन्दमयस्य सवान्तरत्वान्मुख्यमात्मत्वम् । यत्तु ब्रूषे, ्रियादीनां शिरस्त्वा- दिकस्पनानुपपन्ना मुख्यस्यात्मन इति--अतीतानन्तरोपाधि- जनिता सा; न सखाभाविकीलयदोषः । रारीरत्वमप्यानन्दम- यस्यान्नमयादिङश्चरीरपरम्परया प्रदरयमानत्वात्; न पुनः सा- ्षादेव शारीरत्वं संसारिवत् । तस्मादानन्दमयः पर एवा- त्मा |
अतराह-- नानन्दमयः पर आत्मा भवितुमर्हति; क- स्मान्? विकारश्ब्दात्; प्रकृतिवचनादयमन्यः शब्दो वि-
कारवचनः समधिगतः ‹ आनन्दमयः ` इति, मयटो विका- रार्थस्वात्; तस्मादन्नमयादिश्चव्दवद्िकारविषय एवायमानन्द्- मयश्चब्द इति चेत, न; प्राचुयार्थेऽपि मयटः स्मरणान् | ' तत्प्रकृतवचने मयद् इति हि प्रचुरतायामपि मयद् स्मर्यते; यथा (अन्नमयो यज्ञः इत्यन्नप्रचुर उच्यते. णएव- मानन्द्प्रचुरं ब्रह्मानन्दसयसुच्यते । आनन्द्प्रचुरस्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिरायस्यावध्रारणात् । तस्मास्राचुयोर्थे मयद् ॥ तद्धेतुच्यपदे राच ॥ १४ ॥
इतश्च प्राचुयार्थे मयद्; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिाति श्रुतिः-- * एष ह्येवानन्दयाति ' इति-- आन- न्दयतीलयर्थः । यो द्यन्यानानन्द्यति स प्रचुरानन्द् इति प्रसिद्धं मवति; यथा खोके योऽन्येषां घनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्रत् । तस्मास्प्राचुयोर्थेऽपि मयटः संभवादानन्दमयः पर एवास्मा |
इतश्चानन्दमयः पर एवात्मा; यस्मात् "ब्रह्मविदाप्रोति
परम ` इत्युपक्रम्य, ‹ सयं ज्ञानमनन्तं ब्रह्य ` इलयस्मिन्मन्त्र यत् ब्रह्य प्रकृतं सयज्ञानानन्तविरोषणीर्भिधौरितम्, यस्मादा- कारादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूता- नि सषा तान्यचुप्रविद्य गुहायामवस्थितं सवोन्तरम्, यस्य विज्ञानाय ‹ अन्योऽन्तर आत्मा ` ‹ अन्योऽन्तर आस्मा ` इति प्रक्रान्तम्, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयत--! अन्योऽन्तर आत्मानन्दमयः ' इति । मन्त्रबराह्यणयोश्चैका्थत्वं युक्तम्; अविरोधात् । अन्यथा हि प्रकृतदानाप्रकृतप्रकिये स्याताम् । न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आस्माभिधीयते । पतन्निष्ठैव च भागवी वारुणी बिद्या-- ' आनन्दो ब्रह्मेति त्यजानान् ` इति । तस्मादानन्दमयः पर एवात्मा ॥
इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर दश्ररादन्यः संसारी जीव इलय्थः । न जीव आनन्दमयङशब्देनाभिधीयते; कस्मात् १ अनुपपत्तेः । आनन्दमयं हि प्रकृय श्रूयते-- ` ‹ सोऽकामयत । बहू स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इद् सवैमस्रजत । यदिदं किंच इति । तत्र प्राक्डारीराद्युत्पत्तेरमिध्यानम, सज्यमानानां च विका-
राणां सष्टुरव्यतिरेकः, सवेविकारसष्टिश्च न परस्मादात्मनो- ऽन्यत्रोपप्यते ॥
इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे ८ रसो वे सः । रस द्येवायं छ्ध्वानन्दी भवति ` इति जीवान- न्दमयौ भेदेन व्यपदिराति । न हि छृढ्यैव र्ब्धव्यो भवति । कर्थं तर्हिं ‹ आस्मान्वेटव्यः ` (आत्मखाभान्न परं विद्यते ः इति श्रुतिस्मृती, यावता न छ्ब्यैव छच्धव्यो भवत्तीत्यु- क्तम्? बाढम--- तथाप्याल्मनोऽगप्रच्युतात्म भावस्यैव सतस्त- स्वानववबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्व- निश्चयो रौकिको दृष्टः । तेन देहादिभूतस्यात्मनोऽपि आत्मा ---अनन्विष्टः ^ अन्वेष्टव्यः!, अक्ब्धः ^ रब्धव्यः ', अश्रुतः ° श्रोतव्यः `, अमतः ° मन्तव्यः", अविज्ञातः ‹ विज्ञा- तव्यः -- इलयादिमेदन्यपदेदा उपपद्यते । प्रतिषिध्यत प्व तु परमार्थतः सवैज्ञातपरमेश्वरादन्यो द्रष्टा श्रोता वा ‹ नान्यो- ऽतोऽस्ति द्रष्टा ' इत्यादिना । परमेश्वरस्तु अविद्ाकस्पिता- चछारीरात्कतुभोक्तुः विज्ञानात्माख्यात् अन्यः; यथा माया- विनश्चमेखङ्गधरास्सूत्रेणाकाश्मधिरोदतः स एव मायावी परमा्थरूपो भूमिष्ठोऽन्यः; यथा वा घटाकादादुपाधिपरि-
च्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः । इंटर च विज्ञा- नात्मपरमात्मभेदमाभ्रिय “नेतरोऽनुपपत्तेः “ भेदन्यपदे- दाच्च ` इत्युक्तम ॥
आनन्दमयाधिकारे च ‹ सोऽकामयत बहु स्यां प्रजा- येयेति ' इति कामयितत्वनिर्दे्ाज्च नानुमानिकमपि सांख्य- परिकलिपितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितन्यम । ' दक्षतेनीरब्दम ` इति निराकृतमपि प्रधानं ूर्वसूत्रोदाहृतां कामयिवृ्वश्रुतिमभ्रिय प्रसङ्गास्पुनर्निराक्रि- यते गतिसामान्यप्रपच्चनाय ॥
इतश्च न प्रधाने जीवे वानन्दमयक्षच्दः; यस्मादस्मि- न्रानन्दमये प्रकृत आत्मनि, प्रतिघुद्धस्यास्य जीवस्य, तद्योगं शास्ति-- तदात्मना योगस्तश्ोगः, तद्भावापत्तिः, मुक्तिरि- यर्थः-- तद्योगं शास्ति शखम-- "यदा ह्येवैष एतस्मि- न्न रयेऽनात्म्येऽनिसक्तेऽनिखयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवेष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं मवति ` इति । एतदुक्तं भवत्ति-
यदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं परयति, तदा संसारभयान्न निवतैतः; यदा व्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवतत इति । तच्च परमात्मपरिप्रहे घटते, न प्रधानपरिप्रहे जीवपरिप्रहे वा । तस्मादानन्दमयः परमात्मेति सिद्धम ॥
इद् त्विह वक्तव्यम-- (सवा णप पुरुषोऽन्नरममयः': तस्माद्रा एतस्मादन्नरसमयादन्योऽन्तर आत्मा ग्राणमयः' तस्मात् ‹ अन्योऽन्तर आत्मा मनोमयः ` तस्माच ‹अन्ये- ऽन्तर आत्मा विज्ञानमयः" इति च विकारार्थे मयट्भ्रवाहे सति, आनन्दमय पवाकस्मादधजरतीयन्यायेन कथमिव मयटः प्राचु्याथेत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवर्णि- कन्रह्माधिकारादिति चेत्, न; अन्नमयादीनामपि तर्हि ब्रह्मत्व- प्रसङ्गः । अत्राहु--युक्तमन्नमयादीनामन्रह्मत्वम्, तस्मात्तस्मा- दान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानलात्; आनन्द्- मयात्तु न कश्चिदन्य आन्तर आत्मोच्यते; तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्षिया प्रसङ्गादिति । अत्रो चयते-- यद्यप्यन्नमयादिभ्य इवानन्दमयान् ‹ अन्योऽन्तर आत्मा ` इति न श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत॒ आनन्दमयं प्रकृय श्रूयते-- ' तस्य प्रियमेव हिरः,
मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पश्रः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा ' इति । तच्र यद्भद्येह मन्त्रवर्णे प्रकृतम्: सलं ज्ञानमनन्तं ब्रह्म ` इति, तदिह ‹ बह्म पुच्छं प्रतिष्ठा ' इद्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमय- पयेन्ताः पच्च कोशाः कल्प्यन्ते । तच्र कुतः प्रकृतदहानाप्- करतम्रक्रियाप्रसङ्कः । नन्वानन्दमयस्यावयवत्वेन । ब्रह्म पुच्छं प्रतिष्ठा इत्युच्यते, अन्नमयादीनामिव ` इदं पुच्छं प्रतिष्ठा दरयादि; तत्र कथं ब्रह्मणः स्भ्रधानतं शक्यं विज्ञातुम्? प्रकृतर्वादिति व्रूमः । नन्वानन्द्मयाबयचत्वेनापि बरह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति; अच्रोच्यते-- तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इदयसाम- स्यं स्यात्। अन्यतरपसपरहे तु, युक्तम ` ब्रह्म पुच्छं प्रतिष्ठा ' इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम्, ब्रह्मशब्द संयोगात; नानन्द्- मयवाक्ये, बह्यशब्दसंयोगाभावादिति । अपि च ब्रह्म पुच्छं प्रतिष्ठसयुक्खेदमुच्यते-- ‹ तदप्येष शोको भवति । असन्नेव स भवति । असद्भद्येति वेद चेत । अस्ति ब्रह्मेति चेद्रेद | सन्तमेनं ततो विदुः ' इति । अस्मिश्च श्छाकेऽननुकरष्यानन्द- मयं ब्रह्मण एव भावामाववेदनयोगणदाषा भिधानाद्रम्यते--
° ब्रह्य पुच्छं प्रतिष्ठा ' इयत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्दमयस्यासनो भावाभावाराङ्का युक्ता, प्रियमोदादि- विरिष्टस्यानन्दमयस्य सवेखोकप्रसिद्धत्वात् । कथं पुनः स्व- प्रधानं सद्रह्य आनन्दमयस्य पुच्छत्वेन निर्दिदयते-- ८ ब्रह्म पुच्छ प्रतिष्ठा ` इति £ नेष दोषः । पुच्छवत्पुच्छम्, प्रतिष्ठा परायणमेकनीडं खौकिकस्यानन्दजातस्य ब्रह्मानन्दः इये- तदनेन विवक्ष्यते, नावयवत्वम्; ‹ एतस्यैवानन्दस्थान्यानि भूतानि मात्रामुपजीवन्ति * इति श्रुयन्तरात् । अपि चानन्द्- मयस्य ब्रह्मस्वे प्रियाद्यवयवत्वेन सविरोषं ब्रह्माभ्युपगन्त- व्यम्; निर्विरोषं तु ब्रह्म वाक्यरोषे श्रुयते, बाड्नसयोरगो- चरत्वाभिधानात-- ‹ यतो वाचो निवतेन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन
Usa las flechas ← → del teclado para pasar de capítulo.