Ir al contenido
The ConsciousLibrary

Capítulo 13 de 36

· 13

एवं प्रसन्नचेतसः अवस्थितबुद्धे. छृतङृलयता यतः, तस्मात्‌ रागदरेषवियुक्तेः इन्द्रियैः शाखाविरुद्धेषु अवजैनीयेषु युक्तः समाचरेत्‌ इति वाक्याथेः ॥

सेयं प्रसन्नता स्तूयते- नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।

नासि न विते न भवतीलयथे, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेञ्चः । तथा-- न च असि अभा- बयत. आत्मज्ञानाभिनिवेकशमङुवेतः शन्तिः उपरमः । अश्ा- न्तस्य कुतः सुखम्‌ १ इन्द्रियाणां हि विषयसेवावृष्णातः निन्रू- तिया तत्सुखम्‌, न विषयविषया ठृष्णा । दुःखमेव दि सा । न कृष्णायां सत्यां सुखस्य गन्धमान्रमण्युपपद्यते इत्यथः ॥

अयुक्तस्य कस्मादद्धिनासि इत्युच्यते-- इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति पज्ञां वायुनोवभिवाम्भसि ॥ ६७॥

इन्द्रियाणां हि यस्मात्‌ चरतां स्वस्वविषयेषु प्रवतेमा- नानां यत्त्‌ मनः अनुविधीयते अनुप्रवतेते तत्‌ इन्द्रियविषय- विकस्पनेन प्रवृत्तं मनः अस्य यते. हरति प्रज्ञाम्‌ आल्माना- त्मविवेकजां नाशयति । कथम्‌ £ वायुः नावमिव अम्भसि उदके जिगमिषतां मागौदुद्धूल्य उन्मार्ग यथा वायुः नावं प्रवतंयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति ॥

¢ यततो हि इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्ति- युक्त्वा तं चा्थमुपपाद्य उपसंहरति- महाबाहो क निगरहीतानि ४७ तस्मादस्य महाबा र सवेद्ाः। इन्द्रियाणीन्द्रियार्थभ्यस्तस्य पज्ञा प्रतििता ॥

# षद, ०, के इन्द्रियाणां प्रवृत्तो दोष उपपादितो यस्मात्‌, तस्मात्‌ यख्य यतेः हे महाबाहो, निगरहीतानि सवैश्चः सर्वप्रकारः मानसा- दिभेदे. इन्द्रियाणि इन्द्रियार्थेभ्य. शब्दादिभ्यः तस्य प्रज्ञा

योऽयं लौकिको वैदिकश्च व्यवहार्‌, स ॒उत्पन्नविवेकज्ञा- नस्य स्थितप्रज्ञस्य अविद्याकायंत्वात अविद्यानिवृत्तौ निब- तेते, अविद्यायाश्च विद्याविरोघात्‌ निवृत्तिः; इयेतमर्थं स्फुटी- वेन्‌ आद- या निदा सवेभ्रूतानां लस्यां जागति संयमी । यस्यां जायनि श्रनानि सा निहा पडयतो सुनेः ॥ ६९ ॥ या तिका रातिः सवैपदाथानामविवेककरी तमःस्वभाव- त्वात्‌ सवैभूतानां स्वेषां भूतानाम्‌ । किं तत्‌ परमाथेतत्त्व स्थितप्रज्ञस्य विषयः | यथा नक्तचराणाम्‌ अहरेव सद्‌- न्येषां, निञ्चा भवति, तद्त्‌ नक्तचरस्थानीयानामज्ञाना सवैभूतानां निशेव निश्चा परमाथतत्त्वम्‌, अगोचरत्वादत- हुद्धीनाम्‌ । तस्यां परमाथेतन्तवङक्षणायामज्ञाननिद्राया. प्र- बुद्धो जागर्ति सयमी संयमवान्‌, जितेन्द्रियो योगीलथे. । यस्यां प्राह्यम्राहकमेद टक्षणायामविद्यानिशायां प्रसुप्रान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निङ्यायां प्रसुप्रा इव स्वघ्रदश्चः, सा निश्चा अविदयारूपत्वात्‌ परमाथेतत्त्वं पडयतो मुनेः ॥

॥ दितीयोऽध्यायः | ६९ अतः कमणि अन्निदयावस्थायामेव चोद्यन्ते, न विद्याव- स्थायाम्‌ । विद्यायां हि सलाम उदिते सवितरि शार्वरभिव तम. प्रणाक्चमुपगच्छति अविद्या । प्राक्‌ विद्योत्पत्तेः अविद्या प्रमाणबुद्धथा गृह्यमाणा करियाकारकफलभेदरूपा सती सर्व- कमेहेतुत्व प्रतिपद्यते । न अप्रमाणबुद्धया गृह्यमाणाया कभ तुत्वोपपत्ति; ` प्रमाणभूतेन वेदेन मम चोदितं कैव्यं कमे" इति हि कमणि कतौ प्रवसते, न ˆ अविद्यामात्रामिद मै निशेव ` इति । यस्य पुन. * निरेव अविद्यामात्रमिदं सर्वं मेदजातम्‌ › इति ज्ञानं तस्य आत्मज्ञस्य स्बैक्मसंन्यासे एव अधिकारो न प्रवृत्तो ¦ तथा च दशीयिष्यति-- तद्रू द्धयस्तदात्मान. ` इव्यादिना ज्ञाननिष्ठायामेव तस्य अधि- कारम्‌ ॥

तत्रापि प्रवतेकम्रमाणाभावे प्रब्च्यलुपपत्ति इति चेत्‌, म; स्वात्मविषयत्वादात्मविज्ञानस्य । न हि आत्मनः म्बात्मनि प्रवतैकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाश्च सवेप्रमा- णानां प्रमाणत्वस्य । न हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः संभवति । प्रमातृत्वं हि आत्मनः निवतेयति अन्यं प्रमाणम्‌; निवतेयदेव च अप्रमाणीमंवति, स्वप्रकाटप्रमाणमिव प्रबोधे ¦ छोके च वस्त्वधिगम भ्रवृत्ति-

हेतुत्वाद॑शैनात्‌ प्रमाणस्य । तस्मात्‌ न. आत्मविदः कर्मण्य- धिकार इति सिद्धम्‌ ॥ ॥

विदुष. लक्तेषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः; न तु असंन्यासिनः कामकामिनः इयेतमर्थं दृष्टान्तेन प्रतिपाद्‌- यिष्यन्‌ आह-

समुद्रमापः परविदान्ति यवत्‌ । तदत्कामा यं प्रविरान्ति सर्वे स रान्तिमाभोति न कामकामी | ७० ॥

आपू्येमाणम्‌ अद्धि. अचटप्रतिष्ठम्‌ अवखतया प्रतिष्ठा अवस्थितिः यस्य तम्‌ अचलख्म्रतिष्ठं समुद्रम्‌ आपः सवतो गता प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत्‌, तद्रत्‌ कामा विषयसंनिधावपि सवतः इच्छाविशेषाः यं पुरुषम्‌-- ससुद्र- मिव आपः-- अविङुवेन्तः प्रविश्चन्ति सर्वे आत्मन्येव प्रखी- यन्ते न स्वात्मवश्चं कुवन्ति, स. शान्ति मोक्षम्‌ आप्नोति, न इतरः कामकामी, काम्यन्त इति कामाः तिषयाः तान्‌ कामयितुं शीरं यस्य सः कामकामी, नैव प्राप्नोति इयर्थः ॥

विहाय कामान्यः सवाोन्पुमांञअरति निःस्प्दः। निमेमो निरहंकारः स हान्तिमधिगच्छति ॥

विहाय परियज्य कामान्‌ यः संन्यासी पुमान्‌ सर्वान्‌ अशेषतः कात्स्येन चरति, जीवनमात्रचेष्टाशोषः पयैटतीलयर्थः। निःस्प्हः शरीरजीवनमात्रेऽपि निगेता स्प्रहा यस्य घः निः- स्पृहः सन्‌, निमेमः शारीरजीवनमात्राक्िप्तपरियहेऽपि ममेदम्‌ इदयभिनिवेश्चवर्जित., निरहंकारः विद्ावन्तवादिनिमित्तात्मसं- भावनारदितः इत्येतत्‌ । सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित्‌ शान्ति सवेसंसारदुःखोपरमलक्षणां निबौणाख्याम्‌ अधिग- च्छति प्राप्रोति ब्रह्मभूतो भवति इयथः ॥

एषा ब्राह्मी स्थितिः पाथ मैनां पाप्य विसुद्यति। स्थित्वास्यामन्तकाकेऽपि बह्यनिवोणसृच्छति ॥

इति श्रीमहाभारते शतसाहस्रं सहितायां वैयासिक्यां भीष्मपवेणि श्रीमद्धगवद्रीतासूपनिषत्यु ब्रह्मविद्यायां ` योगशचा्ञे श्रीङृष्णाजुनसंबादे साख्ययोगो नाम दितीयोऽध्यायः ॥

एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कम संन्यस्य ब्रह्मरूपेणैव अवस्थानम्‌ इ्येतत्‌ । हे पाथं, न एनां स्थिति प्राप्य छड्ध्वा न विसुह्यति न मोहं प्राप्रोति । स्थित्वा अस्यां स्थितौ ब्राह्मथां यथोक्तायां अन्तकाडेऽपि अन्त्ये वयेखपि ब्रह्मनिवोणं ब्रह्मनिवृंति मोक्षम्‌ ऋच्छति गच्छति । किमु वक्तव्यं जद्यचयोदेव संन्यद्य यावज्जीवं यो जह्मण्येव अवतिष्ठते स ब्ह्मनि्वांणम्रच्छति इति ॥

इति श्रीमत्परमहसपरिाजका चार्यस्य श्रीगोचिन्द भगवस्पूज्यपाद- रिष्यस्य श्रीमच्छकरमगवतः कृतो श्रीमद्धगवद्रीताभष्य द्वितीयो ऽध्यायः ॥

[ क र 3 इ,,५/॥ # ५ ^ (ॐ ॥ मङ्कि „क ५ ॥ ८ 0 ४ 2: १

शा खस्य प्रटृत्तिनिवृृत्तिविषयभूते दे बुद्धी भगवता निदिष्टे, सांख्ये बुद्धि. योगे बुद्धिः इति च । तत्र ‹ प्रजहाति यदा कामान्‌ ` इलयारभ्य आ अध्यायपरि- समाप्रे सांख्यवुख्याभ्रितानां संन्यासं कतेव्यमुक्त्वा तेषां तन्निष्ठतयैव च छृताथता उक्ता-- * एषा ब्राह्मी स्थितिः ` इति । अञनाय च ‹(कमेण्येवाधिकारस्ते...मा ते सङ्खोऽस्त्वकर्मगि ` इति कर्मैव कतेग्ययुक्तवान्‌ योगबुद्धिमाभ्रिय, न तत एव श्रेयः- प्रा्निम्‌ उक्तवान्‌ । तदेतदालक्ष्य प्याङुटीङृतवुद्धि" अञ्जनः उकच । कथं भक्ताय श्ेयोर्थिने यत्‌ साक्षात्‌ भ्रेयःप्राप्रिसाधनं साख्यवुद्धिनिष्ठां श्रावयित्वा मां कमेणि दृष्टानेकानथयुक्ते पारषयणापे अनकान्तिकभ्रेयःप्राप्निफटे नियुञ्ज्यात्‌ इति युक्तः पयाकुटीभावः अचयुनस्य, तदनुरूपश्च प्रभ॒‹ ज्यायसी

चेत्‌, इलयादिः; प्रञ्रापाकरणवाक््यं च भगवतः युक्तं यथो- ्तविभागविषये शाखे ॥

केचित्त॒-- अनस्य प्रञ्नाथमन्यथा कत्पयित्वा तत्प्रति- कूं भगवत प्रतिवचनं बणेयन्ति, यथा च आत्मना संब- न्धम्रन्थे गीतार्थो निरूपित ततप्रतिकरूटं च इह पुनः प्रभ प्रतिवचनयोः अथ॑ निरूपयन्ति । कथम्‌?, तत्र संबन्धूपननये तावत-- सर्वेषामाश्रमिणां ज्ञानकमेणोः सुष्वय; गीतारछीखे निरूपितः अथं इत्यक्तम्‌, पुन. विशेषित चै -यावल्जीवर्रति- चोदितानि कमोणि परिदञ्य केवखादेव ज्ञानात्‌ मोक्षः भराप्यते इलयेतत्‌ एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्र्म- विकल्प दशेयता यावज्जीव श्रुतिचोदितानामेव क्मणां- परि- याग उक्तः । तत्‌ कथम्‌ इदृशं विरुद्धमथंम्‌ अञ्युनाय न्यात्‌ भगवान्‌, श्रोता वा कथं बिरुद्धमथेमवधारयेत्‌ ॥

तत्रैतत्‌ स्यात्‌-- गृहस्थानामेव श्रौतकमपरियागेन केवरा- देव ज्ञानात्‌ मोक्ष प्रतिषिध्यते, न तु आश्रमान्तराणामिति । एतदपि पूर्वोत्तरविसुद्धमेवे । कथम्‌ सवीश्रमिणां ज्ञानकमे- णोः समुश्चयो गीताश्चाखे निश्चित अथं. इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवखादेव ज्ञानात्‌ मोक्षं ब्रूयात्‌ आश्रमा- न्तराणाम्‌ ॥

अथ मत श्रोतकमपेक्षया एतद्वचनम्‌ ‹ केवखादेव ज्ञानान श्रोतकर्मरहितात्‌ गृहस्थानां मोक्ष प्रतिषिध्यते इति; तत्र गृहस्थानां विद्यमानमपि स्मातं कमै अविद्यमानवत्‌ उपेश््य ‹ ज्ञानादेव केवखात्‌ ` इत्युच्यते इति । एतदपि बिरद्धम । कथम्‌? गृहस्थस्यैव स्मातंकर्मणा समुचितात्‌ ज्ञानात्‌ मोक्ष प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभि. शक्यमवधारयितुम्‌ । किच--यदि मोक्षसाधनत्वेन स्मातौनि कमणि ॐध्वेरेतसां ससुञ्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तिरेव ससुञ्यो न श्रोते. ॥

अथ श्रौते; स्मातेश्च गृहस्थस्यैव समुश्चयः मोक्षाय, उध्वै- रेतसां तु स्मातेकमेमात्रसमु्वितात्‌ ज्ञानात्‌ मोक्ष इति । तत्रैवं सति गृहस्थस्य आयासबाहूुल्यात्‌, श्रौतं स्मार्ते च बहुदुःखरूष कर्मं शिरसि आरोपितं स्यात्‌ ॥

अथ गृहस्थस्यैव आयासबाहुल्यकारणान्‌ मोक्षः स्यात्‌, न आश्रमान्तराणां श्रौतनिलयक्मरहितत्वात्‌ इति । तदप्यसत्‌, सर्वोपनिषत्सु इतिहासपुराणयोगक्ाखेषु च ज्ञानाङ्गत्वेन मुुक्षो. सर्वैकमसन्यासविधानात्‌, आश्रमविकस्पससुच्चयवि- धाना श्रुतिस्प्यो ॥

सिद्धस्तर्दिं सर्वाश्रमिणां ज्ञानकमणोः समुश्चयः--- न, मुयुक्षो. स्वैकर्मसंन्यासविधानात्‌ । ‹ पुत्रैषणाया वित्तेषणा- याश्च छोकैषणायाञ्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ' ‹त- स्मात्‌ न्यासमेषां तपसामतिरिक्तमाहुः ` ° न्यास एवायरेच- यत्‌ इति, ‹ न कर्मणा न प्रजया धनेन लयागेनेके अमृत- त्वमानय ` इति च । ' ब्रह्मचयोदेव म्रत्रजेत्‌" इलयाद्याः श्रुतय. । ‹ यज धर्ममधर्मं च उभे सव्याचृते यज । उभ सलयाचृते दयक्त्वा येन यजसि तत्यज । ससारमेव नि.सारं दृष्टा सारदिद्टक्षया । प्रब्रजन्त्यङृतोद्धाहा. परं ॒वैराग्यमा- भरिताः ` इति ब्रहस्पति. । ¦ कमेणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कमे न कुर्वन्ति यतयः पारद्रिनः ` इति शुकालुश्चा सनम्‌ । इहापि च ‹ सवैकमोणि मनसा संन्यस्य इदयादि ॥

मोक्षस्य च अकार्यत्वात्‌ मुमुक्षोः कमौनथेक्यम्‌ । निटयानि प्रयवायपरिहाराथोनि इति चेत्‌, न; असंम्यासिविषयत्वात्‌ प्रयवायप्रप्नेः। न हि अभ्भिकार्याद्यकरणात्‌ संन्यासिनः ग्रयवाय. कल्पयितु शक्यः, यथा ब्रह्मचारिणामसंन्यासिना- सपि कर्मिणाम्‌ | न तावत्‌ निलयानां कर्मणामभावादेव भाव- रूपस्य प्रलयवायस्य उत्पत्तिः कर्पयितुं शक्या, ' कथमसतः

Usa las flechas ← → del teclado para pasar de capítulo.

· 13 · Comentario a la Bhagavadgītā — Adi Shankara · The Conscious Library