Capítulo 6 de 6
बृहदारण्यकोपनिषत् (texto sánscrito, seis adhyāya) · 6 · 1
प्रथमोऽध्यायः
द्वितीयोऽध्यायः
तृतीयोऽध्यायः
चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथ षष्ठोऽध्यायः ।
प्रथमं ब्राह्मणम् यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद ॥ ६,१.१ ॥ यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा । वसिष्ठः स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद ॥ ६,१.२ ॥ यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे । प्रतितिष्ठति दुर्गे । चक्षुर्वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे । य एवं वेद ॥ बृह. ६,१.३ ॥ यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै संपत् । श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः । सं हास्मै पद्यते यं कामं कामयते । य एवं वेद ॥ ६,१.४ ॥ यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् । मनो वा आयतनम् । आयतनं स्वानां भवत्यायतनं जनानाम् । य एवं वेद ॥ ६,१.५ ॥ यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः । रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिः । य एवं वेद ॥ बृह. ६,१.६ ॥ ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः । तद्धोचुः को नो वसिष्ठ इति । तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ ६,१.७ ॥ वाग्घोच्चक्राम । सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह वाक् ॥ ६,१.८ ॥ चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ बृह. ६,१.९ ॥ श्रोत्रं होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ ६,१.१० ॥ मनो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ६,१.११ ॥ रेतो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ बृह. ६,१.१२ ॥ अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह । ते होचुः मा भगव उत्क्रमीः । न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं कुरुतेति । तथेति ॥ ६,१.१३ ॥ सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति । यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः । यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् । यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः । यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः । तस्यो मे किमन्नं किं वास इति । यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् । आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद । तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति । एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥ बृह. ६,१.१४ ॥ इति प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मण् (पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्) श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति । स भो३ इति प्रतिशुश्राव । अनुशिष्टो न्वसि पित्रेति । ओमिति होवाच ॥ बृह. ६,२.१ ॥ वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति । नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । अपि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन वेदेति होवाच ॥ ६,२.२ ॥ अथैनं वसत्योपमन्त्रयां चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति । कथं सुमेध इति । पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् । ततो नैकं चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्युदाजहार ॥ बृह. ६,२.३ ॥ स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र । प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमाहारयां चकार । अथ हास्मा अर्घ्यं चकार । तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ६,२.४ ॥ स होवाच प्रतिज्ञतो म एष वरः । यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ६,२.५ ॥ स होवाच दैवेषु वै गौतम तद्वरेषु । मानुषाणां ब्रूहीति ॥ बृह. ६,२.६ ॥ स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य । मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति । स वै गौतम तीर्थेनेच्छसा इति । उपैम्यहं भवन्तमिति । वाचा ह स्मैव पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ६,२.७ ॥ स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः । यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास । तां त्वहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ बृह. ६,२.८ ॥ असौ वै लोकोऽग्निर्गौतम । तस्यादित्य एव समित् । रश्मयो धूमः । अहरर्चिः । दिशोऽङ्गाराः । अवान्तरदिशो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुत्यै सोमो राजा संभवति ॥ ६,२.९ ॥ पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युदर्चिः । अशनिरङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवति ॥ बृह. ६,२.१० ॥ अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समित् । अग्निर्धूमः । रात्रिरर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नं संभवति ॥ ६,२.११ ॥ पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् । प्राणो धूमः । वागर्चिः । चक्षुरङ्गाराः । श्रोत्रं विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति । तस्या आहुत्यै रेतः संभवति ॥ बृह. ६,२.१२ ॥ योषा वा अग्निर्गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिरर्चिः । यदन्तः करोति तेऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः संभवति । स जीवति यावज्जीवति । अथ यदा म्रियते ॥ ६,२.१३ ॥ अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति । समित्समित् । धूमो धूमः । अर्चिरर्चिः । अङ्गारा अङ्गाराः । विष्फुलिङ्गा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ बृह. ६,२.१४ ॥ ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति । अर्चिषोऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति । मासेभ्यो देवलोकम् । देवलोकादादित्यम् । आदित्याद्वैद्युतम् । तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनरावृत्तिः ॥ बृह. ६,२.१५ ॥ अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति । धूमाद्रात्रिम् । रात्रेरपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति । मासेभ्यः पितृलोकम् । पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति । तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते । आकाशाद्वायुम् । वायोर्वृष्टिम् । वृष्टेः पृथिवीम् । ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ ६,२.१६ ॥ तृतीयं ब्राह्मणम् (ज्येष्ठब्राह्मणं वा प्राणविद्याब्राह्मणम्) स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ बृह. ६,३.१ ॥ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.२ ॥ अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.३ ॥ अथैनमभिमृशति भ्रमदसि । ज्वलदसि । पूर्णमसि । प्रस्तब्धमसि । एकसभमसि । हिङ्कृतमसि । हिङ्क्रियमानमसि । उद्गीथमसि । उद्गीयमानमसि । श्रावितमसि । प्रत्याश्रावितमसि । आर्द्रे संदीप्तमसि । विभूरसि । प्रभूरसि । अन्नमसि । ज्योतिरसि । निधनमसि । संवर्गोऽसीति ॥ ६,३.४ ॥ अथैनमुद्यच्छत्यामंस्यामं हि ते महि । स हि राजेशानोऽधिपतिः । स मां राजेशनोऽधिपतिं करोत्विति ॥ बृह. ६,३.५ ॥ अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गवो भवन्तु नः । स्वः स्वाहा । सर्वां च सावित्रीमन्वाह । सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति । प्रातरादित्यमुपतिष्ठते । दिशामेकपुण्डरीकमसि । अहं मनुष्याणामेकपुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ बृह. ६,३.६ ॥ तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.७ ॥ एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.८ ॥ एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.९ ॥ एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.१० ॥ एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.११ ॥ एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति । तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ बृह. ६,३.१२ ॥ चतुरौदुम्बरो भवति । औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति । व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च । तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति । आज्यस्य जुहोति ॥ ६,३.१३ ॥ इति तृतीयं ब्राह्मणम् ॥ चतुर्थं ब्राह्मणम् (पुत्रमन्थकर्मब्राह्मणम्) एषां वै भूतानां पृथिवी रसः । पृथिव्या आपः । अपामोषधयः । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः ॥ बृह. ६,४.१ ॥ स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे । तां सृष्ट्वाध उपास्त । तस्मात्स्त्रियमध उपासीत । स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् । तेनैनामभ्यसृजत ॥ ६,४.२ ॥ तस्या वेदिरुपस्थः । लोमानि बर्हिश् । चर्माधिषवणे । समिद्धो मध्यतस्तौ मुष्कौ । स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावानस्य लोको भवति । य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते । अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ बृह. ६,४.३ ॥ एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह । एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह । एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति । बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ६,४.४ ॥ तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे । पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् । इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ६,४.५ ॥ अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति । श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ बृह. ६,४.६ ॥ सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् । सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् । इन्द्रियेन ते यशसा यश आदद इति । अयशा एव भवति ॥ ६,४.७ ॥ सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति । यशस्विनावेव भवतः ॥ ६,४.८ ॥ स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत् अङ्गादङ्गात्संभवसि हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ६,४.९ ॥ अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् । इन्द्रियेण ते रेतसा रेत आदद इति । अरेता एव भवति ॥ बृह. ६,४.१० ॥ अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् । इन्द्रियेण ते रेतसा रेत आदधामीति । गर्भिण्येव भवति ॥ ६,४.११ ॥ अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् । मम समिद्धेऽहौषीः । प्राणापानौ त आददेऽसाविति । मम समिद्धेऽहौषीः । पुत्रपशूंस्त आददेऽसाविति । मम समिद्धेऽहौषीः । इष्टासुकृते त आददेऽसाविति । मम समिद्धेऽहौषीः । अशापराकाशौ त आददेऽसाविति । स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति । तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् । उत ह्येवंवित्परो भवति ॥ बृह. ६,४.१२ ॥ अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् । अहतवासाः । नैनां वृषलो न वृषल्यपहन्यात् । त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ ६,४.१३ ॥ स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ ६,४.१४ ॥ अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ ६,४.१५ ॥ अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ ६,४.१६ ॥ अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ बृह. ६,४.१७ ॥ अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवाइ । औक्षेण वार्षभेण वा ॥ ६,४.१८ ॥ अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति । हुत्वोद्धृत्य प्राश्नाति । प्राश्येतरस्याः प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् । सं जायां पत्या सहेति ॥ ६,४.१९ ॥ अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् । सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक्त्वम् । द्यौरहं पृथिवी त्वम् । तावेहि संरभावहै सह रेतो दधावहै । पुंसे पुत्राय वित्तय इति ॥ बृह. ६,४.२० ॥ अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ६,४.२१ ॥ हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भं हवामहे दशमे मासि सूतये । यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ ६,४.२२ ॥ सोष्यन्तीमद्भिरभ्युक्षति यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ बृह. ६,४.२३ ॥ जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा । मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ६,४.२४ ॥ अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः । अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ ६,४.२५ ॥ अथास्य नाम करोति वेदोऽसीति । तदस्यैतद्गुह्यमेव नाम भवति ॥ बृह. ६,४.२६ ॥ अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ ६,४.२७ ॥ अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति । तं वा एतमाहुः अतिपिता बताभूः । अतिपितामहो बताभूः । परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन । य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ बृह. ६,४.२८ ॥ इति चतुर्थं ब्राह्मणम् ॥ पञ्चमं ब्राह्मणम् अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् । कात्यायनीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्र औपस्वस्तीपुत्रात् । औपस्वस्तीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रः कात्यायनीपुत्रात् । कात्यायनीपुत्रः कौशिकीपुत्रात् । कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च । वैयाघ्रपदीपुत्रह्काण्वीपुत्राच्च कापीपुत्राच्च । कापीपुत्रः ॥ बृह. ६,५.१ ॥ आत्रेयीपुत्रात् । आत्रेयीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वात्सीपुत्रात् । वात्सीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वार्कारुनीपुत्रात् । वार्कारुणीपुत्रो वार्कारुणीपुत्रात् । वार्कारुणीपुत्र आर्तभागीपुत्रात् । आर्तभागीपुत्रः शौङ्गीपुत्रात् । शौङ्गीपुत्रः सान्कृतीपुत्रात् । साङृतीपुत्र आलम्बायनीपुत्रात् । आलम्बायनीपुत्र आलम्बीपुत्रात् । आलम्बीपुत्रो जायन्तीपुत्रात् । जायन्तीपुत्रो माण्डूकायनीपुत्रात् । माण्डूकायनीपुत्रो माण्डूकीपुत्रात् । माण्डूकीपुत्रः शाण्डिलीपुत्रात् । शाण्डिलीपुत्रो राथीतरीपुत्रात् । राथीतरीपुत्रो भालुकीपुत्रात् । भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् । क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् । वैदभृतीपुत्रः कार्शकेयीपुत्रात् । कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् । प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् । साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः । प्राश्नीपुत्र आसुरायणात् । आसुरायण आसुरेः । आसुरिः। बृह. ६,५.२ ॥ याज्ञवल्क्यात् । याज्ञवल्क्य उद्दालकात् । उद्दालकोऽरुणात् । अरुण उपवेशेः । उपवेशिः कुश्रेः । कुश्रिर्वाजश्रवसः । वाजश्रवा जीह्वावतो बाध्योगात् । जीह्वावान् बाध्योगोऽसिताद्वार्षगणात् । असितो वार्षगणो हरितात्कश्यपात् । हरितः कश्यपः शिल्पात्कश्यपात् । शिल्पः कश्यपः कश्यपान्नैध्रुवेः । कश्यपो नैध्रुविर्वाचः । वागम्भिण्याः । अम्भिण्यादित्यात् । आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ बृह. ६,५.३ ॥ समानमा साञ्जीवीपुत्रात् । सञ्जिवीपुत्रो माण्डूकायनेः । माण्डूकायनिर्माण्डव्यात् । माण्डव्यः कौत्सात् । कौत्सो माहित्थेः । माहित्थिर्वामकक्षायणात् । वामकक्षायणः शाण्डिल्यात् । शाण्डिल्यो वात्स्यात् । वात्स्यः कुश्रेः । कुश्रिर्यज्ञवचसः राजस्तम्बायनात् । यज्ञवचा राजस्तम्बायनः तुरात्कावषेयात् । तुरः कावषेयः प्रजापतेः । प्रजापतिर्ब्रह्मणः । ब्रह्म स्वयंभु । ब्रह्मणे नमः ॥ बृह. ६,५.४ ॥ इति पञ्चमं ब्राह्मणम् ॥
इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥
इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥
प्रथमोऽध्यायः
द्वितीयोऽध्यायः
तृतीयोऽध्यायः
चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
षष्ठोऽध्यायः
Usa las flechas ← → del teclado para pasar de capítulo.