Capítulo 38 de 84
बालकाण्डम्/सर्गः ३८
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥ तां कथां कौशिको रामे निवेद्य मधुराक्षराम् । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१-३८-१॥ अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥१-३८-२॥ वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥१-३८-३॥ अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥१-३८-४॥ ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥१-३८-५॥ अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः । सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥१-३८-६॥ अपत्यलाभः सुमहान् भविष्यति तवानघ । कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥ एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥१-३८-८॥ भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥१-३८-९॥ एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति । श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१-३८-१०॥ तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः । उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥१-३८-११॥ एको वंशकरो वास्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥१-३८-१२॥ मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥१-३८-१३॥ षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा । महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥ प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् । जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥१-३८-१५॥ अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥१-३८-१६॥ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥१-३८-१७॥ घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१-३८-१८॥ अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१-३८-१९॥ स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥१-३८-२०॥ प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-२१॥ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१-३८-२२॥ सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥ सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता । स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा । यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥१-३८-२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
Usa las flechas ← → del teclado para pasar de capítulo.