Ir al contenido
The ConsciousLibrary

Capítulo 32 de 84

बालकाण्डम्/सर्गः ३२

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥ स महात्मा कुलीनायां युक्तायां सुमहाबलान् । वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥ कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् । दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥ तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः । क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥ कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥१-३२-५॥ कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥१-३२-६॥ असूर्तरजसो नाम धर्मारण्यं महीपतिः । चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥१-३२-७॥ एषा वसुमती राम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥१-३२-८॥ सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ । पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥१-३२-९॥ सैषा हि मागधी राम वसोस्तस्य महात्मनः । पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१-३२-१०॥ कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् । जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥१-३२-११॥ तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः । उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१-३२-१२॥ गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव । आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥ अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि । उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥ ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः । दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥ अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥ चलं हि यौवनं नित्यं मानुषेषु विशेषतः । अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥ तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः । अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥ अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम । प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥ कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम । स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥ मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् । अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥ पिता हि प्रभुरस्माकं दैवतं परमं च सः । यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥ तासां तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥१-३२-२३॥ अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः । ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥ स च ता दयिता भग्नाः कन्याः परमशोभनाः । दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ । एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Usa las flechas ← → del teclado para pasar de capítulo.

बालकाण्डम्/सर्गः ३२ · Bālakāṇḍa (Libro de la infancia) — Vālmīki · The Conscious Library