Ir al contenido
The ConsciousLibrary

Capítulo 28 de 84

बालकाण्डम्/सर्गः २८

श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः । गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥१-२८-१॥ गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि । अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-२॥ एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः । संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥१-२८-४॥ लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥१-२८-५॥ पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ । ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥१-२८-६॥ यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा । शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा । सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा ॥१-२८-७॥ पित्र्यः सौमनसश्चैव विधूतमकरावुभौ । परवीरं रतिं चैव धनधान्यौ च राघव ॥१-२८-८॥ कामरूपं कामरुचिं मोहमावरणं तथा । जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥१-२८-९॥ कृशाश्वतनयान् राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१-२८-१०॥ बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना । दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥ केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा । चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥१-२८-१२॥ रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः । इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१-२८-१३॥ गम्यतामिति तानाह यथेष्टं रघुनन्दनः । मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥१-२८-१४॥ अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् । एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१-२८-१५॥ स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् । गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१-२८-१६॥ किमेतन्मेघसंकाशं पर्वतस्याविदूरतः । वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥१-२८-१७॥ दर्शनीयं मृगाकीर्णं मनोहरमतीव च । नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-१८॥ निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् । अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥ सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् । संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥१-२८-२०॥ तव यज्ञस्य विघ्नाय दुरात्मानो महामुने । भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥ रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः । एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥१-२८-२१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Usa las flechas ← → del teclado para pasar de capítulo.

बालकाण्डम्/सर्गः २८ · Bālakāṇḍa (Libro de la infancia) — Vālmīki · The Conscious Library