Ir al contenido
The ConsciousLibrary

Capítulo 71 de 119

अयोध्याकाण्डम्/सर्गः ७१

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् । ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥ ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥ एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥ सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् । अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥ सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥ वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् । यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥ शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥ राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥ भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् । उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥ स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् । सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥ तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥ तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ । उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥ सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥ वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥ हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥ एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥ भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥ अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥ अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥ अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका । यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥ भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥ समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् । उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥ समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥ अरण्य भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥ निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥ जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥ स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥ सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥ प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥ किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥ निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥ तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥ भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥ द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥ सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥ अशुभाशङ्कि हृदयम् शीलम् च पततीव मे । श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥ आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥ असम्यतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥ अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥ अपेतमाल्यशोभानि असम्मृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥ देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥ दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै । ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥ देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥ मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् । सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥ इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥ ताम् शून्य शृन्ग अटक वेश्म रथ्याम् । रजो अरुण द्वार कपाट यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥ बहूनि पश्यन् मनसो अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक् शिरा दीन मना नहृष्टः । पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥ </poem> रामायणम्/अयोध्याकाण्डम् *सर्गः १ *सर्गः २ *सर्गः ३ *सर्गः ४ *सर्गः ५ *सर्गः ६ *सर्गः ७ *सर्गः ८ *सर्गः ९ *सर्गः १० *सर्गः ११ *सर्गः १२ *सर्गः १३ *सर्गः १४ *सर्गः १५ *सर्गः १६ *सर्गः १७ *सर्गः १८ *सर्गः १९ *सर्गः २० *सर्गः २१ *सर्गः २२ *सर्गः २३ *सर्गः २४ *सर्गः २५ *सर्गः २६ *सर्गः २७ *सर्गः २८ *सर्गः २९ *सर्गः ३० *सर्गः ३१ *सर्गः ३२ *सर्गः ३३ *सर्गः ३४ *सर्गः ३५ *सर्गः ३६ *सर्गः ३७ *सर्गः ३८ *सर्गः ३९ *सर्गः ४० *सर्गः ४१ *सर्गः ४२ *सर्गः ४३ *सर्गः ४४ *सर्गः ४५ *सर्गः ४६ *सर्गः ४७ *सर्गः ४८ *सर्गः ४९ *सर्गः ५० *सर्गः ५१ *सर्गः ५२ *सर्गः ५३ *सर्गः ५४ *सर्गः ५५ *सर्गः ५६ *सर्गः ५७ *सर्गः ५८ *सर्गः ५९ *सर्गः ६० *सर्गः ६१ *सर्गः ६२ *सर्गः ६३ *सर्गः ६४ *सर्गः ६५ *सर्गः ६६ *सर्गः ६७ *सर्गः ६८ *सर्गः ६९ *सर्गः ७० *सर्गः ७१ *सर्गः ७२ *सर्गः ७३ *सर्गः ७४ *सर्गः ७५ *सर्गः ७६ *सर्गः ७७ *सर्गः ७८ *सर्गः ७९ *सर्गः ८० *सर्गः ८१ *सर्गः ८२ *सर्गः ८३ *सर्गः ८४ *सर्गः ८५ *सर्गः ८६ *सर्गः ८७ *सर्गः ८८ *सर्गः ८९ *सर्गः ९० *सर्गः ९१ *सर्गः ९२ *सर्गः ९३ *सर्गः ९४ *सर्गः ९५ *सर्गः ९६ *सर्गः ९७ *सर्गः ९८ *सर्गः ९९ *सर्गः १०० *सर्गः १०१ *सर्गः १०२ *सर्गः १०३ *सर्गः १०४ *सर्गः १०५ *सर्गः १०६ *सर्गः १०७ *सर्गः १०८ *सर्गः १०९ *सर्गः ११० *सर्गः १११ *सर्गः ११२ *सर्गः ११३ *सर्गः ११४ *सर्गः ११५ *सर्गः ११६ *सर्गः ११७ *सर्गः ११८ *सर्गः ११९ स्रोतः[सम्पाद्यताम्] पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Usa las flechas ← → del teclado para pasar de capítulo.

अयोध्याकाण्डम्/सर्गः ७१ · Ayodhyākāṇḍa (Libro de Ayodhyā) — Vālmīki · The Conscious Library