Ir al contenido
The ConsciousLibrary

Capítulo 2 de 4

गौडपादकारिका (cuatro prakaraṇa) · 2 · 1

(अथ गौडपादीयकारिकायां वैतथ्याख्यं द्वितीयं प्रकरणम् /द्वितीयं प्रकरणम् [ष्]वैतथ्यप्रकरणम्)   वैतथ्यं सर्वभावानां स्वप्ने आहुर्मनीषिणः  । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना  ॥ २.१ ॥ अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति  । प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते  ॥ २.२ ॥ अभावश्च रथादीनां श्रूयते न्यायपूर्वकम्  । वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम्  ॥ २.३ ॥ अन्तःस्थानात्तु भेदानां (तस्माज्/तथा) जागरिते स्मृतम्  । यथा तत्र तथा स्वप्ने (संवृतत्वेन /संवृतत्वं न) भिद्यते  ॥ २.४ ॥ (स्वप्नजागरितस्थाने /ष्]स्वप्नजागरिते स्थाने) ह्येकमाहुर्मनीषिणः  । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना  ॥ २.५ ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा  । वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः  ॥ २.६ ॥ सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते /अपि प्रतिपद्यते)  । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः  ॥ २.७ ॥ (अपूर्वं /अपूर्वाः) स्थानि(धर्मो /धर्मा) हि यथा स्वर्गनिवासिनाम्  । तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः  ॥ २.८ ॥ स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः  ॥ २.९ ॥ जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः  ॥ २.१० ॥ उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि  । क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः  ॥ २.११ ॥ कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया  । स एव बुध्यते भेदानिति वेदान्तनिश्चयः  ॥ २.१२ ॥ विकरोत्यपरान् भावानन्तश्चित्ते (व्यवस्थितान् /अव्यवस्थितान्)  । नियतांश्च बहिश्चित्ते एवं कल्पयते प्रभुः  ॥ २.१३ ॥ चित्त(काला हि /कालाश्च) येऽन्तस्तु द्वयकालाश्च ये बहिः  । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः  ॥ २.१४ ॥ अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः  । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे  ॥ २.१५ ॥ जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान्  । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः  ॥ २.१६ ॥ अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता  । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः  ॥ २.१७ ॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते  । रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः  ॥ २.१८ ॥ प्राणादिभिर्(अनन्तैश्च /ष्]अनन्तैस्तु)  भावैरेतैर्विकल्पितः  । मायैषा तस्य देवस्य (यया संमोहितः /ष्]ययायं मोहितः) स्वयम्  ॥ २.१९ ॥ (प्राण /प्राणा) इति प्राणविदो भूतानीति च तद्विदः  । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः  ॥ २.२० ॥ पादा इति पादविदो विषया इति तद्विदः  । लोका इति लोकविदो देवा इति च तद्विदः  ॥ २.२१ ॥ वेदा इति वेदविदो यज्ञा इति च तद्विदः  । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः  ॥ २.२२ ॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः  । मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः  ॥ २.२३ ॥ काल इति कालविदो दिश इति च तद्विदः  । वादा इति वादविदो भुवनानीति तद्विदः  ॥ २.२४ ॥ मन इति मनोविदो बुद्धिरिति च तद्विदः  । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः  ॥ २.२५ ॥ पञ्चविंशक इत्येके षड्विंश इति चापरे  । एकत्रिंशक इत्याहुरनन्त इति चापरे  ॥ २.२६ ॥ लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः  । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे  ॥ २.२७ ॥ सृष्टिरिति सृष्टिविदो लय इति च तद्विदः  । स्थितिरिति स्थितिविदः (सर्वे /सर्वं) चेह तु सर्वदा  ॥ २.२८ ॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति  । तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम्  ॥ २.२९ ॥ एतैरेषो अपृथग्भावैः पृथगेवेति लक्षितः  । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः  ॥ २.३० ॥ स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा  । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः  ॥ २.३१ ॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः  । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता  ॥ २.३२ ॥ भावैरसद्भिरेवायमद्वयेन च कल्पितः  । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा  ॥ २.३३ ॥ (नात्म/नान्य)भावेन नानेदं न स्वेनापि कथंचन  । न पृथङ्नापृथक्किंचिदिति तत्त्वविदो विदुः  ॥ २.३४ ॥ वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः  । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः  ॥ २.३५ ॥ तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम्  । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ २.३६ ॥ निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च  । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ २.३७ ॥ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः  । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ २.३८ ॥   [चोलिति (गौडपादीयकारिकायां /गौडपादीये आगमशास्त्रे [ष्]गौडपादीयकारिकासु)वैतथ्याख्यं द्वितीयं (प्रकरणम् /प्रकरणं समाप्तम्) चोल्]

Usa las flechas ← → del teclado para pasar de capítulo.

गौडपादकारिका (cuatro prakaraṇa) · 2 · 1 · Māṇḍūkya Kārikā (Āgama Śāstra, Estrofas de Gauḍapāda) — Gauḍapāda · The Conscious Library