Ir al contenido
The ConsciousLibrary

Capítulo 7 de 10

जाबालदर्शनोपनिषत् · 7 · 1

अथातः संप्रवक्श्यामि प्रत्याहारं महामुने । इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥ १॥ बलादाहरणां तेषां प्रत्याहारः स उच्यते । यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥ २॥ प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः । यद्यच्च्हुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥ ३॥ तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते । अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥ ४॥ काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते । अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् ॥ ५॥ दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् । उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् ॥ ६॥ नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् । कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७॥ अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे । तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ॥ ८॥ प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा । एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥ ९॥ सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत । नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ १०॥ पूरयेदनिलं विद्वानापादतलमस्तकम् । पश्चात्पादद्वये तद्वन्मूलाधरे तथैव च ॥ ११॥ नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके । भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ॥ १२॥ देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः । आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥ १३॥ प्रत्याहारः समाख्यातः साक्शाद्वेदान्तवेदिभिः । एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥ १४॥ इति॥ इति सप्तमः खण्डः ॥ ७॥

Usa las flechas ← → del teclado para pasar de capítulo.

जाबालदर्शनोपनिषत् · 7 · 1 · Jābāladarśana Upaniṣad (Darśana Upaniṣad) — Dattātreya · The Conscious Library