Ir al contenido
The ConsciousLibrary

Capítulo 5 de 10

जाबालदर्शनोपनिषत् · 5 · 1

सम्यक्कथय मे ब्रह्मन्नाडीशुद्धिं समासतः । यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ ५.१॥ साङ्कृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः । विध्युक्तकर्मसंयुक्तः कामसङ्कल्पवर्जितः ॥ २॥ यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः । स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ ३॥ पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा । मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥ आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा । समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥ नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् । स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥ इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥ बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् । पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥ पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् । पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥ त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च । षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥ नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥ नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् । यावदेतानि सम्पश्येत्तावदेवं समाचरेत् ॥ १२॥ अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् । आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः ॥ १३॥ अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् । अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः । स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥ इति॥ इति पञ्चमः खण्डः ॥ ५॥

Usa las flechas ← → del teclado para pasar de capítulo.

जाबालदर्शनोपनिषत् · 5 · 1 · Jābāladarśana Upaniṣad (Darśana Upaniṣad) — Dattātreya · The Conscious Library