Ir al contenido
The ConsciousLibrary

Capítulo 13 de 22

१३

जनक उवाच॥ अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्मादहमासे यथासुखम्॥१३- १॥ कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥ कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥ कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः। संयोगायोगविरहादहमासे यथासुखम्॥१३- ४॥ अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥ स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्मदहमासे यथासुखम्॥१३- ६॥ सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः। शुभाशुभे विहायास्मादहमासे यथासुखम्॥१३- ७॥

Usa las flechas ← → del teclado para pasar de capítulo.

१३ · Aṣṭāvakra Gītā (Canto de Aṣṭāvakra) — Aṣṭāvakra · The Conscious Library