Ir al contenido
The ConsciousLibrary

Capítulo 31 de 36

· 31

अहो खलु कष्टं वतन्ते, इत्यनु क्ोरां दशेयति भगवान्‌ ॥ 8 8. 1

किंनिमित्तं मामेव न प्रपद्यन्ते इत्युच्यते- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं मावभमजानन्तो ममाव्ययमनुत्तमम्‌ ॥ २४॥

अव्यक्तम्‌ अप्रकाशं व्यक्तिम्‌ आपन्न प्रकाश गतम्‌ इदानीं मन्यन्ते मां निलप्रसिद्धमीश्चरमपि सन्तम्‌ अबुद्धयः अविवेकिनः परं भावे परमात्मखरूपम्‌ अजानन्तः अविवे- किनः मम अभ्ययं व्ययरहितम्‌ अनुत्तम निरतिशय मदीयं भावमजानन्तः मन्यन्ते इयर्थः ॥

तदज्ञानं किनिमित्तमित्युच्यते-- नाहं प्रकाराः सर्वस्य योगमायासमाघ्रतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्‌ ।

न अहं प्रकाश्चः सवस्य टोकख, केषांचिदेव मद्भक्तानां प्रकाराः अहमियभिप्रायः। योगमायासमावृतः योगः गुणानां युक्तिः घटनं सैव माया योगमाया, तया योगमायया समा- वृतः, संछन्नः इत्यथः । अत एव मूढो छोकः अयं न अभि- जानाति माम्‌ अजम्‌ अव्ययम्‌ ॥

यया योगमायया समाव्रृतं मां रोकः नाभिजानाति,

नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति, यथा अन्यस्यापि मायाविनः मायाज्ञाने तद्त्‌ ।॥

वेदाहं समतीतानि वतैमानानि चान । भविष्याणि च मूतानिमांतु वेद्‌ न कञ्चन ॥

अहं तु वेद्‌ जाने समतीतानि समतिक्रान्तानि भूतानि, बतेमानानि च अज्चैन, भविष्याणि च मृतानि वेद्‌ अहम्‌ । मां तु वेद न क्श्चन मद्भक्तं मच्छरणम्‌ एकं मुक्त्वा, मत्त- न्ववेदनाभावादेव न मां मजते ॥

केन पुन. मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सवैभूतानि मां न विदन्ति इल्यपेश्चायाभि- दमाह- इच्छादेषसमुत्येन दन्दमोदेन भारत । स्बश्रतानि संमोहं सर्गे यान्ति परंतप ॥ २७॥

इच्छाद्रेषसमुत्थेन इच्छा च देष इच्छाद्रेषौ ताभ्यां समुत्तिष्ठतीति इच्छाद्धेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन । केनेति विरेषापेश्चायामिदमाद-- दन्दमोहेन इन्दनिमित्तः मोहः ्रन्द्रमोहः तेन । तावेव इच्छाद्रेषो शीतोष्णवत्‌ परस्परविरुद्धौ

सुखदुःखतद्धेतुविषयौ यथाकारं सर्वैमूतैः संबध्यमानौ इन्द्र शब्देन अभिधीयेते । तत्त यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसं- प्राप्या छन्धात्मको भवत., तदा तौ सैभूतानां प्रज्ञाया. स्ववशापादनद्रारेण परमाथीत्मतत्त्वविषयज्ञानोत्पत्तिप्रतिवन्ध- कारणं मोह जनयतः । न हि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूताथेविषयज्ञानसुत्पद्यते बहिरपि, किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः संमूढस्य प्रयगात्मनि बहूप्रतिबन्धे ज्ञानं नोत्पद्यत इति । अतः तेन इच्छदेषसमुत्थेन न्द्रमोहेन, भारत भरतान्वयज, सवैभूतानि संमोहितानि सन्ति संमोह संमूढतां सर्गे जन्मनि, उत्पत्निकाङे इयेतत्‌, यान्ति गच्छन्ति है परंतप । मोहवश्ान्येव सवैभूतानि जायमा- नानि जायन्ते इत्यभिप्राय. । यत. एवम्‌, अतः तेन दन्द मोहेन प्रतिबद्धभरज्ञानानि सवैभूतानि संमोहितानि मामात्म- भूतं न जानन्ति, अत एव आत्मभावेन मां न भजन्ते ॥

के पुनः अनेन द्रन्द्रमोहेन नियुक्ताः सन्तः त्वां विदि- स्वा यथाश्शाख्मात्मभावेन मजन्ते इट्यपेक्षितमथ दरीयितुम्‌ उच्यते-- येषां त्वन्तगतं पापं 4 ¢ जनानां पुण्यकमेणाम्‌ ।

१९ बन्दमोहदनिभक्ता ¢ ते उन्मादं ४. जन्त मा दृढव्रताः ॥ २८ ॥ येषां तु पुनः अन्तगतं समाप्रप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्य कम येषां सत्त्व्ुद्धिकारणं विद्यते ते पुण्य- कमणः तेषां पुण्यकमेणाम्‌, ते हन्द्रमोहनिर्युक्ताः यथोक्तेन द्रन्द्रमोहेन निमुक्ता. भजन्ते मां परमात्मानं दृढव्रताः । ‹ एवमेव परमाथेतच्ं नान्यथा ' इयेवं सर्वपरिलयागव्रतेन निधितविज्ञानाः दृढव्रताः उच्यन्ते ॥ ते किमर्थं भजन्ते इत्युच्यते-

जरामरणमोक्षाय मामाभिदय यतन्ति ये। ते ब्रह्म तद्धिष्ुः कृत्सल- मध्यात्मं कमे चाखिलम्‌ ॥ २९ ॥ जरामरणमोश्चाय जरामरणयोः मोक्षाथं मां परमेश्वरम्‌ आशित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत्‌ ब्रह्म परं तत्‌ विदुः कत्छं समस्तम्‌ अध्यात्मं प्रयगात्मविषयं वस्तु तत्‌ विदुः, कमं च अखिं समस्तं विदुः ॥

साधिभूताधिदैवं मां साधियज्ञं च.ये विदुः, प्रयाणकारेऽपि च मां ते बिदुयुक्तचेतसः ॥

इति श्रीमहाभारते शतसाहस्षयं संहितायां वेयासिक्यां मीष्मपवेणि श्रीमद्धगवद्धीतासूपनिष्यु ब्रह्मविद्याया योगदास्ञे श्रीकृष्णाजनसंवादे ज्ञानविज्ञानयोगो नाम सप्रमोऽध्यायः ॥ साधिभूताधिदैवम्‌ अधिभूतं च अधिदैवं च अधिमूताधि- दैवम्‌, सह अधिभूताधिदैवेन वतेते इति साधिभूताधिदैवं च मां ये विदुः, साधियज्ञं च सह्‌ अधियज्ञेन साधियज्ञं ये बि- दुः, प्रयाणकाङे मरणकारे अपि च मां ते विदुः युक्तचेतसः. समाहितचित्ता इति ॥

इति श्रीमत्परमहसपरि्राजकाचायंस्य श्रीगोविन्दभगवत्पूज्यपाद- शिष्यस्य श्रीमच्छकरभगवतः कृतौ श्रीमद्धगवद्धीताभष्ये सत्तमोऽध्यायः ॥

| बरह्म तद्विदु छत्रम्‌ ` इत्यादिना भगवता / अजनस्य प्र्रवीजानि उपदिष्टानि । अत ७24 ततरश्रार्थम्‌ अञ्जन उवाच

कि तद्रद्य किमध्यात्मं किं कमे पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किसुच्यते ॥ १॥

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥

एषां प्र्ानां यथाक्रमं निणेयाय श्रीमगवादुवाच- श्रीमगवायुवाच- अक्षरं ब्रह्य परमं खभावोऽध्यात्मसुच्यते । भूतभावोद्धवकरो विसरः कमेसंक्ञितः ॥ ३ ॥

अक्षरं न क्षरतीति अक्षरं परमात्मा, ‹ एतस्य वा अक्षरस्य भ्रश्षासने गाथ › इति श्रुतेः । ओकारस्य च ‹ ओमिदयेकाक्षर ब्रह्म ` इति परेण विशेषणात्‌ अग्रहणम्‌ । परमम्‌ इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम्‌ चिरोषणम्‌ । तस्यैव परस्य ह्मणः प्रतिदेहं प्रयगात्मभावः स्वभावः, स्वो भाव, स्वभावः अध्यात्मम्‌ उच्यते। आत्मानं देहम्‌ अधिकृत्य प्रयगा- त्मतया प्रवृत्तं परमाथेब्रह्मावसानं वस्तु स्वभावः अध्यासम्‌ उ- च्यते अध्यात्मशब्देन अभिधीयते । भूलभावोद्धवकरः भूतानां भाव. भूतभावः तद्य उद्धव" भूतभावोद्धवः तं करोतीति भूत- भावोद्धवकरः, भूतवस्तूरपत्तिकर इत्यथैः । विसर्गः विसजजनं देवतोदेशेन चरपुरोडाश्चादेः द्रव्यस्य परिलयागः; स एष विसगैरक्षणो यज्ञः कमेसंक्ञितः कमेशब्दित, इत्येतत्‌ । एत- स्मान्‌ हि बीजभूतात्‌ वष्टधादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति ॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदेवतम्‌। अधियज्ञोऽदहमेवाच्र देहे देहभ्रतां वर ॥ ४ ॥

अधिभूतं प्राणिजातम्‌ अधिषलय भवतीति । कोऽसौ क्षरः क्षरतीति क्षरः विनाङ्ी, भावः यर्किचित्‌ जनिमत्‌

वस्तु इयथः । पुरुषः पृणेम्‌ अनेन सवेमिति, पुरि रायनात्‌

वा, पुरुषः आदियान्तगैतो हिरण्यगभः, सर्वप्राणिकरणानाम्‌ अनुभाहकः; सः अधिदैवतम्‌ । अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, (यज्ञो वे विष्णुः इति श्रुतेः । स दहि विष्णु. अहमेव, अत्र अस्मिन्‌ देहे यो यज्ञः तस्य अहम्‌ अधियज्ञः, यज्ञो हि देहनिवैयेत्वेन देहसमवायी इति देहा- धिकरणो भवति, देहभ्रतां वर ॥

यः पयाति स भद्धावं याति नास्वयच्र संदाय ॥

अन्तकारे मरणक्राङे च मामेव परमेश्वरं बिष्णु स्मरन्‌ मुक्त्वा परियञ्य केवरं शरीरं यः प्रयाति गच्छति, सः मद्भावं वैष्णवं तत्त्वं याति । नासि न विद्यते अत्र अस्मिन्‌ अर्थे संशय. याति बान वा इति॥

न मद्धिषय एव अयं नियमः । कि तहिं - यं यं वापि स्मरन्भावं त्जलयन्ते कलेबरम्‌ । तं तमेवैति क्तैन्तेय सदा तद्भावभावितः ॥ ६॥

Usa las flechas ← → del teclado para pasar de capítulo.

· 31 · Comentario a la Bhagavadgītā — Adi Shankara · The Conscious Library