Skip to content
The ConsciousLibrary

Chapter 9 of 22

९

अष्टावक्र उवाच॥ कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा। एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती॥९- १॥ कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्। जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः॥९- २॥ अनित्यं सर्वमेवेदं तापत्रयदूषितं। असरं निन्दितं हेयमिति निश्चित्य शाम्यति॥९- ३॥ कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां। तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्॥९- ४॥ ना मतं महर्षीणां साधूनां योगिनां तथा। दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः॥९- ५॥ कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः। निर्वेदसमतायुक्त्या यस्तारयति संसृतेः॥९- ६॥ पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः। तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि॥९- ७॥ वासना एव संसार इति सर्वा विमुंच ताः। तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा॥९- ८॥

Use the ← → keys to move between chapters.

९ · Aṣṭāvakra Gītā (The Song of Aṣṭāvakra) — Ashtavakra · The Conscious Library