Skip to content
The ConsciousLibrary

Chapter 8 of 22

८

अष्टावक्र उवाच॥ तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति। किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति॥८- १॥ तदा मुक्तिर्यदा चित्तं न वांछति न शोचति। न मुंचति न गृण्हाति न हृष्यति न कुप्यति॥८- २॥ तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु। तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु॥८- ३॥ यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा। मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा॥८- ४॥

Use the ← → keys to move between chapters.

८ · Aṣṭāvakra Gītā (The Song of Aṣṭāvakra) — Ashtavakra · The Conscious Library