Chapter 7 of 22
७
जनक उवाच॥ मय्यनंतमहांभोधौ विश्वपोत इतस्ततः। भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता॥७- १॥ मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः। उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः॥७- २॥ मय्यनंतमहांभोधौ विश्वं नाम विकल्पना। अतिशांतो निराकार एतदेवाहमास्थितः॥७- ३॥ नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने। इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः॥७- ४॥ अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्। इति मम कथं कुत्र हेयोपादेयकल्पना॥७- ५॥
Use the ← → keys to move between chapters.