Chapter 6 of 22
६
अष्टावक्र उवाच॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- १॥ महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- २॥ अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- ३॥ अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- ४॥
Use the ← → keys to move between chapters.