Skip to content
The ConsciousLibrary

Chapter 5 of 22

५

अष्टावक्र उवाच॥ न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि। संघातविलयं कुर्वन्नेवमेव लयं व्रज॥५- १॥ उदेति भवतो विश्वं वारिधेरिव बुद्बुदः। इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज॥५- २॥ प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि। रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज॥५- ३॥ समदुःखसुखः पूर्ण आशानैराश्ययोः समः। समजीवितमृत्युः सन्नेवमेव लयं व्रज॥५- ४॥

Use the ← → keys to move between chapters.

५ · Aṣṭāvakra Gītā (The Song of Aṣṭāvakra) — Ashtavakra · The Conscious Library