Skip to content
The ConsciousLibrary

Chapter 4 of 22

४

अष्टावक्र उवाच॥ हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया। न हि संसारवाहीकैर्मूढैः सह समानता॥४- १॥ यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः। अहो तत्र स्थितो योगी न हर्षमुपगच्छति॥४- २॥ तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते। न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः॥४- ३॥ आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना। यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः॥४- ४॥ आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे। विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने॥४- ५॥ आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं। यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित्॥४- ६॥

Use the ← → keys to move between chapters.

४ · Aṣṭāvakra Gītā (The Song of Aṣṭāvakra) — Ashtavakra · The Conscious Library