Chapter 3 of 22
३
अष्टावक्र उवाच॥ अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः। तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः॥३- १॥ आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे। शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे॥३- २॥ विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे। सोऽहमस्मीति विज्ञाय किं दीन इव धावसि॥३- ३॥ श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरं। उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति॥३- ४॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते॥३- ५॥ आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः। आश्चर्यं कामवशगो विकलः केलिशिक्षया॥३- ६॥ उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः। आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः॥३- ७॥ इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः। आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका॥३- ८॥ धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा। आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति॥३- ९॥ चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत्। संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः॥३- १०॥ मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः। अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः॥३- ११॥ निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः। तस्यात्मज्ञानतृप्तस्य तुलना केन जायते॥३- १२॥ स्वभावाद् एव जानानो दृश्यमेतन्न किंचन। इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः॥३- १३॥ अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः। यदृच्छयागतो भोगो न दुःखाय न तुष्टये॥३- १४॥
Use the ← → keys to move between chapters.