Skip to content
The ConsciousLibrary

Chapter 2 of 22

२

जनक उवाच॥ अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः। एतावन्तमहं कालं मोहेनैव विडंबितः॥२- १॥ यथा प्रकाशयाम्येको देहमेनं तथा जगत्। अतो मम जगत्सर्वमथवा न च किंचन॥२- २॥ स शरीरमहो विश्वं परित्यज्य मयाधुना। कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते॥२- ३॥ यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः। आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम्॥२- ४॥ तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः। आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम्॥२- ५॥ यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा। तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम्॥२- ६॥ आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते। रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि॥२- ७॥ प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः। यदा प्रकाशते विश्वं तदाहं भास एव हि॥२- ८॥ अहो विकल्पितं विश्वमज्ञानान्मयि भासते। रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा॥२- ९॥ मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति। मृदि कुंभो जले वीचिः कनके कटकं यथा॥२- १०॥ अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे। ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः॥२- ११॥ अहो अहं नमो मह्यं एकोऽहं देहवानपि। क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः॥२- १२॥ अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः। असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम्॥२- १३॥ अहो अहं नमो मह्यं यस्य मे नास्ति किंचन। अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम्॥२- १४॥ ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं। अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः॥२- १५॥ द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजं। दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः॥२- १६॥ बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया। एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम॥२- १७॥ न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया। अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम्॥२- १८॥ सशरीरमिदं विश्वं न किंचिदिति निश्चितं। शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना॥२- १९॥ शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा। कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः॥२- २०॥ अहो जनसमूहेऽपि न द्वैतं पश्यतो मम। अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम्॥२- २१॥ नाहं देहो न मे देहो जीवो नाहमहं हि चित्। अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा॥२- २२॥ अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितं। मय्यनंतमहांभोधौ चित्तवाते समुद्यते॥२- २३॥ मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति। अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः॥२- २४॥ मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः। उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः॥२- २५॥

Use the ← → keys to move between chapters.

२ · Aṣṭāvakra Gītā (The Song of Aṣṭāvakra) — Ashtavakra · The Conscious Library