Chapter 10 of 22
१०
अष्टावक्र उवाच॥ विहाय वैरिणं काममर्थं चानर्थसंकुलं। धर्ममप्येतयोर्हेतुं सर्वत्रादरं कुरु॥१०- १॥ स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पंच वा। मित्रक्षेत्रधनागारदारदायादिसंपदः॥१०- २॥ यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै। प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव॥१०- ३॥ तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते। भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः॥१०- ४॥ त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा। अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते॥१०- ५॥ राज्यं सुताः कलत्राणि शरीराणि सुखानि च। संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि॥१०- ६॥ अलमर्थेन कामेन सुकृतेनापि कर्मणा। एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः॥१०- ७॥ कृतं न कति जन्मानि कायेन मनसा गिरा। दुःखमायासदं कर्म तदद्याप्युपरम्यताम्॥१०- ८॥
Use the ← → keys to move between chapters.