Chapter 18 of 22
१८
अष्टावक्र उवाच॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः। तस्मै सुखैकरूपाय नमः शान्ताय तेजसे॥१८- १॥ अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान्। न हि सर्वपरित्याजमन्तरेण सुखी भवेत्॥१८- २॥ कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः। कुतः प्रशमपीयूषधारासारमृते सुखम्॥१८- ३॥ भवोऽयं भावनामात्रो न किंचित् परमर्थतः। नास्त्यभावः स्वभावनां भावाभावविभाविनाम्॥१८- ४॥ न दूरं न च संकोचाल्लब्धमेवात्मनः पदं। निर्विकल्पं निरायासं निर्विकारं निरंजनम्॥१८- ५॥ व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजन्ते निरावरणदृष्टयः॥१८- ६॥ समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्॥१८- ७॥ आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किं विजानाति किं ब्रूते च करोति किम्॥१८- ८॥ अयं सोऽहमयं नाहं इति क्षीणा विकल्पना। सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः॥१८- ९॥ न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता। न सुखं न च वा दुःखं उपशान्तस्य योगिनः॥१८- १०॥ स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः॥१८- ११॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः॥१८- १२॥ कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः॥१८- १३॥ क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता। सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः॥१८- १४॥ येन विश्वमिदं दृष्टं स नास्तीति करोतु वै। निर्वासनः किं कुरुते पश्यन्नपि न पश्यति॥१८- १५॥ येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत्। किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति॥१८- १६॥ दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ। उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम्॥१८- १७॥ धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्। नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति॥१८- १८॥ भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः। नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता॥१८- १९॥ प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः। यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम्॥१८- २०॥ निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः। क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत्॥१८- २१॥ असंसारस्य तु क्वापि न हर्षो न विषादिता। स शीतलहमना नित्यं विदेह इव राजये॥१८- २२॥ कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित्। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः॥१८- २३॥ प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता॥१८- २४॥ कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न॥१८- २५॥ अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥१८- २६॥ नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः। न कल्पते न जाति न शृणोति न पश्यति॥१८- २७॥ असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः॥१८- २८॥ यस्यान्तः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिदकृतं कृतम्॥१८- २९॥ नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितं। निराशं गतसन्देहं चित्तं मुक्तस्य राजते॥१८- ३०॥ निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते॥१८- ३१॥ तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां। अथवा याति संकोचममूढः कोऽपि मूढवत्॥१८- ३२॥ एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं। धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः॥१८- ३३॥ अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं। तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः॥१८- ३४॥ शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः॥१८- ३५॥ नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥१८- ३६॥ मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्॥१८- ३७॥ निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः॥१८- ३८॥ न शान्तिं लभते मूढो यतः शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः॥१८- ३९॥ क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते। धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम्॥१८- ४०॥ क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै। स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥१८- ४१॥ भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः। उभयाभावकः कश्चिद् एवमेव निराकुलः॥१८- ४२॥ शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः। न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः॥१८- ४३॥ मुमुक्षोर्बुद्धिरालंबमन्तरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा॥१८- ४४॥ विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये॥१८- ४५॥ निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः॥१८- ४६॥ न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्॥१८- ४७॥ वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचारमौदास्यं वा प्रपश्यति॥१८- ४८॥ यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्॥१८- ४९॥ स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम्॥१८- ५०॥ अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः॥१८- ५१॥ उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा॥१८- ५२॥ विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥१८- ५३॥ श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना॥१८- ५४॥ भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्॥१८- ५५॥ सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तां तादृशा एव जानते॥१८- ५६॥ कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः॥१८- ५७॥ अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः। कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः॥१८- ५८॥ सुखमास्ते सुखं शेते सुखमायाति याति च। सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः॥१८- ५९॥ स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः। महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते॥१८- ६०॥ निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते। प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी॥१८- ६१॥ परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य क्व रागः क्व विरागता॥१८- ६२॥ भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा। भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी॥१८- ६३॥ सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः। न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि॥१८- ६४॥ स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः॥१८- ६५॥ क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥१८- ६६॥ स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते॥१८- ६७॥ बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः॥१८- ६८॥ महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते॥१८- ६९॥ भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति॥१८- ७०॥ शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा॥१८- ७१॥ स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता॥१८- ७२॥ बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः॥१८- ७३॥ अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा॥१८- ७४॥ निरोधादीनि कर्माणि जहाति जडधीर्यदि। मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्॥१८- ७५॥ मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां। निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः॥१८- ७६॥ ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्। नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन॥१८- ७७॥ क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन। निर्विकारस्य धीरस्य निरातंकस्य सर्वदा॥१८- ७८॥ क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा। अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः॥१८- ७९॥ न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि। बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन॥१८- ८०॥ नैव प्रार्थयते लाभं नालाभेनानुशोचति। धीरस्य शीतलं चित्तममृतेनैव पूरितम्॥१८- ८१॥ न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति। समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति॥१८- ८२॥ धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति। हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति॥१८- ८३॥ निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च। निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः॥१८- ८४॥ तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः। स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः॥१८- ८५॥ पततूदेतु वा देहो नास्य चिन्ता महात्मनः। स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः॥१८- ८६॥ अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः। असक्तः सर्वभावेषु केवलो रमते बुधः॥१८- ८७॥ निर्ममः शोभते धीरः समलोष्टाश्मकांचनः। सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः॥१८- ८८॥ सर्वत्रानवधानस्य न किंचिद् वासना हृदि। मुक्तात्मनो वितृप्तस्य तुलना केन जायते॥१८- ८९॥ जानन्नपि न जानाति पश्यन्नपि न पश्यति। ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते॥१८- ९०॥ भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते। भावेषु गलिता यस्य शोभनाशोभना मतिः॥१८- ९१॥ क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः। निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः॥१८- ९२॥ आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना। अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते॥१८- ९३॥ सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च। जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे॥१८- ९४॥ ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः॥१८- ९५॥ न सुखी न च वा दुःखी न विरक्तो न संगवान्। न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन॥१८- ९६॥ विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्। जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः॥१८- ९७॥ मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः। समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्॥१८- ९८॥ न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति। नैवोद्विजति मरणे जीवने नाभिनन्दति॥१८- ९९॥ न धावति जनाकीर्णं नारण्यं उपशान्तधीः। यथातथा यत्रतत्र सम एवावतिष्ठते॥१८- १००॥
Use the ← → keys to move between chapters.