Chapter 17 of 22
१७
अष्टावक्र उवाच॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः॥१७- १॥ न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति। यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्॥१७- २॥ न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः॥१७- ३॥ यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता। अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः॥१७- ४॥ बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः॥१७- ५॥ धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि॥१७- ६॥ वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्॥१७- ७॥ कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्॥१७- ८॥ शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे॥१७- ९॥ न जगर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः॥१७- १०॥ सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासना मुक्तो मुक्तः सर्वत्र राजते॥१७- ११॥ पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः॥१७- १२॥ न निन्दति न च स्तौति न हृष्यति न कुप्यति। न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः॥१७- १३॥ सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं। अविह्वलमनाः स्वस्थो मुक्त एव महाशयः॥१७- १४॥ सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः॥१७- १५॥ न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे॥१७- १६॥ न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते॥१७- १७॥ समाधानसमाधानहिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः॥१७- १८॥ निर्ममो निरहंकारो न किंचिदिति निश्चितः। अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न॥१७- १९॥ मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः। दशां कामपि संप्राप्तो भवेद् गलितमानसः॥१७- २०॥
Use the ← → keys to move between chapters.