Skip to content
The ConsciousLibrary

Chapter 16 of 22

१६

अष्टावक्र उवाच॥ आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः। तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते॥१६- १॥ भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते। चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति॥१६- २॥ आयासात्सकलो दुःखी नैनं जानाति कश्चन। अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्॥१६- ३॥ व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि। तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित्॥१६- ४॥ इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः। धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत्॥१६- ५॥ विरक्तो विषयद्वेष्टा रागी विषयलोलुपः। ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान्॥१६- ६॥ हेयोपादेयता तावत्संसारविटपांकुरः। स्पृहा जीवति यावद् वै निर्विचारदशास्पदम्॥१६- ७॥ प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि। निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः॥१६- ८॥ हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति॥१६- ९॥ यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ॥१६- १०॥ हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वाथ्यं सर्वविस्मरणादृते॥१६- ११॥

Use the ← → keys to move between chapters.

१६ · Aṣṭāvakra Gītā (The Song of Aṣṭāvakra) — Ashtavakra · The Conscious Library