Chapter 15 of 22
१५
अष्टावक्र उवाच॥ यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्। आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति॥१५- १॥ मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः। एतावदेव विज्ञानं यथेच्छसि तथा कुरु॥१५- २॥ वाग्मिप्राज्ञानमहोद्योगं जनं मूकजडालसं। करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः॥१५- ३॥ न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्। चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर॥१५- ४॥ रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन। निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर॥१५- ५॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव॥१५- ६॥ विश्वं स्फुरति यत्रेदं तरंगा इव सागरे। तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव॥१५- ७॥ श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः। ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः॥१५- ८॥ गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च। आत्मा न गंता नागंता किमेनमनुशोचसि॥१५- ९॥ देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः। क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः॥१५- १०॥ त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः। उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः॥१५- ११॥ तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत्। अतः कस्य कथं कुत्र हेयोपादेयकल्पना॥१५- १२॥ एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि। कुतो जन्म कुतो कर्म कुतोऽहंकार एव च॥१५- १३॥ यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे। किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम्॥१५- १४॥ अयं सोऽहमयं नाहं विभागमिति संत्यज। सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव॥१५- १५॥ तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः। त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन॥१५- १६॥ भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥१५- १७॥ एक एव भवांभोधावासीदस्ति भविष्यति। न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर॥१५- १८॥ मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय। उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे॥१५- १९॥ त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय। आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि॥१५- २०॥
Use the ← → keys to move between chapters.