Chapter 14 of 22
१४
जनक उवाच॥ प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः। निद्रितो बोधित इव क्षीणसंस्मरणो हि सः॥१४- १॥ क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः। क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥ विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे। नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम॥१४- ३॥ अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः। भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते॥१४- ४॥
Use the ← → keys to move between chapters.