Chapter 19 of 22
१९
जनक उवाच॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात्। नाविधपरामर्शशल्योद्धारः कृतो मया॥१९- १॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥ क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा। क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥ क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा। क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥ क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा। क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥ क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा। क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥ क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं। क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥ अलं त्रिवर्गकथया योगस्य कथयाप्यलं। अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥
Use the ← → keys to move between chapters.