Chapter 12 of 26
· 12
इति । अपि चानन्दप्रचुर् इत्युक्ते दुःखास्पीयस्त्वमपि गम्यते
प्राचुयंस्य रोके प्रतियोग्यल्पत्वापेक्षृत्वात् । तथा च सति “यतर नान्यत्पर्यति, नान्यच्छृणोति, नान्यद्विजानाति, स मूमा इति मून्नि ब्रह्मणि तन्यतिरिक्ताभावश्रतिरुपरुध्येत । प्रतिशरीरं च प्रियादिमेदादानन्दमयस्य भिन्नत्वम; ऋय तु न प्रतिशरीरं भिद्यते, ' सयं ज्ञानमनन्तं ब्रह्म ` इ्यानन्यश्रतः “ एको देवः मवेभूतेषु गूढः सर्वव्यापी सवभूतान्तरात्मा '
इति च श्रुयन्तरात् । न चानन्दमयाभ्यासः श्रूयते | प्रातिपदिकाथेमात्रमेव हि सर्वत्राभ्यस्यते-- 'रसोतरै सः । रस द्यवायं छन्ध्वानन्दी मवति । को द्येवान्यात्कः प्रा- ण्याते । यदेष आकाश्च आनन्दो न स्यात् ‹ सैषानन्दस्य मीमा सा भवतिः ˆ आनन्दं ब्रह्मणो विद्धान्न बिभेति कुत- श्चन ' इति ‹ आनन्दो ब्द्येति व्यजानात् ` इति च । यदि चा- नन्दमयश्चब्दस्य ब्रह्मविषयस्वं निशितं भवेत्, तत उन्तरेष्वा- नन्दमाच्रप्रयोगेष्वप्यानन्दमयाभ्यासः कस्प्येत; न त्वानन्द्- मयस्य ॒ब्रह्मत्वमस्ति, प्रियिरस्त्वादिभिर्हूतुभिरियवोचामः; तस्माच्छूयन्तरे ' विज्ञानमानन्दं ब्रह्य ' इयानन्दपद्प्रातिप- दिकस्य ब्रह्मणि प्रयोगदरोनात्, ‹यदेष आकारा आनन्दो न स्यात् इति ब्रह्मविषयः प्रयोगो न स्ानन्दमयाभ्यास दयवगन्तव्यम् । यस्त्वयं मयडन्तस्यैवानन्दमयद्ब्दस्याभ्या- सः: एतमानन्दमयमात्मानमुपसंक्रामति इति, न तस्य ब्रह्मविषयत्वमस्ति; विकारात्मनामेवान्नमयादीनामनात्मना- मुपसंकरमितव्यानां प्रवाहे पतितत्वात् । नन्वानन्द्मयस्योप- संक्रभितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्यप्रा- प्रिः फं निर्दिष्टं मवेत् । नैष दोषः, आनन्दमयोपसंकमण- निदेशेनैव विदुषः पुच्छग्रतिष्ठामूतव्रह्यप्राप्रिः फएरस्य निर्दिषट-
त्वात, ‹ तदप्येष को मवति ` ‹ यतो वाचो निवतेन्तेः इत्यादिना च प्रपञ्ज्यमानव्वात् । या त्वानन्दमयसंनिधाने ¦ सोऽकामयत बहु स्यां प्रजायेयेति ' इतीयं श्रतिरुदाहयता, सा ‹ ब्रह्म पुच्छं प्रतिष्ठा ' इलयनेन संनिषहिततरेण ब्रह्मणा संब- ध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति । तदपेक्षत्वाच्चो- त्तरस्य प्रन्थस्य "रसो वै सः' इत्यादेनानन्दमयविषयता । ननु ‹ सोऽकामयत ' इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते । नायं दोपः, "तस्माद्वा एतस्मादात्मन आकाक्ञः संभूतः इयत्र पुंिङ्गेनाप्यात्मक्चब्देन ब्रह्मणः प्रकृतत्वात् । यत्त भागवी वारुणी विद्या-- ‹आनन्दो ब्रह्मति व्यजानात् ' इति, तस्यां मयडश्रवणास्मियरिरस्त्वाद्यश्रवणाञ्च युक्तमान- न्दस्य ब्रह्मत्वम् । तस्मादणुमात्रमपि विद्ोषमनाश्रिय न स्व- त णव प्रियाश्चिरस्त्वादि ब्रह्मण उपपद्यते । न चेह सविशोषं ब्रह्म प्रतिपिपादयिषितम्, वाड्नसगोचरातिक्रमणश्चुतेः । तस्मादन्नमयादिष्विवानन्दमयेऽपि विकाराथं एव॒ मयद् विज्ञेयः, न प्राचुयांथंः ॥
सूत्राणि सेवं व्याख्येयानि-- ' ब्रह्म पुच्छं प्रतिष्ठा ' इलय- श्र किमानन्दमयावयवत्वेन ब्रह्म विचक््यते, उत ॒स्वप्रधान- त्वेनेति । पुच्छराब्दादवयवस्वेनेति प्रापे, उच्यते-- आन-
न्दमयोऽभ्यासात् -- आनन्दमय आत्मा इत्यत्र "ब्रह्म पुच्छं प्रतिष्ठा ` इति स्वप्रधानमेव ब्रह्मोपदिश्यते; अभ्या- सात् ‹ असन्नेव स॒ भवति" इदयस्मिननिगमनश्छोके ब्रह्मण एव केवटस्याभ्यस्यमानत्वात । विकारक्षब्दानेति चेन भ्राचुयात्- विकारशब्दोऽवयवराब्दो ऽभिप्रेत:; पुच्छभि- लयवयवराब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम, तस्य परि- हारो वक्तव्यः; अव्रोच्यते-- नायं दोषः, प्राचुयोदप्यव- यवशञब्दोपपन्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचन- मिलयथेः; अन्नमयादीनां हि रिर्आदिषु पुच्छान्तेष्व- वयवेपूक्तेष्वानन्दमयस्यापि शिरञदीन्यवयवान्तराण्युक्स्वा अवयवप्रायापन््या “ब्रह्य प्रच्छ प्रतिष्ठा इयाद्, नावयव- विवक्षया; यत्कारणम् ‹ अभ्यासात् ` इति स्वप्रधानत्वं ब्रह्म- णः समाथतम । तद्धेतुव्यपदेश्ञाच्च -- सवस्य हि वि- कारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्य व्यपदिद्यते--: इद् « सवेमसरजत, यदिदं किंच ' इति । न च कारणं सद्रह्य स्वविकारस्यानन्दमयस्य मुख्यया व्ृच्यावयव उपपद्यते । अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिरदिष्स्येव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥
इद माभ्रायते-- अथ य एषोऽन्तरादिये हिरण्मयः पुरुषो दृयते हिरण्यदमश्रर्दिरण्यकेश आ प्रणखात्सवं- ७. अन्तरधि. एव सुबणैः' (तस्य यथा कप्यासं पु- करणम् । ण्डरीकमेवमक्षिणी तस्योदिति नाम स ण्ष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य णवं वेदः इयधिदैवतम् । अथाध्यात्ममपि (अथ य एषोऽन्तरक्षिणि पुरुषो टद्यतेः इत्यादि । तत्र संरायः--- किं विद्याक्मातिरायवश्चासपराप्रोत्कष; क- श्ित्संसारी सूयैमण्डटे चक्षुषि चोपास्यत्वेन श्रूयते, किं वा निलयसिद्धः परमेश्वरः? इति । किं तावलपराप्रम? संसायति । कुतः £ रूपवत्त्वश्रवणात् । आदिपुरुष तावत् ` हिरण्यद्मश्ुः' इत्यादि रूपमुदाष्टतम्; अक्षिपुरू- षेऽपि तदेवातिदेरोन प्राप्यते " तस्यैतस्य तदेव रूपं यदमुष्य रूपम् ` इति । न च परमेश्वरस्य रूपवत्त्वं युक्तम्, ˆ अश- व्दमसपदैमरूपमव्ययम् ' इति श्रुतेः; आधारश्रवणाच्च-- ° य एषोऽन्तरादिये य एषोऽन्तरक्षिणि ` इति । न दह्यनाधारस्य स्वमहिमप्रतिष्ठितस्य सवेव्यापिनः परमेश्वरस्याधार उपदि- रयेत । ‹ स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिन्निः इति: आकाडावस्सर्वेगतश्च निलयः ' इति च श्रुती भवतः । रे्र-
यमयोदाश्रुतेश्-- ‹स॒ एष ये चामुष्मात्पराच्चो लोका- स्तेषां चेष्टे देवकामानां च ` इल्यादिस्यपुर्षस्य रेश्वर्यम- योदा; ‹स एष ये चैतस्मादबच्चो रोकास्तेषां चेष्टे मनुष्य- कामानां च इत्थाक्षिपुरषस्य । न च परमेरवरस्य म- यादावदैश्र्य॑युक्तम्; ‹ एष सर्वेश्वर एष भूताधिपतिरेष भूतपार एष सेतुविधरण, एषां खोकानामसंभेदाय ` इल्य- विदोषश्चुतेः । तस्मान्नाक््यादिलययोरन्तः परमेश्रर इल्येवं प्रप्र
न्रूमः--अन्तस्तद्धमोपदेरात् इति । ‹ य एषोऽन्तरादित्ये ' (य एषोऽन्तरक्षिणि ' इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी । कुतः तद्धमोपदेश्चात् । तस्य हि परमेश्वरस्य धमां इहोपदिष्टाः 4 तद्यथा--८ तस्योदिति नाम ` इति श्राव- यित्वा तस्यादिलयपुरुषस्य नाम 'स एष सर्वेभ्यः पाप्मभ्य उदितः इति सवेपाप्मापगमेन.निवेक्ति । तदेव च कृतनि- बेचन नामाक्षिपुरुषस्यप्यतिदिक्षति--' यन्नाम तन्नाम: इति । स्वैपाप्मापगमश्च परमात्मन एव श्रूयते-“ य आ त्मापहतपाप्मा ' इद्यादौ । तथा चाक्षुषे पुरुषे ' सैव ऋक् त- त्साम तदुक्थं तदयजुस्तद्रह्य ' इति ऋक्सामाद्यासमकतां निधो- रयति । सा च परमेश्ररस्योपपव्यते, सवेकारणत्वात्सवोतमक-
त्वोपपत्तेः । प्रथिन्यगन्याद्यात्मके चाधिदैवतस्क्सामे, वाक्प्रा- णाद्यात्मके चाध्यात्ममनुक्रम्याह---"तस्यक्त्चै साम च गेष्णौ इयधिदैवतम । तथाध्यात्ममपि-- ' यावमुष्य गेष्णौ तौ गेष्णौ ` इति । तच्च सवौत्मकव्वे सयेवोपपद्यते । ‹ तद्य इमे वीणायां गायन्येतं त्वेव ते गायन्ति तस्मात्ते धनसनयः" इति च रकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दयति । तश्च परमे- श्ररपरिप्रह एव घटते--“ यद्यद्विभूतिमत्सन्त्वं श्रीमदूर्जितमेव चा । तत्तदेवाचगन्छ त्वं मम तेजोंश्चसंभवमः इति भगव द्रीता- द्शोनात । रोककामेरिवृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्रं गमयति । यततृक्तं दिरण्यमश्ृत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः-- स्यात्परमेनश्वरस्यापीच्छावरा- न्मायामयं रूपं साधकानुग्रहाथम्, ‹ माया ह्येषा मया सषा यन्मां पश्यसि नारद । सर्वमूतगुणेयक्तं मैवं मां ज्ञातुमर्हसि ' इति स्मरणात् । अपि च, यत्र तु निरस्तसर्वविरोषं पारमेश्वरं रूपमुपदिश्यते, भवति तत॒ शाखम् “ अशब्दमस्पेमरूप- मव्ययम् ` इत्यादि । सर्वकारणत्वान्त॒ विकारधर्मैरपि कैश्चिदटि- शिष्टः परमेश्वर उपास्यत्वेन निर्दिदयते--' संवैकमा सवेकामः सर्वगन्धः सवैरसः# इलयादिना । तथा दहिरण्यदमश्रत्वादिनि- देशोऽपि भविष्यति ।- यदप्याधारश्रवणान्न परमेश्वर -इति, - अत्रोच्यते-- स्वमहिमप्रतिष्ठस्थाप्याधारविशोषोपदेश् उपास-
नार्थो मविष्यति; सर्वगतत्वाद्रद्यणो व्योमवत्सबौन्तरत्वाप- पत्तेः । रेशखर्यमयीदाश्रचणमप्यध्यास्राधिदैवतविभागपेक्षसु- पासनार्थमेव । तस्मात्परमेश्रर वाक्ष्यादिलययोरन्तरुपदि- दयते }।
अस्ि चादिलयादिरारीराभिमानिभ्यो जीबेभ्योऽन्य दख रोऽन्तयीमी-- ‹ य आदिय तिष्ठन्नादिलयादन्तरो यमादि- यो न बेद् यस्यादियः शरीर य आदिलयमन्तरो यमययेष त आत्मान्तर्याम्यमृतः ' इति श्रुखयन्तरे भेदव्यपदेशात् । तत्र हि ‹आदिलयादन्तरो यमादयो न वेद् ` इति वेदितुरादि- लयाद्विज्ञानात्मनोऽन्योऽन्तयामी स्पष्टं॑निर्दिश्यते । स एवे- हाप्यन्तरादित्ये पुरुषो भवितुमहंति, श्रतिसामान्यात् । तस्मारपरमेश्वर पवेहोपदिरयत इति सिद्धम् ॥
इदमामनन्ति ८अस्यं रोकस्यं का गतिरिद्ार्कार इति होवच सवौणि हं वां इमानि मूतान्याका्यादेव सरुस्प- ८. आकाका- दन्ते आकाञ्चं प्रयस्तं थन्लाकारो द्येतरैभ्यो धिकरणम् । ज्यायानाकाशः पराय॑णम ' इति ।. संतं संशयः-- किमाकाशरब्देन परं ब्रह्माभिधीयते, उत भूता-
काञमिति । ऊुतः संश्चयः £ उभयत्र प्रयोगदशेनात् । भूत- विदषे तावत्सुप्रसिद्धो खोकवेदयोराकाश्चश्चब्दः । ब्रह्मण्यपि कचित्प्युज्यमानो दश्यते, यत्र वाक्यरोषवशाद् साधारणगु- णश्रवणाद्रा निधीरितं ब्रह्म भवति--- यथा "यदेष आकारा आनन्दो न स्यात् ` इति “आकाशो ह वे नाम नामरूपयो- निवेदिता ते यदन्तरा तद्य" इति चैवमादौ । अतः संसयः । किं पुनरत्र युक्तम् £ भूताकाशमिति । कुतः £ तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्र बुद्धिमारोहति । न चायमा- कारश्व्द् उभयोः साधारणः शक्यो विज्ञातुम, अनेकाथैत्व- प्रसङ्गात् । तस्माद्रद्यणि गौण एव आकादाराब्दो भवितुमर्हति । विभुत्वादिभिदहि बहुभिधर्भैः सदृशमाकाशेन ब्रह्म भवति । न च मुख्यसंभवे गौणोऽर्थो ब्रहणम्हैति । संभवति चेह मुख्यस्यैवाकाश्चस्य ग्रहणम । नु भूताकारापरिपरहे वाक्य- रोषो नोपपद्यते-- ‹सवाणि ह वा इमानि भूतान्याकाश्चा- देव समुत्पद्यन्ते ' इत्यादिः; नैष दोषः, भूताकाशस्यापि बा- य्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञायते हि-- ‹ तस्माद्या एतस्मादात्मन आकाञश्चः संभूत आकाशाद्रायुरवायोरभ्निः इत्यादि । ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपदेते भूताकाशस्यापि । तस्मादाकाश्राब्देन भूताकाशस्य म्रहणमि- येवे प्राप्त--
्रूमः-- आकाशस्तलिङ्गात् । आक।शशब्देनेह ब्रह्मणो ग्रहणं युक्तम् । कुतः £. तल्लिङ्गात् । परस्य हि ब्रह्मण इदं लिङ्गम-- ‹ सर्वाणि ह वा इमानि भूतान्याकाशादेव समु- त्पयन्ते ' इति । परस्माद्धि ब्रह्मणो भूतानाुत्पत्तिरिति वेदान्तेषु मयादा । ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्दितम् । सदयं दर्शितम् । तथापि सूखकारणस्य ब्रह्मणोऽपरिप्रहात्, आकारादेवेयवधारणं सर्वाणीति च भूतविशेषणं नामुकूटं स्यात्त । तथा ‹ आकाशं प्रयस्तं यन्ति ” इति ब्रह्मलिङ्गम्, ° आकाशो देवेभ्यो ज्यायानाकाशः परा- यणम् ` इति च ज्यायस्त्वपरायणवत्वे । ज्यायस्त्वं दयनापे- क्षिकं परमास्मन्येवेकस्मिन्नान्नातम--: ज्यायान्पृथिव्या ज्या- यानन्तरिक्षाञ्ज्यायान्दिवो उयायानेभ्यो लोकेभ्यः ` इति । तथा परायणत्वमपि परमकारणस्वात्परमात्मन्येव उपपन्न- तरं भवति । श्र॒तिश्च-- ‹ विज्ञानमानन्दं ब्रह्म रातिदातुः परायणम्: इति । अपि चान्तवच््वदोष्रेण शखावयस्य पक्षं॑निन्दित्वा, अनन्तं किंचिद्रक्तुकामेन जेवलिनाकाश्चः परिगृहीतः; तं चाकाशमुद्रीथे संपाद्योपसंहरति-- स एष परोवरीयानुद्रीथः ख एषोऽनन्तः इति । तच्ानन्यं ब्रह्मलिङ्गम । यस्पुनरक्तं भूताकाशं प्रसिद्धिबखेन प्रथमतरं
प्रतीयत इति, अच्न ब्रूमः-- प्रथमतरं प्रतीतमपि तद्वाक्य- रोषगतान्त्रह्मगुणान्टष्टा न परिगृह्यते । दर्दीतश्च ब्रह्म ण्यप्याकाश्चश्चब्दः ‹ आकारो ह वै नाम नामरूपयोर्सि- वैहिताः इत्यादौ । तथाकादापयोयवाचिनामपि ब्रह्मणि प्रयोगो टरयते-- ‹ चयो अक्षरे परमे व्योमन् यस्मि न्देवा अधि विश्रे निषेदुः ‹सेषा भागवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिताः "ॐ के ब्रह्म खं ब्रह्मः खं पुराणम इति चैवमादौ । वाक्योपक्रमेऽपि वबते- मानस्याकाश्चब्देस्य वाक्यशेषवशादयुक्ता ब्रह्मविषयत्वाव- धारणा । ‹ अभ्निरधीतेऽनुवाकम् इति दहि वाक्योपक्रम- गताऽप्यभिशान्दो माणवकविषयो टदयते । तस्मादाकारा-
शब्दं ब्रह्मति सिद्धम् ॥ अत ख्व प्राणः ॥ २३॥
उद्रीथे-- ‹ प्रस्तोतयौ देवता प्रस्तावमन्वायत्ताः इव्यु- पक्रम्य श्रूयते-- ‹ कतमा सा देवतेति; प्राण इति होवाच, ९. प्राणाधि- सवाणि ह वा इमानि भूतानि प्राणमे- करणम् । वाभिसंविशन्ति, प्राणमभ्युजिहते, सैषा देवता प्रस्तावमन्वायत्ता' इति । तत्र संशयनिर्णयौ पूवं वदेव द्रष्टव्यौ । 'प्राणबन्धन ५ हि सोम्य मनः! प्राणस्य
प्राणम्” इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते; वायुविकारे तु प्रसिद्धतरो ोक्वेदयोः; अत इह प्राणङाब्देन कतरस्यापादानं युक्तमिति भवति संशयः । किं पुनरत्र युक्तम् १ वायुविकारस्य पच्चवृत्तेः प्राणस्योपादानं युक्तम् । तत्र॒ हि प्रसिद्धतरः प्राणदाब्द इदयबोचाम । ननु पूवंवदिहापि तदधिङ्काद्रद्यण एव ग्रहणं युक्तम् । इहापि हि वाक्यशेषे भूतानां संवेदानोद्रमनं पारमेश्वरं कम॑ प्रतीयते । न, सुख्येऽपि प्राणे भूतसंवेशनोद्रमनस्य दशनात् । एवं ह्याम्रायते-- (यदा बै पुरुषः स्वपिति प्राणं वर्हि बाग- प्येति प्राणं चक्षुः प्राणं श्रोतं प्राणं मनः, स यदा प्रबुध्यते प्राणादेवाधि पुनजौयन्ते ' इति । प्रयक्षं॑चैतत्-- स्वाप- काले प्राणवृत्तावपरिुप्यमानायामिन्द्रियव्रत्तयः परिटुप्यन्ते, प्रबोधका च पुनः प्रादुभेवन्तीति । इन्द्रियसारत्वाच् भूता- नामविसद्धो मुख्ये प्राणेऽपि भूतसंवेशनो द्रमनवादी वाक््य- दोषः । अपि चादिलयोऽन्नं चोद्रीथप्रतिहारयोर्देवते प्रस्ताव- देवतायाः प्राणस्यानन्तरं निर्दिश्येते; न च तयोव्रेद्यत्व- मस्ति; तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वभियेवं प्रापि
सूत्रकार आह-- अत एव प्राणः इति । तदिङ्गा- दिति पूर्वसूत्रे निर्दिष्टम् । अत एव तलिङ्कासप्राणङन्दमपि परं
जह्य भवितुमहतत । प्राणस्यापि हि बद्मलिङ्कसंबन्धः श्रूयते-- ‹(सवाोणि ह वा इमानि भूतानि प्राणसेनाभिसंबिशन्ति प्राणमभ्युलिहते ' इति । प्राणनिमित्तौ सर्वेषां भूतानाञुत्प- ततिप्रख्यावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः । ननूक्तं सुख्यप्राणपरियहेऽपि संवेरानोद्रमनदरोनमविसद्धम, स्वापप्र- बओधयोदेशनादिति । अप्रोच्यते-- स्वापप्रनोधयोरिन्द्रियाणा- मेव केवलानां प्राणाश्रयं संवेशानोद्रमनं दरयते, न सर्वेषां भूतानाम; इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्ठा- नां भूतानाम › ‹सवाणि ह वा इमानि भूतानि इति श्रुतेः यदापि भूतश्चुतिमेहाभूतविषया परिगृह्यते, तदापि ब्रह्मि त्वमविरुद्धम । ननु सहापि विषयेरिन्दरियाणां स्वापग्रचो- धयोः प्राणेऽप्ययं प्राणाच्च प्रभवं श्रणुमः-- ८ यदा सुप्तः स्वप्र न कंचन पश्यदयथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैनौमभिः सहाप्येति ` इति । तत्रापि तदिङ्कासप्राणज- ्दं ब्रह्मैव । यत्पुनरुक्तमन्नादियसंनिधानास्राणस्याब्रह्यत्वभिति, तदयुक्तम्; वाक्यशेषवछेन प्राणशब्दस्य ब्रह्यविषयतायां प्रतीयमानायां सनिधानस्याकिचित्करत्वात । यत्पुनः पभ्राण- शाब्दस्य पथ्चघृत्तौ प्रसिद्धतरत्वम, तदाकाञचशब्दम्येव प्रति-
विधेयम् । तस्मार्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् ॥
अच्र केचिदुदाहरन्ति ' प्राणस्य प्राणम् ' " प्राणब- नधनं हि सोस्य मनः ' इति च । तदयुक्तम; राब्दभेदालस- करणाञ्च संरायानुपपत्तेः । यथा पितुः पितेति प्रयोगे; अन्यः पिता षष्ठीनिर्दिष्ठात्, प्रथमानिदिष्टः;, पितुः पिता इति गम्यते; तद्रतं "प्राणस्य प्राणम ' इति शब्द- मेदासप्रसिद्धास्राणात अन्यः प्राणस्य प्राण इति निश्चीयते । नहि स एव तभ्येति भेदनिदशार्हो भवति । यस्य च प्रकरणे यो निर्दिरयते नामान्तरेणापि स णव तत्र प्रकरणी निर्दि इति गम्यते; यथा ज्योतिष्टोमाधिकारे: वसन्ते वसन्ते ञ्यो- तिषा यजेत ` इदयत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ऋणः प्रकरणे ` प्राणबन्धनं हि सोम्य मनः ' इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगम- येत् । अतः संशयाविषयत्वान्नेतदु दाहरणं युक्तम । प्रस्ताव- देवतायां तु प्राणे संशयपूवेपक्षनिणया उपपादिताः ॥
ञ्योतिखरणानभिधानात् ॥ २४ ॥ इदमामनन्ति-- ‹ अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः प्रष्ठेषु स्वेतः प्ष्ठेष्वनुत्तमेषूत्तमेषु छोकेष्विदं वाव १०. ज्योतिश्वरणा- तद्यदिदमस्मिन्नन्तः पुरुष ज्योतिः ` इति । धिकरगणम् । तनच्र संङयः- किमिह ल्योतिःशब्देनादि-
लयादिकं अयोतिरभिधीयते, किं वा पर आत्मा? इति | अथा- न्तरतिषयस्यापि प्राण्चब्दस्य तद्िङ्गाद्रह्यविषयत्वमुक्तम । इह तु तद्धिङ्गमेवास्ति नास्तीति विचायते । करि तावत्पराघ्रम? आदिलयादिकमेब अ्यातिःशब्देन परिगृह्यत इति । कुतः
प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ परस्परम्रतिट
विषय। प्रसिद्धौ । चक्षु्त्तरनिरोधकं शावरादिकं तम उन््य- ते । तस्या प्वानुम्राहुकमादियादिक ज्यातिः । तथा ˆ दीप्यते इतीयमपि श्रुतिरादियादिविषया प्रसिद्धा । न दहि रूपादि- हीनं ब्रह्म दीप्यत इति सख्यां श्रुतिमहति । द्युमयादस्वश्ुते- श्च । न हि चराचरबीजस्य ब्रह्मणः सबौत्मकस्य द्यौमम्यादा युक्ता; कार्यस्य तु ज्योतिषः परिच्छिन्नस्य ब्ौमैयौदा स्यान् । “परो दिवो ज्योतिः" इति च बराह्मणम । नन कार्यस्यापि ज्योतिषः सवत्र गम्यमानत्वादुञ्यमयादावत्त्तम- सम्रसम; अस्तु तद्यत्रिबरतकरृतं तेजः प्रथमजम्; न, अलि- वृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेव प्रयोजनं यद- पास्यत्वभिति चेत्, न; प्रयोजनान्तरप्रयुक्तस्येवादियादेरुपा- स्यत्वदर्शनात्, ‹ तासां चिवृतं लिवतमेकेकां करवाणि ` इति चाविोषश्रुतेः । न चाभरिबृत्कृेतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् । अस्तु ताहि च्िवरत्कृतमेव तत्तेजो व्योतिःशब्दम् । ननूक्तमवौगपि दिवोऽवगम्यतेऽगन्यादिकं ज्योतिरिति; नैष
दोषः; सनैत्रापि गम्यमानस्य ज्योतिषः ८ परो दिविः' इत्यु- पासनाथैः प्रदेशविशेषपरिभ्रहो न विरुध्यते । न तु निष्प्रदेश- स्यापि ब्रह्मणः प्रदेराविक्षेषकत्पना भागिनी । ‹ सवतः प्रष्ठ प्वनुत्तमेषूत्तमेषु रोकेषु ” इति चाधारबहुतवश्चुतिः कार्य ज्यो- तिष्युपपद्यतेतराम् । “इदं बाव तद्यदिदमस्मिन्नन्तः पुरुषे ञ्योतिः' इति च कौक्षेये ज्योतिषि परं ञ्योतिरध्यस्यमानं दश्यते । सारूप्यनिमित्ताश्चाध्यासा भवन्ति- यथा ° तस्य मूरिति शिर एकि शिर एकमेतदक्षरम् ' इति । कौक्षेयस्य तु ` ज्योतिषः प्रसिद्धमव्रह्मत्वम् । (तस्यैषा दृष्टिः “तस्यैषा श्रुतिः' इति चौष्ण्यघोषविशिष्त्वस्य श्रवणात् । ° तदेतदृष्टं च श्रतं चेत्युपासीत ' इति च श्चुतः । ‹ चक्षुष्यच्च श्रुतो भवति य एवं वेद ` इति चाल्पफटर्श्रवणादब्रद्यत्वम । महते दहि फलाय ब्रह्मोपासनमिष्यते । न चान्यदपि किंचिस्स्ववाक्ये प्राणाकाश्वञ्ज्योतिषोऽस्ति ब्रह्मत्वखिङ्गम् । न च पूवेस्मन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‹ गायत्री वा इद् सर्वं भूतम ` इति च्छन्दोनिर्देखात् । अथापि कथंचित्पू्वैस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात, एवमपि न तस्येह प्रयभिज्ञानमस्ति । तत्र हि ‹ त्रिपादस्यामृतं दिवि: इति द्यौरधिकरणत्वेन श्रूयते; अच्र पुनः ‹परो दिवो ज्योतिः: इति द्यौमेयौदात्वेन । तस्मासराकरृतं ज्योतिरिह मराद्यमियेवं प्रप--
रूमः-- ज्योतिरिह ब्रह्म ्राह्यम् । कुतः? चरणाभि- धानात्, पादाभिधानादियथंः । पूवम्मिन्हि वाक्ये चतुप्पाद्भ्य निर्दिष्टम-~ ‹ तावानस्य महिमा ततो न्यायाय परूसषः | पादोऽस्य सवौ भूतानि त्रिपादस्यामृतं दिवि" इत्यनेन मन्त्रेण । तत्र यच्चतुप्पदो ब्रह्मणसिपादम्रतं युसंबन्धिरूपं निदिष्टम › तदेवेह दुसंबन्धान्निदिष्टमिति प्रत्यभिज्ञायते । तस्प- रियज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतध्रक्रिये ग्रसज्येयाताम । न केवट ज्योतिवाक्य एव॒ वब्रह्मातुवरत्तिः; परस्यामपि दहि शाण्डिस्यविद्ायामनुवरतिप्यते ब्रह्म । तस्मादिह ञ्योतिरिति ब्रह्म प्रतिपत्तव्यम । यत्तृक्तम-- “ज्योतिदीं- प्यते ' इति चेतौ शब्दौ कर्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः; प्रकरणाद्भद्यावगमे सवलयनयोः जब्दयोरविशोष- कत्वान्, दीप्यसानकायंज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोग- संभवात्; "येन सूयैस्तपति तेजसेद्धः ' इति च मन्त्रवर्णात् | यद्वा, नायं ज्योतिःराब्दश्चक्ुव्ेत्तेरेबानुप्राहके तेजसि वर्तते,
अन्यत्रापि प्रयोगदशंनात्ू-- ‹ वाचैवायं ज्योतिषास्ते" ‹ मनो ज्योतिजुषतामः इति च । तस्माद्यद्यत्कस्यचिदवभासर्कं तत्तञ्स्योतिःशब्देनाभिधीयते । तथा सति ब्रह्मणोऽपि चैतन्य- रूपस्य समस्तजगद वभासहेतुखादुपपन्नो ज्योतिःशब्दः ।
Use the ← → keys to move between chapters.