Skip to content
The ConsciousLibrary

Chapter 30 of 36

· 30

रसोऽहमप्सु कौन्तेय प्रभासि दाहिरूययोः। प्रणवः सवेवेदेषु राब्दः खे पौरुषं चषु ॥ ८ ॥ रसः अहम्‌, अपां यः सार. स रसः, तस्मिन्‌ रसभूते मयि आपः प्रोता इयथः । एवं सवत्र । यथा अहम्‌ अप्सु रसः, एवं प्रमा अस्मि शशिसूयंयोः । प्रणवः ओकारः सवे- वेदेषु, तस्मिन्‌ प्रणवभूते मयि सरवे वेदाः प्रोताः । तथा से आकाशे अब्दः सारभूतः, तस्मिन्‌ मयि खं प्रोतम्‌ । तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुवुद्धिः वषु, तस्मिन मयि पुरुषाः प्रोताः ॥ पुण्यो गन्धः परथिव्यां च तेजश्चासि विभावसौ । जीवनं सवेभ्रूतेषु तपश्चास्मि तपखिषु ॥ ९ ॥

पुण्यः सुरभिः गन्धः परथिव्यां च अहम्‌; तस्मिन्‌ मयि गन्धमूते प्रथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव परथिव्यां दर्दितम्‌ अबादिषु रसादे" पुण्यत्वोपटक्षणाथेम्‌ । अपुण्यत्वं तु गन्धादीनाम्‌ अविद्याधमाचपेक्ं संसारिणां भूत- विरोषसंस्मनिमित्तं भवति । तेजश्च दीपरिश्च अस्मि विभा- वसौ अभ्रौ । तथा जीवनं स्मृतेषु, येन जीवन्ति सबौणि भूतानि तत्‌ जीवनम्‌. । तपश्च अस्मि तपस्विषु, तस्मिन्‌ तपसि मयि तपस्विन प्रोताः ॥ बीजं मां सवेभ्रूतानां विद्धि पाथ सनातनम्‌ । बुद्धिवैद्धिमतामस्ि तेजस्तेजखिनामदहम्‌ ॥१०॥

बीज प्ररोहकारणं मां विद्धि सवभूतानां ह पाथे सना- तनं चिरन्तनम्‌ । किच, बुद्धिः विबेकरशाक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम्‌ अस्मि, तेज" प्रागलभ्यं तद्रता

तेजस्विनाम्‌ अहम्‌ ॥ बलं बटखवतां चाहं कामरागदिवजितम्‌ धमोषिरुद्धो भूतेषु कामोऽस्मि भरतषभ ॥११॥

बलं सामथ्यंम्‌ ओजो बरख्वताम्‌ अहम्‌, तञ्च बरं काम- रागविवजितम्‌, कामश्च रागश्च कामरागो--- काम. तृष्णा

असंनिकृषटेषु विषयेषु, रागो रखना प्राप्रेषु विषयेषु-- ताभ्या कामरागाभ्यां विवर्जितं देहादिधारणमाच्रार्थं बरं सन्त्वमहमस्मि, न तु यत्संसारिणां दृष्णारागकारणम्‌ । किंच-- धमाविरुद्धः धर्मेण शाखार्थेन अविरुद्धो य. प्राणिषु भूतेषु कामः; यथा देहधारणमात्राद्यथैः अरानपानादिवि- षयः, स काम" अस्मि हे भरतषभ ॥

ये चैव सात्विका भावा राजसास्नामसाओ ये। मन्त एवेति तान्विद्धि न त्वहं तेषु ते मपि ॥

ये चैव सात्त्विका. सत्त्वनिवत्ताः भावा पदाथो., राजसा रजोनिरबत्ताः, तामसाः तमोनिषरत्तश्च, ये केचिन्‌ प्राणिनां स्वकमेवशात्‌ जायन्ते भावा., तान्‌ मत्त एव जाय- मानान्‌ इति एवं विद्धि सर्वान्‌ समस्तानेव । यद्यपि त मन्त. जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्रराः, यथा ससारिण. । ते पुनः मयि सद्रश्चाः मदधीना" ॥

श [क ५५ # (५, (न € एवे भूतमपि परमेश्वरं निवयञ्ुदधबुद्धक्तस्वभावं सवेभू- तात्मानं निशुणं संसारदोषबीजप्रदाहकारण मां नाभिजानाति

जगन्‌ इति असुक्रोशं दशयति भगवान्‌ । तञ्च किनिमित्त जगत अज्ञानमित्युच्यते-

न्रिभिशैणमयेमोवैरोभिः सवेमिदं जगत्‌ । मोहितं नाभिजानाति मामेभ्यः परमव्ययम्‌ ॥

त्रिभि गुणमयैः गुणविकारैः रागद्रेषमोदादिप्रकारैः भावै पदार्थैः एभि यथोक्तैः सवैम्‌ इदं प्राणिजातं जगत्‌ मोहितम्‌ अविवेकितामापादितं सत्‌ न अभिजानानि माम, एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विखक्षणं च अन्ययं व्ययरहितं जन्मादिसबेभावविकारवर्जितम इय्थ- ॥

कथं पुन. दैवीम्‌ एतां त्रिगुणास्मिकां वैष्णवीं मायामति- क्रामति इत्युच्यते-- दैवी द्येषा गुणमयी मम माया दुरयया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥

देवी देवस्य मम इश्वरस्य विष्णोः स्वभावभूता हि यस्मा- त्‌ एषा यथोक्ता गुणमयी मम माया दुरल्यया दुःखेन अलय-

यः अतिक्रमणं यस्याः सा दुरलयया । तन्न एवं सति स्वध- मान्‌ परिलयञ्य मामेव मायाविनं ख्वात्मभूतं सवौत्मना ये

प्रपद्यन्ते ते मायाम्‌ एतां सवभूतमोहिनी तरन्ति अतिक्राम- न्ति, ते संसारबन्धनात्‌ मुच्यन्ते इयथं. ॥

यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात्‌ त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते-- न मां दुष्करुतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहतन्ञाना आसुरं मावमाभिताः |

न मां परमेश्वरं नारायणं दुष्करृतिन. पापकारिण. मूढा प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । तेच मायया अपहृतज्ञाना- संसुषितज्ञानाः आसुर भावं हिसानू- तादिरक्षणम्‌ आश्रिताः ॥

+ स चतुर्विधा मजन्ते मां जनाः सुकृतिनोऽखन । € ©

चतुर्विधाः चतुःप्रकारा भजन्ते सेवन्ते मां जना सुक्क- तिनः पुण्यकमाण. ह अजन । आतः आतिंपरिगृहीतः तस्कर- व्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्व ज्ञातुमिच्छति यः, अथो्थी धनकामः) ज्ञानी विष्णो. तत्त्वविश्च हे भरतषभ ॥

नेषां ज्ञानी निययुक्त एक भक्ति्विदहिष्थते । परियो हि ज्ञानिनोऽलयथमहं स च मम प्रियः ॥

तेषां चतुर्ण मध्ये ज्ञानी तत्त्ववित्‌ तत्त्वविन्त्वात्‌ नित्य- युक्त भवति एकभक्तिश्च, अन्यस्य भजनीयस्य अदनात्‌, अतः स एकभक्तिः विशिष्यते विशेषम्‌ आधिक्यम्‌ आप्ते, अतिरिच्यते इयथः । भ्रियो हि यस्मात्‌ अहम्‌ आत्मा ज्ञानि- नः, अतः तस्य अहम्‌ अर्थं प्रिय., प्रसिद्धं हि छोके “ आ- त्मा प्रियो भवति ` इति । तस्मात्‌ ज्ञानिनः आत्मत्वात्‌ वा- सुदेवः प्रियो भवतीलयथैः । स च ज्ञानी मम वासुदेवस आत्तै- ब्ेति मम अद्यय श्रिय. ॥

न तर्हिं आतांदयः त्रयः वासुदेवस्य प्रियाः न, कि तर्हिं (0 उदाराः सवे एवैते ज्ञानी त्वात्मैव मे मतम्‌ । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्‌ ॥ १८ ॥ उदाराः उत्टरष्टाः सवै एव एते, त्रयोऽपि मम श्रिया एवेदयथेः । न हि कथित्‌ मद्भक्तः मम वासुदेवस्य अग्रिय

भवति । ज्ञानी तु अल्यथ प्रियो भवतीति विरोषः। तत्‌ कस्मात्‌ इयत आह्‌--ज्ञानी तु आत्मैव न अन्यो मन्तः इति मे मम मतं निश्चयः । आशितः आरोदुं प्रवृत्तः सः ज्ञानी हि यस्मात्‌ ˆ अहमेव भरावान्‌ बासुदेवः न अन्यो- ऽस्मि" इत्येवं युक्तात्मा समाहितचित्त सन्‌ मामेव परं ब्रह्य गन्तव्यम्‌ अयुत्तमां गति गन्तु प्रवृत्त इयथः ॥

ज्ञानी पुनरपि स्तूयते- बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |

बहूनां जन्मनां ज्ञाना्थंसंस्काराश्रयाणाम्‌ अन्ते समप्नौ ज्ञानवान्‌ प्राप्रपरिपाकज्ञानः मां वासुदेवं प्रयगात्मानं प्रय- क्षत. प्रपद्यते । कथम्‌ £ वासुदेवः स्वेम्‌ इति । य. एवं सवोत्मानं मां नारायणं प्रतिपद्यते, सः महात्मा, न तत्समः अन्यः अस्ति, अधिको वा । अतः सुदुरेभः, “ मनुष्याणां सहस्रेषु ' इति हि उक्तम्‌ ॥

आत्मैव सर्वो वासुदेव इयेवमग्रतिपत्तौ कारणसुच्यते-

कासेस्तैस्तेष्ेतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | नं तं नियममास्थाय पकरलया नियताः खया ॥

कामैः तैस्तैः पुत्रपड्युस्वगादिविषयेः हृतज्ञाना । अपहतचि- वेकविज्ञानाः प्रपद्यन्ते अन्यदेवता प्राप्नुवन्ति वासुदेवात्‌ आत्मन. अन्या. देवता, तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तं तम्‌ आस्थाय आश्रित्य प्रया स्वभावेन जन्मान्तरा्जितसंस्कारविरोषेण नियताः नियमिताः खया आसीयया ॥ तेषां च कामिनम्‌- यो यो यां यां तुं क्तः ्रद्धयार्चितुभिच्छति। तलस्य तखाचखां अद्धा तामेव विदधाम्यहम्‌ ॥ य. य. कामी यां यां देवतातनु श्रद्धया संयुक्तः भक्तश्च सन्‌ अचितुं पूजयितुम्‌ इच्छति, तस्य तख कामिन अचला स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोभि ॥ यथैव पूं प्रदत्त. स्वभावत) य. यां देवतातनुं श्रद्धया अचितुम इच्छति- स तया अद्धया युक्त स्तखा राधनमीहते । लमते च ततः कामा- न्मयैव विहितान्हि तान्‌ ॥ २२॥

सष्ठमोऽध्यायः | २२५ स तया मद्विहितया श्रद्धया युक्त. सन्‌ तस्याः देवतात- न्वा; राधनम्‌ आराधनम्‌ इहते चेष्टते । छभते च ततः: तस्याः आराधितायाः देवतातन्वा. कामान्‌ इंप्सितान्‌ मयैव परमेश्वरेण सवेज्ञेन कमेफलविभागज्ञतया विहितान्‌ मिरमि- तान्‌ तान्‌, हि यस्मात्‌ ते भगवता विहिताः कामाः तस्मात्‌ तान्‌ अवशयं रमते इत्यथः । ‹ हितान्‌ इति पदच्छेदे हितत्वं कामानमुपचरितं कल्प्यम्‌; न हि कामा हिताः कखचित्‌ ॥ यस्मात्‌ अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते, अतः- अन्तवन्तु फलं तेषां तदइवदयल्पमेधसाम्‌ । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ।॥ २३॥ अन्तवत्‌ विनाशि तु फं तेषां तत्‌ भवति अल्पमेधसां अत्पप्रज्ञानाम्‌ । देवान्देवयजो यान्ति देवान्‌ यजन्त इति देवयजः, ते देवान्‌ यान्ति, मद्भक्ता यान्ति मामपि } एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफटाय,

Use the ← → keys to move between chapters.

· 30 · Commentary on the Bhagavadgītā — Adi Shankara · The Conscious Library