Skip to content
The ConsciousLibrary

Chapter 50 of 111

उत्तरकाण्डम्/सर्गः ५०

दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। ७.५०.१ ।। अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। ७.५०.२ ।। ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। ७.५०.३ ।। व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। ७.५०.४ ।। यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। ७.५०.५ ।। पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ।। ७.५०.६ ।। ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। ७.५०.७ ।। को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। ७.५०.८ ।। एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। ७.५०.९ ।। न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। ७.५०.१० ।। भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। ७.५०.११ ।। त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। ७.५०.१२ ।। इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। ७.५०.१३ ।। महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। ७.५०.१४ ।। ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। ७.५०.१५ ।। तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। ७.५०.१६ ।। सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। ७.५०.१७ ।। यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। ७.५०.१८ ।। येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। ७.५०.१९ ।। तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। ७.५०.२० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशः सर्गः ।। ५० ।।

Use the ← → keys to move between chapters.

उत्तरकाण्डम्/सर्गः ५० · Uttarakāṇḍa (The Last Book) — Valmiki · The Conscious Library