Skip to content
The ConsciousLibrary

Chapter 78 of 84

बालकाण्डम्/सम्पूर्णम् · 1

श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥   तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥ को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥ चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।  विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥ आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥ श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः । श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥ बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥ इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥ बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥ महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥ धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥   प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥   रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥   सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् । सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥   सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः । आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥   स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥   विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥   धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥   ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥   यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः । तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥ पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥   स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥   स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥   भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥   जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥ सीताप्यनुगता रामं शशिनं रोहिणी यथा । पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥ शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥ गुहेन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥ चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥ देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् । चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥ राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् । गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥ नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥ गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥ त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥ न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः । पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥ निवर्तयामास ततो भरतं भरताग्रजः । स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥ नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया । गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥ प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥ खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥ ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् । स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥ प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥ तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥ ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥ निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥ सहायं वरयामास मारीचं नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥   न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥ जगाम सहमारीचस्तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥ जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥ मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥   तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥ श्रमणां धर्मनिपुणामभिगच्छेति राघव । सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥ शबर्या पूजितः सम्यग् रामो दशरथात्मजः । पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥ आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥ चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥ रामायावेदितं सर्वं प्रणयात् दुःखितेन च । प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥ वालिनश्च बलं तत्र कथयामास वानरः । सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥ राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् । दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥ उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः । पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥ बिभेद च पुनस्सालान् सप्तैकेन महेषुणा । गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥ ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥ ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥ अनुमान्य तदा तारां सुग्रीवेण समागतः । निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥ ततः सुग्रीववचनात् हत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥ स च सर्वान् समानीय वानरान् वानरर्षभः । दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥ ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली । शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥ तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् । ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥ निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥ पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥ अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् । मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥ ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥ सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥ ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥ दर्शयामास चात्मानं समुद्रः सरितां पतिः । समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥ तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥ तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥ ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् । कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥ सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥ अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥ देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥ भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥ पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा । पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥ नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः । रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥ प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥ न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥ न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः । न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥ न चापि क्षुद्भयं तत्र न तस्करभयं तथा । नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥ नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा । अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥ गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् । असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥ राजवंशान् शतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥ दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥ इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥ एतदाख्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥ पठन् द्विजो वागृषभत्वमीयात् । त् क्षत्रियो भूमिपतित्वमीयात् ॥ वणिक् जनः पण्यफलत्वमीयात् । जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥

इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥ नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥१-२-१॥ यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥ स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥१-२-३॥ स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥१-२-४॥ अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥१-२-५॥ न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥१-२-६॥ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥१-२-७॥ स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥१-२-८॥ तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥१-२-९॥ तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१-२-१०॥ तं शोणितपरीताङ्गं चेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥१-२-११॥ वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१-२-१२॥ तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१-२-१३॥ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१-२-१४॥ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१-२-१५॥ तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१-२-१६॥ चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥१-२-१७॥ पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१-२-१८॥ शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥१-२-१९॥ सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥१-२-२०॥ भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥१-२-२१॥ स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥१-२-२२॥ आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥१-२-२३॥ वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥ पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥१-२-२५॥ अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये संदिदेशासनं ततः ॥१-२-२६॥ ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।॥१-२-२७॥ तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः । पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।॥१-२-२८॥ यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् । शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥१-२-२९॥ पुनरन्तर्गतमना भूत्वा शोकपरायणः । तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥१-२-३०॥ श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा । मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥१-२-३१॥ रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम । धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥ वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् । रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥१-२-३३॥ रामस्य सहसौमित्रे राक्षसानां च सर्वशः । वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥१-२-३४॥ तच्चाप्यविदितं सर्वं विदितं ते भविष्यति । न ते वागनृता काव्ये काचिदत्र भविष्यति ॥१-२-३५॥ कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥१-२-३६॥ तावद् रामायणकथा लोकेषु प्रचरिष्यति । यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥१-२-३७॥ तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥ तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥१-२-३९॥ समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥१-२-४०॥ तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥१-२-४१॥ उदारवृत्तार्थपदैर्मनोरमै- स्तदास्य रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः ॥१-२-४२॥ तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरकरितं मुनिप्रणीतं दशशिरसश्क वधं निशामयध्वम् ॥१-२-४३॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥ श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् । व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥ उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥ रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥ हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् । तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥ स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने । सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥ ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः । पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥ तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥ कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥ स यथा कथितं पूर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥ जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥ नाना चित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥ रामरामविवादं च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥ विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥ गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥ वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥ पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥ दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥ दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥ वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥ राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥ शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥ ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥ कोपं राघवसिंहस्य बलानामुपसंग्रहम् दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥ अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥ पर्वतारोहणं चैव सागरस्यापि लङ्घनम् समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥ राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥ रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥ दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥ अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥ मणिप्रदानं सीताया वृक्षभङ्गं तथैव च राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥ ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥ राघवाश्वासनं चैव मणिनिर्यातनं तथा संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥ प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥ कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥ बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥ प्रेषणं वायुपुत्रस्य भरतेन समागमम् रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥ अनागतं च यत् किंचिद् रामस्य वसुधातले तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥ प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१-४-१॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥१-४-२॥ कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥१-४-३॥ तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः । अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥१-४-४॥ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ । भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥१-४-५॥ स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥१-४-६॥ काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥१-४-७॥ पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥१-४-८॥ रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः । वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥१-४-९॥ तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ । भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥१-४-१०॥ रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥१-४-११॥ तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१-४-१२॥ ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१-४-१३॥ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ । तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥१-४-१४॥ मध्ये सभं समीपस्थाविदं काव्यमगायताम् । तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥१-४-१५॥ साधु साध्विति तावूचुः परं विस्मयमागताः । ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥१-४-१६॥ प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ । अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥१-४-१७॥ चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् । प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥१-४-१८॥ सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा । एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥१-४-१९॥ संरक्ततरमत्यर्थं मधुरं तावगायताम् । प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥१-४-२०॥ प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः । अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥१-४-२१॥ कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः । बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥१-४-२२॥ ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः । काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥१-४-२३॥ जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः । यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥१-४-२४॥ औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् । आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥१-४-२५॥ ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः । आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥१-४-२६॥ परं कवीनामाधारं समाप्तं च यथाक्रमम् । अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥१-४-२७॥ आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् । प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥ रथ्यासु राजमार्गेषु ददर्श भरताग्रजः । स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥१-४-२९॥ पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः । आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥ उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः । दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥१-४-३१॥ उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा । श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥१-४-३२॥ विचित्रार्थपदं सम्यग्गायकौ समचोदयत् । तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥१-४-३३॥ तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् । ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च । श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥१-४-३४॥ इमौ मुनी पार्थिवलक्षणान्वितौ । कुशीलवौ चैव महातपस्विनौ । ममापि तद् भूतिकरं प्रचक्षते । महानुभावं चरितं निबोधत ॥१-४-३५॥ ततस्तु तौ रामवचः प्रचोदिता- वगायतां मार्गविधानसम्पदा । स चापि रामः परिषद्गतः शनै- र्बुभूषयासक्तमना बभूव ह ॥१-४-३६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥ सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥१-५-१॥ येषां स सगरो नाम सागरो येन खानितः । षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥१-५-२॥ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥१-५-३॥ तदिदं वर्तयिष्यावः सर्वं निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥१-५-४॥ कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥१-५-५॥ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥ आयता दश च द्वे च योजनानि महापुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥१-५-७॥ राजमार्गेण महता सुविभक्तेन शोभिता । मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥१-५-८॥ तां तु राजा दशरथो महाराष्ट्रविवर्धनः । पुरीमावासयामास दिवि देवपतिर्यथा ॥१-५-९॥ कपाटतोरणवतीं सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥१-५-१०॥ सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥१-५-११॥ वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥१-५-१२॥ दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥१-५-१३॥ सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥१-५-१४॥ प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् । कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥१-५-१५॥ चित्रामष्टापदाकारां वरनारीगणायुताम् । सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥१-५-१६॥ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥१-५-१७॥ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥१-५-१८॥ विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥१-५-१९॥ ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥१-५-२०॥ सिंहव्याघ्रवराहाणां मत्तानां नदतां वने । हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥१-५-२१॥ तादृशानां सहस्रैस्तामभिपूर्णां महारथैः । पुरीमावासयामास राजा दशरथस्तदा ॥१-५-२२॥ तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । सहस्रदैः सत्यरतैर्महात्मभि- र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥१-५-२३॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥ तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥१-६-१॥ इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥१-६-२॥ बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः । धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥१-६-३॥ यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥ तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥१-६-५॥ तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥१-६-६॥ नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥१-६-७॥ कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् । द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥१-६-८॥ सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥१-६-९॥ नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥१-६-१०॥ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥१-६-११॥ नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥१-६-१२॥ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥१-६-१३॥ नास्तिको नानृती वापि न कश्चिदबहुश्रुतः । नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥१-६-१४॥ नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥१-६-१५॥ कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥१-६-१६॥ वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥१-६-१७॥ दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः । सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥१-६-१८॥ क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥१-६-१९॥ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥ योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥१-६-२१॥ काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः । वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥१-६-२२॥ विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥१-६-२३॥ ऐरावतकुलीनैश्च महापद्मकुलैस्तथा । अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥१-६-२४॥ भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा । भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥१-६-२५॥ नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः । सा योजने द्वे च भूयः सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसञ्जगदपालयत् ॥१-६-२६॥ तां पुरीं स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥ तां सत्यनामां दृढतोरणार्गलाम् गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥१-६-२८॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥ तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥१-७-१॥ अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥१-७-२॥ धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥१-७-३॥ ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥१-७-४॥ सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः । मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥१-७-५॥ एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः । विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥१-७-६॥ श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः । कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥१-७-७॥ तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥१-७-८॥ तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥१-७-९॥ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥१-७-१०॥ कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥१-७-११॥ वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः। शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥१-७-१२॥ ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥ शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥१-७-१४॥ क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः । प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥१-७-१५॥ सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः । हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥१-७-१६॥ गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः । विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥१-७-१७॥ अभितो गुणवन्तश्च न चासन् गुणवर्जिताः । सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः ॥१-७-१८॥ मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु । नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥१-७-१९॥ ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥१-७-२०॥ अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥१-७-२१॥ विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥१-७-२२॥ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद् राजा दिवि देवपतिर्यथा ॥१-७-२३॥ तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै- र्वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्त- स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥१-७-२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥ तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥ ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम । शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥ मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥ ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता । ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥ अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः । सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥ शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥ नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे । च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥ विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥ तथा विधानं क्रियतां समर्थाः साधनेष्विति । तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥ पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते । तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥ अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् । विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥ ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् । इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥ विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः । ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥ उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥ एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥ ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥ ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति । स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥ नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् । द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥ अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥ अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥ अनावृष्टिः सुघोरा वै सर्वलोकभयावहा । अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥ ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व । भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥ आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् । विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् । पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥ ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥ वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥ एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥ ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥ अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥ इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-१॥ रोमपादमुवाचेदं सहामात्यः पुरोहितः उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-२॥ ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-३॥ इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-४॥ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-५॥ श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-६॥ वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-७॥ ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-८॥ न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-९॥ ततः कदाचित् तं देशमाजगाम यदृच्छया विभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥१-१०-१०॥ ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम् ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-११॥ कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-१२॥ अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-१३॥ पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-१४॥ इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-१५॥ ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-१६॥ गतानां तु ततः पूजामृषिपुत्रश्चकार ह इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-१७॥ प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-१८॥ अस्माकमपि मुख्यानि फलानीमानि हे द्विज गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-१९॥ ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-२०॥ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-२१॥ आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-२२॥ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-२३॥ ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-२४॥ मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-२५॥ उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-२६॥ चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-२७॥ श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-२८॥ तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-२९॥ वर्षेणैवागतं विप्रं तापसं स नराधिपः प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-३०॥ अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-३१॥ अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-३२॥ एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥१-१०-३३॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥ भूय एव हि राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥१-११-२॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥१-११-३॥ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥ अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् । आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥१-११-५॥ श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥१-११-६॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥१-११-७॥ तं च राजा दशरथो यशस्कामः कृताञ्जलिः । ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥१-११-८॥ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥१-११-९॥ पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१-११-१०॥ एवं स देवप्रवरः पूर्वं कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥ स त्वं पुरुषशार्दूल समानय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ॥१-११-१२॥ सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥१-११-१३॥ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः । वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥ अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः । आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१-११-१५॥ ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् । ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१-११-१६॥ सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना । रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१-११-१७॥ सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् । एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१-११-१८॥ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥१-११-१९॥ मदीयं नगरं यातु कार्यं हि महदुद्यतम् । तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥१-११-२०॥ उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥१-११-२१॥ स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥१-११-२२॥ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥ पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥१-११-२४॥ धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् । ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥१-११-२५॥ तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा । ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥१-११-२६॥ शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् । ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥१-११-२७॥ प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा । यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः । कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥१-११-२९॥ अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥१-११-३०॥ पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥१-११-३१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥ ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥ ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥ तथेति च स राजानमुवाच वसुधाधिपम् । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥ सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः । सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥ पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः । ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥ समानयत् स तान् सर्वान् समस्तान् वेदपारगान् । तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥ धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् । मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥ पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम । तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥ ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् । ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥ वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् । ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥ सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥ सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥ ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् । अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥ गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे । समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥ छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः । विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥ तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥ ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥ गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥ पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥ अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥ यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव । यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥ भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥ तथेति च स राजानमब्रवीद् द्विजसत्तमः । करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥ ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥ कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि । गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥ तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् । यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥ इष्टका बहुसाहस्री शीघ्रमानीयतामिति । उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः । भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥ तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः । आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥ वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः । तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥ दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया । सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥ तेषामपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥ यथा सर्वं सुविहितं न किंचित् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥ ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् । यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥ यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते । ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥ निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः । ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥१-१३-२०॥ समानयस्व सत्कृत्य सर्वदेशेषु मानवान् । मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥ तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥ तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् । सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥ तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥ अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् । वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥ तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् । मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥ प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञः शासनमादाय चोदयस्व नृपर्षभान् । प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥ दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह । सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥ तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् । एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥ वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा । व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥ स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥ ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये । सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥ ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥ अवज्ञया कृतं हन्याद् दातारं नात्र संशयः । ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥ बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह । ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥ उपयाता नरव्याघ्र राजानस्तव शासनात् । मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥ यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः । निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥ सर्वकामैरुपहृतैरुपेतं वै समन्ततः । द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥ तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः । दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥ ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥ यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि । श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥ अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-१॥ ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥ कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः । यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥ प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-४॥ अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-५॥ ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः । मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-६॥ तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-७॥ आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-८॥ गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥ न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन । दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-१०॥ न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते । नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-११॥ ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-१२॥ वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-१३॥ दीयतां दीयतामन्नं वासांसि विविधानि च । इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१-१४-१४॥ अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥ नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः । अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥१-१४-१७॥ स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् । उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१-१४-१८॥ कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि । प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥१-१४-१९॥ दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥१-१४-२०॥ नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः । सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥१-१४-२१॥ प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥१-१४-२२॥ श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा । द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥१-१४-२३॥ कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥१-१४-२४॥ एकविंशतियूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥१-१४-२५॥ विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥१-१४-२६॥ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥१-१४-२८॥ स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥१-१४-२९॥ नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-३०॥ शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-३१॥ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-३२॥ कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-३३॥ पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-३४॥ होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-३५॥ पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥ धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-३७॥ हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-३८॥ प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-३९॥ त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-४०॥ उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-४१॥ ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ । अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-४२॥ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-४३॥ उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता । अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-४४॥ क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-४५॥ एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः । ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-४६॥ भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-४७॥ रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-४८॥ मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-४९॥ एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥ दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥ ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-५२॥ सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-५३॥ जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-५४॥ कस्मैचित् याचमानाय ददौ राघवनन्दनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-५५॥ प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥ उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-५७॥ पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-५८॥ कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत तथेति च स राजानमुवाच द्विजसत्तमः भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-५९॥ स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः । जगाम हर्षं परमं महात्मा तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-६०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥ मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-१॥ इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-२॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-३॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-४॥ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-५॥ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-६॥ त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-७॥ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-८॥ ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-९॥ नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥ तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-११॥ एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-१३॥ नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा । तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-१४॥ एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् । देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१-१५-१५॥ एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-१६॥ वैनतेयं समारुह्य भास्करस्तोयदम् यथा । तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥ ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-१९॥ धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-२०॥ विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् । तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-२१॥ अवध्यं दैवतैर्विष्णो समरे जहि रावणम् । स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-२२॥ राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते । ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-२३॥ क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-२४॥ सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः । त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥ वधाय देवशतॄणां नृणां लोके मनः कुरु । एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-२६॥ पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-२७॥ भयं त्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-२८॥ हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-२९॥ वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-३०॥ मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-३१॥ पितरं रोचयामास तदा दशरथं नृपम् । ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-३२॥ तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् । विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥१-१५-३३॥   तमेव हत्वा सबलं सबान्धवम् विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-३४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥

Use the ← → keys to move between chapters.

बालकाण्डम्/सम्पूर्णम् · 1 · Bālakāṇḍa (Book of Childhood) — Valmiki · The Conscious Library