Chapter 43 of 84
बालकाण्डम्/सर्गः ४३
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥ देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम वत्सरं समुपासत ॥१-४३-१॥ अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥१-४३-२॥ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥१-४३-३॥ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्॥१-४३-४॥ आकाशादपतद् राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥१-४३-५॥ विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥१-४३-६॥ तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥ हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥१-४३-८॥ नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥१-४३-९॥ तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥१-४३-१०॥ विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥१-४३-११॥ ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥१-४३-१२॥ सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥१-४३-१३॥ सप्तमी चान्वगात् तासां भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥१-४३-१४॥ प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१-४३-१५॥ असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥१-४३-१६॥ पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥१-४३-१७॥ व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥१-४३-१८॥ पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥१-४३-१९॥ दिदृक्षवो देवगणाः समीयुरमितौजसः । सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥१-४३-२०॥ शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥१-४३-२१॥ विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥ शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥१-४३-२३॥ विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥१-४३-२४॥ मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः । तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥१-४३-२५॥ व्यरोचत तदा तोयं निर्मलं गतकल्मषम् । तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥१-४३-२६॥ भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद् वसुधातलम् ॥१-४३-२७॥ कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः । धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः ॥१-४३-२८॥ पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे । मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥१-४३-२९॥ कृताभिषेको गङ्गायां बभूव गतकल्मषः । भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः ॥१-४३-३०॥ प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् । देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥१-४३-३१॥ गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः । सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥१-४३-३२॥ गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥१-४३-३३॥ जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥१-४३-३४॥ गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥१-४३-३५॥ अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् । ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः ॥१-४३-३६॥ पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३७॥ ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥१-४३-३८॥ जगाम च पुनर्गङ्गा भगीरथरथानुगा । सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा ॥१-४३-३९॥ रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः । भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ॥१-४३-४०॥ पितमहान् भस्मकृतानपश्यद् गतचेतनः । अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥१-४३-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
Use the ← → keys to move between chapters.