Skip to content
The ConsciousLibrary

Chapter 9 of 10

जाबालदर्शनोपनिषत् · 9 · 1

अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् । ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ॥ १॥ ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् । सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम् ॥ २॥ अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् । अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ ३॥ तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ४॥ आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ५॥ एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः । क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ॥ ६॥ इति॥ इति नवमः खण्डः ॥ ९॥

Use the ← → keys to move between chapters.

जाबालदर्शनोपनिषत् · 9 · 1 · Jābāladarśana Upaniṣad (Darśana Upaniṣad) — Dattatreya · The Conscious Library