Skip to content
The ConsciousLibrary

Chapter 6 of 10

जाबालदर्शनोपनिषत् · 6 · 1

प्राणायामक्रमं वक्श्ये सांकृते श्रुणु सादरम् । प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥ १॥ वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥ २॥ इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् । शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३॥ पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया । उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् ॥ ४॥ यावद्वा शक्यते तावद्धारयेज्जपतत्परः । पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥ ५॥ शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् ॥ ६॥ पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा । अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥ ७॥ धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी । उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥ ८॥ मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् । एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥ ९॥ एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर । एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् ॥ १०॥ वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् । योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ ११॥ प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति । बाह्यादापूरणं वायोःरुदरे पूरको हि सः ॥ १२॥ संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् । बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः ॥ १३॥ प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कंपनं मध्यमं विद्यादुत्थानं cओत्तमं विदुः ॥ १४॥ पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः । संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥ १५॥ प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत । चित्ते शुद्धे शुचिः साक्शात्प्रत्यग्ज्योतिर्व्यवस्थितः ॥ १६॥ प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति । प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥ १७॥ देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता । रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥ १८॥ सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् । मनोजवत्वमाप्नोति पलितादि च नश्यति ॥ १९॥ प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् । तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥ २०॥ विनियोगान्प्रवक्श्यामि प्राणायामस्य सुव्रत । सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ॥ २१॥ बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च । नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥ २२॥ सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः । नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥ २३॥ सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् । शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ २४॥ जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः । श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥ २५॥ जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् । पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥ २६॥ इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् । यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥ २७॥ इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च । नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ २८॥ मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् ॥ २९॥ वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः । नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ॥ ३०॥ नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् । तथा वायुं समारोप्य धारयेच्च्हिरसि स्थितम् ॥ ३१॥ शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते । स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३२॥ अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः । हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च ॥ ३३॥ अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्शुषी । नासापुटवधानाभ्यां प्रच्च्हाद्य करणानि वै ॥ ३४॥ आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् । प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥ ३५॥ ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ । शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥ ३६॥ शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा । पश्चात्प्रीतो महाप्राज्ञः साक्शादात्मोन्मुखो भवेत् ॥ ३७॥ पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः । दक्शिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् ॥ ३८॥ सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः । जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥ ३९॥ विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः । लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥ ४०॥ प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥ ४१॥ निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् । पुनः सुषुम्नया वायुर्वह्निना सह गच्च्हति ॥ ४२॥ एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् । प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥ ४३॥ उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले । एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥ ४४॥ भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते । पातकानि विनश्यन्ति क्शुद्राणि च महान्ति च ॥ ४५॥ नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् । पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि ॥ ४६॥ विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् । तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥ ४७॥ ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥ ४८॥ ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्शणम् । अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ४९॥ आत्मस्वरूपविज्ञानादज्ञानस्य परिक्शयः । क्शीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्शयः ॥ ५०॥ रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् । तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥ ५१॥ इति॥ इति षष्ठः खण्डः ॥ ६॥

Use the ← → keys to move between chapters.

जाबालदर्शनोपनिषत् · 6 · 1 · Jābāladarśana Upaniṣad (Darśana Upaniṣad) — Dattatreya · The Conscious Library