Skip to content
The ConsciousLibrary

Chapter 22 of 26

· 22

इतश्च न शुद्रस्याधिकारः, यद्िदयाप्रदेशेषुपनयनादयः संस्काराः परामृर्यन्ते--८ तं होपनिन्ये “अधीहि भगव इति होपससाद ` ‹ ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक््यतीति ते ह समित्पाणयो भगवन्तं पि- प्पादमुपसन्नाः ` इति च । ‹ तान्हानुपनीयैव ` इदयपि प्रद- रितेवोपनयनप्रापिभेवति । रुद्रस्य च संस्कारामावोऽभिप्यते: शूद्र्तुर्थो वण एकजातिः ' इत्यकजातित्वस्मरणात्‌ । “न सदर पातकं किंचिन्न च संस्कारमहेति ` इलयादिभिश्च ॥

इतश्च न शद्रस्याधिकारः; यत्सयवचनेन शूद्रत्वाभावे निधौरिते जाबाङं गौतम उपनेतुमनुशासितं च प्रववरते-- ८ सैतद्राह्मणो विवक्तुमहेति समिधं सोम्याहरोप त्वा नेष्ये न सलयादगाः › इति श्रुतिलिङ्गात्‌ ॥

भ्रवणाध्ययनाथेप्रतिचेधात्स्मतेश्च ।॥ ३८ ॥

इतश्च न शद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययना- थेप्रतिषेधो भवति । बेदश्रवणप्रतिषेधः; बेदाध्ययनप्रतिषेधः, तदथैज्ञानानुष्ठानयोशख प्रतिषेधः राद्रस्य स्मर्यते । श्रवणभ्र- तिषेधस्तावत्‌- अथ हास्य वेदसुपश्रण्वतसखपुजतुभ्यां भोच्रप्र-

तिपूरणम्‌ ' इति; ‹ पद्यु ह्‌ वा एतच्छमश्चानं यच्छरद्रस्तस्मा- च्द्रसमीये नाध्येतव्यम्‌ ' इति च । अत॒ एवाध्ययनप्रतिषे- धः; यस्य हि समीपऽपि नाध्येतव्यं भवति, स कथमश्रुत- मधीयीत । भवति च वेदोच्वारणे जिहाच्छेद्‌ः, धारणे शसीर- मेद्‌ इति । अत एव चाथाद्थज्ञानानुष्ठानयोः प्रतिषेधो भ- वतति--“ न डुद्राय मति दद्यात्‌ ` इति, ' द्विजातीनामध्यय- नमिज्या दानम्‌" इति च । येषां पुनः पूवेकृतसंस्कारवश्चा- दिदुरघमेव्याधग्रश्ेतीनां ज्ञानोत्पत्तिः, तेषां न शक्यते फ- टग्राप्निः प्रतिषेद्धुम्‌; ज्ञानस्येकान्तिकफछत्वात्‌ । ‹ श्राचयेचतुरो वर्णान्‌ ` इति चेतिहासपुराणाधिगमे चातुवेण्यस्याधिकारस्म- रणान्‌ । बेदपूवेकस्तु नास्यधिकारः शद्राणामिति स्थित्तम ॥

कम्पनात्‌ ॥ ३९ ॥| अवसितः प्रासङ्किकोऽधिकारविचारः; प्रकृतामेवेदानीं चाक्याथविचारणां प्रवबतेयिष्यामः । ` यदिदं किंच जग-

१०. कम्पना- त्सव प्राण एजति निःखतम्‌ । महद्भयं

धिकरणम्‌। वज्रमुद्यतं य एतद्धिदुर्रतास्ते भवन्ति? इति-- एतद्वाक्यम्‌ ‹ एज्‌ कम्पने * इति धात्वथानुगमा- हृश्चितम । अस्मिन्वास्ये सवेमिदं जगत्‌ प्राणाश्रयं स्पन्दते, महच किंचिद्धयकारणं वज्रशब्दितुद्यतम „ तद्विज्ञानाच्चामृत-

त्वप्राप्निरिति श्रूयते । तत्र, कोऽसौ प्राणः, किं तद्धयानकं वज्रम्‌, इल्यप्रतिपत्तर्विचारे क्रियमाणे, प्राप्रं तावनत--प्र- सिद्धेः पच्चव्त्तिवोयुः प्राण इति; प्रसिद्धेरेव चाश्चनिर्वजं स्यात्‌; वायोश्चेदं महारम्यं संकीदयेते; कथम १ सर्व- मिदं जगत्‌ पच्च्रत्तौ वायौ प्राण्चन्दिते प्रतिष्ठाय एजति; वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते; वायौ हि पर्जन्यभावेन मिवतंमाने विचुत्स्तनयिलुचरष्टयरनयो विव- तन्त इदयाचक्चते; बायुविज्ञानादेव वचेदमम्रतत्रम; तथा हिः ्रुयन्तरम--- ° वायुरेव व्यष्टिवायुः समष्टिरप पुनर्ल्यु जयति य एवं बेद ` इति; तस्माद्रायुरयमिह्‌ प्रतिपत्तव्यः इयेवं प्राप्रे-

बरूमः-- नह्यैवेदमिह प्रतिपत्तन्यम; कुतः? पूोत्तरारो- चनात्‌; पूर्वोत्तरयोहिं मन्थभागयोत्रेद्यैव निर्दिश्य मानमुपल- भामह; इहैव कथमकस्मादन्तराठे वायुं निर्दिद्यमानं प्रतिपदये- महि £ पूवत्र तावत्‌ ^ तदेव शुक्रं तद्भह्य तदेवामृतमुच्यते । तस्मि छोकाः श्रिताः सर्वै तदु नालेति कञ्चन ` इति ब्रह्म निर्दिष्टम्‌; तदेव इहापि, संनिधानात्‌, "जगत्सर्व प्राण एजति ` इति च छोकाश्रयत्वप्रयभिज्ञानात्‌ निर्दिष्टमिति गम्यते; प्राणश्च- व्दोऽप्यये परमात्मन्येव प्रयुक्तः-- ^ प्राणस्य प्राणम्‌ ` इति

दशनात्‌ । एजयित्रत्वमपीदं परमात्मन एवोपपद्यते, न वायुमाच्रस्य; तथा चोक्तम्‌-- ‹८न प्राणेन नापानेन मर्घ्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति; उत्तरत्रापि ‹ भयादस्याभभिस्तपत्ति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च म॒त्युधावति पच्चमः' इति ब्रहैव निर्दक््यते, न वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधा- नात्‌; तदेव इहापि संनिधानात्‌ ' महद्धयं वजसुद्यतम ' इति च भयहेतुत्वं प्रयभिज्ञानारिर्दिष्टमिति गम्यते; वज्र- दाब्दोऽप्ययं भयहेतुत्वसामान्यासरयुक्तः; यथा हि ' वज- मुद्यतं ममैव शिरसि निपतेत्‌, यद्यहमस्य शासनं न कुयाम्‌ ' इलयनेन भयेन जनो नियमेन राजादिक्षासने प्रब- तेते, एवमिदमभ्निवायुसूयादिकं जगत्‌ अस्मदेव ब्रह्मणो बिभ्यत्‌ नियमेन स्वव्यापारे प्रवर्तत इति-- भयानकं ब. ज्ोपमितं ब्रह्म । तथा च ब्रह्मविषयं श्रुयन्तरम-- ‹ भीषा- स्माद्रा्तः पवते । भीषोदेति सयः । भीषास्मादभिश्वन्द्र । मृर्युधोवति पच्चमः ` इति । अमृतस्वफलश्रवणादपि बद्यै- वेदमिति गम्यते; ब्रह्मज्ञानाद्धयमृतव्वप्राप्निः) ‹ तमेव विदि- त्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ` इति मन्त्रव- णोत्‌ । यत्तु वायुविज्ञानात्कचिदेम्रतत्वमभिहितम्‌, तदपेक्षि-

कम्‌; तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय ‹ अतो- ऽन्यदातेम्‌' इति वाय्वादेरातेत्वाभिधानात्‌ । प्रकरणाद्‌- प्यत्र परमात्मनिश्वयः; ‹ अन्यत्र धमौदन्यत्राधमोदन्यत्रा- स्मात्कृताकृतात्‌ । अन्यत्र भूताश्च भव्याच्च यत्तत्पश्यसि तद्रद ' इति परमासन: प्रष्टत्वात्‌ ॥

८ एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं उ्योतिरुपसं.- पद्य स्वेन रूपेणाभिनिष्पद्यते ' इति श्रूयते । तत्र संशस्यते- १९. ज्योतिर- किं अ्योतिःराष्दं चष्चुविषयतमोपहं तेजः, धिकरणम्‌ । किंवा परं ब्रह्मेति । किं तावत्प्राप्तम्‌ प्रसिद्धमेव तेजो ज्योतिःराब्दमिति। कुतः £ तत्र ज्योतिः- राष्दस्य रूढत्वात्‌ । '* व्योतिश्चरणाभिधानात्‌ ` इल्यत्र हि प्रकरणाञ्ज्योतिःशब्दः स्वार्थं परिलयज्य बरह्मणि वतेते; न चेह तद्रत्किचितरस्वार्थपसियागे कारणं दृर्यते । तथा च नाडीखण्डे-- (अथ यत्रैतदस्माच्छरीरादुत्करामत्यथेतैरेव ररिमभिरूष्वेमाक्रमते ` इति मुयुक्षोरादियप्राप्निरभिदहिता । तस्मास्प्रसिद्धमेव तेजो अयोतिःराब्दमिति, एवं प्रा्े-

नूमः-- परमेव ब्रह्म ज्योतिःशब्दम्‌; कस्मात्‌ दशे-

नात्‌ । तस्य हीह प्रकरणे बक्तव्यस्वेनानुचृत्तिरैश्यते; ‹य आत्मापहतपाप्मा ` इलयपहतपाप्मत्वादिगुणकस्यात्मनः प्रकर- णादावन्वेष्टज्यत्वेन विजिज्ञासितन्यस्वेन च प्रतिज्ञानात्‌; “एतं त्वेव ते भूयोऽनुन्याख्यास्यामि इति चाुसंधानात्‌; “ अश- रीरं वाव सन्तं न प्रियाभ्रिये स्प्रशतः` इति चारारीरताये ज्योतिःसंपत्तेरस्याभिधानात्‌; ब्रह्मभावाच्चान्यत्रारारीरतानुप- पत्तेः; ‹ परं अ्योतिः' ‹ स उत्तमः पुरुषः ` इति च विरोष- णात्‌ । यत्तक्तं अुञुक्षोरादियघ्राप्निरभिहितेति, नासावाय- न्तिको मोक्षः) गस्युक्ान्तिसंबन्धात्‌ । न ह्यालयन्तिके मोक्षे गस्युतरान्ती स्त इति वक््यामः ॥ | आकारोऽथीन्तरत्वादिव्यपदेदात्‌ ।॥ ४१ ॥ ‹ आकारो वे नाम नामरूपयोिर्वहिता ते यदन्तरा त- द्रह्य तदमृतं स आत्मा इति श्रुयते | तक्किमाकाशशब्द्‌ं १२. अथान्तरत्वा- परं ब्रह्य, किवा प्रसिद्धमेव भूताकारामि- दिव्यपदेशा- ति विचारे--भूतपरिग्रहो युक्तः; आका- धिकरणम्‌। शङाब्दस्य तस्मिन्‌ रूढत्वात्‌; नामरूप- निचंदणस्य चावकादयदानट्वारेण तस्मिन्योजयितुं शक्यत्वात्‌; खष्टत्ादेश्च स्पष्टस्य ब्रह्मरिङ्गस्याश्रवणादित्येवं प्रप्रे--

इदमुच्यते--परमेव बह्म इहाकाश्षराब्दं भवितुमहंति;

कस्मात्‌ £ अथौन्तरत्वादिव्यपदेश्चात्‌ । ८ ते यदन्तरा तद्भह्य ' इति हि नामरूपाम्यामथौन्तर भूतमाकाश्चं व्यपदिशति; न च ब्रह्मणो ऽन्यन्नामरूपाभ्यामर्थान्तरं संभवति, स्वेस्य बि- कारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्‌; नामरूपयोरपि निर्वहणं निरङ्कशं न ब्रह्मणोऽन्यत्र संभवति, (अनेन जीवे- नात्मनानुप्रविदय नामरूपे व्याकरवाणि ' इति ब्रह्मकवैक- त्वश्रवणात्‌ । ननु जीवस्यापि प्रयक्षु नामरूपविषयं निर्वा दृत्वमस्ति; बाढमस्ति; अभेदस्त्विह विवक्षितः । नामरूप- निवेहणाभिधानादेव च सखष्टत्वादि ब्रह्मलिङ्गमभिहितं भवति । तद्ह्य तदमृतं स आत्मा ` इति च ब्रह्मवादस्य लिङ्गानि । ‹ आकाश्चस्तलिङ्गात्‌ ' इयस्यैवायं प्रपच्चः ॥ सुषुप्त्युत्कान््यो भेदेन ॥ ४२॥ व्यपदेदादित्यनुवतेते । ब्रहदारण्यके षष्ठे प्रपाठके ८ क- तम आत्मेति योऽयं विज्ञानमयः प्राणेषु हद्यन्त्ज्योतिः १३. सुषुप्यधि- पुरुषः ` इत्युपक्रम्य भूयानात्मविषयः प्र- करणम्‌ । पञ्चः कृतः । त्किं संसारिखरूपमात्रा- न्वाख्यानपरं वाक्यम्‌, उतासंसारिस्वरूपप्रतिपादनपरमिति विशयः । किं तावस्राप्रम संसारिस्वरूपमात्राविषय- मेवेति; कुतः १ उपक्रमोपसंहाराभ्याम्‌, उपक्रमे ‹ योऽयं

विज्ञानमयः प्राणेषु" इति रारीरलिङ्गात; उपसंहारे च स वा एष महानज आत्मा योऽयं धिज्ञानमयः प्राणेषु इति तदपरियागात्‌; मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपच्चनादियेवं प्रा्त--

नरूमः-- परमेश्वरोपदेशपरमेवेदं वाक्यम्‌, न शारीर्मा- व्रान्वाख्यानपरम्‌; कस्मात सुषुप्राबुत्कान्तौ च श्ारीरा- द्ेदेन परमेश्वरस्य व्यपदेशात्‌. । सुषुप्ो तावत्‌ ‹ अयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद्‌ नान्तरम' इति शारीराद्धेदेन परमेश्वरं व्यपदिशति; तत्र पुरुषः शारीरः स्यात्‌, तस्य वेदितृत्वात्‌; बाद्याभ्यन्तरवेदनप्रसङ्खं सति तस्प्रतिषेधसंभवात्‌; प्राज्ञः परमेश्वरः, सवेज्ञत्वरक्षणया प्रज्ञया नियमवियोगान्‌ । तथोत्कान्तावपि (अय शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति ' इति जीवाद्ध- देन परमेश्वरं व्यपदिशति; तच्रापि शारीरो जीवः स्यात्‌, रारीरस्वामिसवात्‌; प्राज्ञस्तु स एव परमेश्वरः । तस्मात्सुषु- प्तयुत्करान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमाद्यन्तमध्येषु श्षारीरछिङ्गान्‌ तत्परतस्वमस्य वाक्यस्येति, अत्र त्रूमः-- उपक्रमे तावत्‌ “योऽयं वि- ज्ञानमयः प्राणेषु" इति न संसारिस्वरूपं विवक्षितम;

किं तर्हि, अनृद्य॒संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति; यतः ध्यायतीव रेछायतीव ` इत्येवमाययुत्तर- ग्रन्थप्रवृत्तिः संसारिधमनिराकरणपरा छक््यते; तथोपसंहारे- ऽपि यथोपक्रममेवोपसंहरति--‹ स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ' इति; योऽयं विज्ञानमयः प्राणे- घु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इयथः; यस्तु मध्ये बुद्धान्ता्यव- स्थीपन्यास्रात्संसारिस्वरूपविवक्षां मन्यते, स प्राचीमपि दि- रं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत; यतो न बुद्धा न्ताद्यवस्थोपन्यासेनावस्थावच्वं संसारित्वं बा विवक्षति, किं तर्हि, अवस्थारहितत्वमसंसारित्वं च; कथमेतदवगम्यते? यत्‌ ‹ अत ऊर्ध्वं विमोक्षायैव ब्रुहि ' इति पदे पदे प्रच्छति; यञ्च ‹ अनन्वागतस्तेन भवलयसङ्खो ह्यय पुरुषः ' इति पदे पदे म्रतिवक्ति; ° अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो दहि तदा सवांञ्कोकान्हदयश्य भवति ` इति च । तस्मादसंसा- रिखरूपप्रतिपादनपरमेवेतद्वाक्यमिलयवगन्तव्यम ॥

इतन्चाससारिसखरूपप्रतिपादनपरमेतैतद्राक्यमिलयवगन्तव्य- म्‌; यदस्मिन्वा््ये पलयादयः शब्दा असंसारिस्वरूपप्रति-

पादनपराः संसारिस्वभावप्रतिषधनाश्च भवन्ति-- ‹ सवस्य वशी सवेस्येशानः सवेस्याधिपतिः ` इत्येवंजातीयका असं- [क [कष [४ क सारिस्वभावभ्रतिपादनपराः; ‹स न साधुना कमणा भूयान्नो एवासाधुना कनीयान्‌ ' इव्येवजातीयकाः संसारिसवभावप्र- तिषेधनाः । तस्मादसंसारी परमेश्वर इदोक्तं इदयवगम्यते ॥

इति श्रीमत्परमहंसपरिव्ाजकाचार्यस्य श्रीगोचविन्द्‌- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतो दारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥

स ह्यजिन्ञासां परतिज्ञाय ब्रह्मणो लक्षणसु-

ल्ल ८ ्तम-- ‹ जन्माद्यस्य यतः ' इति । तद्क्षणं

दि ८7 1 7 (~ (क न | ८ प्रधानस्यापि समानमियाशङ्कय तदराव्दत्वेन | 9 ट निराकृतम-- “ ईक्रतेनोराष्दम्‌ ' इति ।

गतिसामान्यं च वेदान्तवाक्यानां बह्मकारणवादं प्रति विद्यते, न प्रधानकारणवाद प्रतीति प्रपञ्चितं गतेन ग्रन्थेन | इदं व्विदानीमवरि्टमाराङ्कयते-- यदुक्तं प्रधानस्याश्चब्दत्वम्‌, त- दसिद्धम, काुचिच्छाखासु प्रथानसमपेणाभासानां शब्दानां श्रूयमाणत्वात्‌; अतः प्रधानस्य कारणव्वं वेदसिद्धमेव महद्धः परमर्षिभिः कपिदलभ्रभृतिभिः परिगरृहीतमिति प्रसज्यते तद्यावत्तषां रब्दानामन्यपरत्वं न प्रतिपाद्यते, तावस्सवंज्ञ ब्रह्म जगतः कारणमिति प्रतिपादितमप्याङटी भवेत्‌; अतस्ते- षामन्यपरत्वं दद्येथितुं परः संदभे: ्रचतेते ॥

आनुमानिकमप्येकेषामिति चन्न चारी- ररूपकविन्यस्तगरदीतदेरोयाति च ॥ १॥

आजुमानिकमपि अनुमाननिरूपितसमपि प्रधानम्‌, पकेषां शाखिनां राब्दवदुपरभ्यते; काठके हि पश्यते-- ‹ महतः परमन्यक्तमन्यक्तास्पुरुषः परः ` इति; तत्र य प्व यन्नामानो ९. आनुमानिका- यत्रमाश्च महद्‌व्यक्तपुरुपाः स्म्रतिप्रसिद्धाः,

धिकरणम्‌ । त प्वेह प्रयभिज्ञायन्ते; तत्राव्यक्तमिति स्मरतिप्रसिद्धः, शब्दादिदहीनलाञ्च न व्यक्तमन्यक्तमिति ठयुस्प- ्तिसभवात, स्मरतिप्रसिद्धं प्रधानमभिधीयते; अतस्तस्य राष्दवत्वादराष्दस्वमनुपपन्नमु; तदेव च जगतः कारणं श्रतिस्खृतिन्यायग्रसिद्धिभ्य इति चेत्‌, चैतदेवम-- न ह्येत- त्काठकवाक्यं स्प्रृतिप्रसिद्धयोमहदव्यक्तयोरस्तित्वपरम्‌ ) न द्यत्र यादशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम, ताटरशं प्रयभिज्ञायते; ₹छखन्दमात्रं ह्यत्ान्यक्तमिति प्रय- भिज्ञायते; स च राष्दः-- न व्यक्तमन्यक्तमिति-- योगिकत्वात्‌ अन्यस्मिन्नपि सृष्ष्मे सुदुरुक्ये च प्रयुज्यत; न चायं कस्मिश्चिद्रूढः; या तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती न वेदाथेनिरूपणे कारणभावं प्रतिपद्यते; न च कममात्रसामान्यास्समानाथप्रतिपत्तिभ-

Use the ← → keys to move between chapters.

· 22 · Commentary on the Brahmasūtras — Adi Shankara · The Conscious Library