Skip to content
The ConsciousLibrary

Chapter 79 of 84

बालकाण्डम्/सम्पूर्णम् · 2

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥ ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥ उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥ स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥ संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥ अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥ उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति । तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥ इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥ स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः । अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥ स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥ ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥ कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥ शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥ दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥ दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥ समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥ इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥ अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥ हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥ सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥ कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥ कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥ अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥ ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥ ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो- ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥ ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः । बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥ पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥१-१७-१॥ सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः । विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥१-१७-२॥ मायाविदश्च शूरांश्च वायुवेगसमान् जवे । नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥१-१७-३॥ असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् । सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥१-१७-४॥ अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च । यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥१-१७-५॥ किन्नरीणां च गात्रेषु वानरीणां तनूषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥१-१७-६॥ पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः । जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥ ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥१-१७-८॥ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-९॥ वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-१०॥ बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् । सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-११॥ धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-१२॥ पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-१३॥ रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-१४॥ वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-१५॥ मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः । वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-१६॥ सर्ववानरमुख्येषु बुद्धिमान् बलवानपि । ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१-१७-१७॥ अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-१८॥ ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे । यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-१९॥ अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-२०॥ ऋक्षीषु च तथा जाता वानराः किन्नरीषु च । देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-२१॥ नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-२२॥ चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः । वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-२३॥ अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च । नागकन्यासु च तदा गन्धर्वीणां तनूषु च । कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-२४॥ सिंहशार्दूलसदृशा दर्पेण च बलेन च । शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-२५॥ नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः । विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-२६॥ क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् । दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-२७॥ नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् । गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥ नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् । ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-२९॥ शतं शतसहस्राणि यूथपानां महात्मनाम् । ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-३०॥ बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-३१॥ अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे । सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-३२॥ भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः । नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-३३॥ ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-३४॥ महाबलो महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-३५॥ तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-३६॥ तैर्मेघवृन्दाचलकूटसंनिभै- र्महाबलैर्वानरयूथपाधिपैः बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥१-१७-३७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥ निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम् ॥१-१८-१॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥१-१८-२॥ यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् ॥१-१८-३॥ श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥ गतेषु पृथिवीशेषु राजा दशरथः पुनः । प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥ शान्तया प्रययौ सार्धमृशष्यशृङ्गः सुपूजितः । अमुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥ एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः । उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥१-१८-७॥ ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः । ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥ नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु । ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥१-१८-९॥ प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् । कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥१-१८-१०॥ विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् । लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥१-१८-११॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ॥१-१८-१२॥ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥ अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ । वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥१-१८-१४॥ पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः । सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥१-१८-१५॥ राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥१-१८-१६॥ जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥१-१८-१७॥ उत्सवश्च महानासीदयोध्यायां जनाकुलः । रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः ॥१-१८-१८॥ गायनैश्च विराविण्यो वादनैश्च तथापरैः । विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥१-१८-१९॥ प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः ॥१-१८-२०॥ अतीत्यैकादशाहं तु नामकर्म तथाकरोत् । ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥१-१८-२१॥ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा । वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥१-१८-२२॥ ब्राह्मणान् भोजयामास पौराजानपदानपि । अददद् ब्राह्मणानां च रत्नौघमलं बहु ॥१-१८-२३॥ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् । तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥ बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः । सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥ सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः । तेषामपि महातेजा रामः सत्यपराक्रमः ॥१-१८-२६॥ इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः । गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥१-१८-२७॥ धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः । बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥१-१८-२८॥ रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः । सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥१-१८-२९॥ लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः । न च तेन विना निद्रां लभते पुरुषोत्तमः ॥१-१८-३०॥ मृष्टमन्नमुपानीतमश्नाति न हि तं विना । यदा हि हयमारूढो मृगयां याति राघवः ॥१-१८-३१॥ अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् । भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥१-१८-३२॥ प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः । स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥१-१८-३३॥ बभूव परमप्रीतो देवैरिव पितामहः । ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ॥१-१८-३४॥ ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः । तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् ॥१-१८-३५॥ पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा । ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥१-१८-३६॥ पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः । अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥१-१८-३७॥ चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः । तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥१-१८-३८॥ अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः । स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥१-१८-३९॥ शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् । तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥ संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः । ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥१-१८-४१॥ प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा । तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥ प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः । स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥१-१८-४३॥ प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् । स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥१-१८-४४॥ कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् । पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥ कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः । अपि ते संनताः सर्वे सामन्तरिपवो जिताः ॥१-१८-४६॥ दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् । वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥१-१८-४७॥ ऋषींश्च तान् यथान्यायं महाभाग उवाच ह । ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥१-१८-४८॥ विविशुः पूजितास्तेन निषेदुश्च यथार्हतः । अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥१-१८-४९॥ उवाच परमोदारो हृष्टस्तमभिपूजयन् । यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥१-१८-५०॥ यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै । प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥१-१८-५१॥ तथैवागमनं मन्ये स्वागतं ते महामुने । कं च ते परमं कामं करोमि किमु हर्षितः ॥१-१८-५२॥ पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि मानद । अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥१-१८-५३॥ यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम । पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥१-१८-५४॥ ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया । तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥१-१८-५५॥ शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो । ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥१-१८-५६॥ इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये । कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥१-१८-५७॥ कर्ता चाहमशेषेण दैवतं हि भवान् मम । मम च अयमनुप्राप्तो महानभ्युदयो द्विज । तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥१-१८-५८॥ इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् । प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम् ॥१-१८-५९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥ तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥ सदृशं राजशार्दूल तवैवं भुवि नान्यतः । महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥१-१९-२॥ यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥१-१९-३॥ अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥१-१९-४॥ व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥ तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् । अवधूते तथाभूते तस्मिन् नियमनिश्चये ॥१-१९-६॥ कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे । न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ॥१-१९-७॥ तथाभूता हि सा चर्या न शापस्तत्र मुच्यते । स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ॥१-१९-८॥ काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि । शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥ राक्षसा ये विकर्तारस्तेषामपि विनाशने । श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ॥१-१९-१०॥ त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति । न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ॥१-१९-११॥ न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् । वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ॥१-१९-१२॥ रामस्य राजशार्दूल न पर्याप्तौ महात्मनः । न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥१-१९-१३॥ अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ । अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ॥१-१९-१४॥ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः । यदि ते धर्मलाभं च यशश्च परमं भुवि ॥१-१९-१५॥ स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि । यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ॥१-१९-१६॥ वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय । अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ॥१-१९-१७॥ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् । नात्येति कालो यज्ञस्य यथायं मम राघव ॥१-१९-१८॥ तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः । इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ॥१-१९-१९॥ विरराम महातेजा विश्वामित्रो महामतिः । स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ॥१-१९-२०॥ शोकेन महताविष्टश्चचाल च मुमोह च । लब्धसंज्ञस्तदोत्थाय व्यषीदत भयान्वितः ॥१-१९-२१॥ इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् । नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात् ॥१-१९-२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे विंशः सर्गः ॥१-२०॥ तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥१-२०-१॥ ऊनषोडशवर्षो मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥१-२०-२॥ इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः । अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः ॥१-२०-३॥ इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः । योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥१-२०-४॥ अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि । यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः ॥१-२०-५॥ निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता । अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥१-२०-६॥ बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् । न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥१-२०-७॥ न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः । विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥१-२०-८॥ जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि । यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ॥१-२०-९॥ चतुरङ्गसमायुक्तं मया सह च तं नय । षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥ कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि । चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥१-२०-११॥ ज्येष्ठे धर्मप्रधानेच न रामं नेतुमर्हसि । किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥१-२०-१२॥ कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव । कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥१-२०-१३॥ मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् । सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥१-२०-१४॥ स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः । तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥१-२०-१५॥ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः । स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥१-२०-१६॥ महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः । श्रूयते च महाराज रावणो राक्षसाधिपः ॥१-२०-१७॥ साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः । यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः ॥१-२०-१८॥ तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ । मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥१-२०-१९॥ इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा । नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥१-२०-२०॥ स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके । मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥१-२०-२१॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥१-२०-२२॥ स तु वीर्यवतां वीर्यमादत्ते युधि रावणः । तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥१-२०-२३॥ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः । कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ॥१-२०-२४॥ बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् । अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥ तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः । अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः ॥१-२०-२७॥ इति नरपतिजल्पनात् द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः । सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः ॥१-२०-२८॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥ तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥ पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥ यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः । चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥ त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः । नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥ इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः । धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥ प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः । इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः । गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥ एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥ न देवा नर्षयः केचिन्नामरा न च राक्षसाः । गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः । कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे । ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥ पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् । वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥ सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः । संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥ तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः । अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥ तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः । न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥ एवंवीर्यो महातेजा विश्वामित्रो महायशाः । न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥ तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥ इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभः च मुमोद पार्थिवाग्र्यः । गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥ तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१-२२-१॥ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥१-२२-२॥ स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥१-२२-३॥ ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा । विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥१-२२-४॥ पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः । शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥ विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥१-२२-६॥ कलापिनौ धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥१-२२-७॥ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-८॥ तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ । बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥१-२२-९॥ कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-१०॥ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी । अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१-२२-११॥ रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत । गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥१-२२-१२॥ मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा । न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१३॥ न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः । न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१-२२-१४॥ त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव । बलामतिबलां चैव पठतस्तात राघव ॥१-२२-१५॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१-२२-१६॥ एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१-२२-१७॥ क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठस्तात राघव ॥१-२२-१८॥ गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१-२२-१९॥ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव । कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१-२२-२०॥ तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥१-२२-२१॥ प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥१-२२-२२॥ सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥१-२२-२३॥ दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोऽनुलालिताभ्याम् सुखमिव सा विबभौ विभावरी च ॥१-२२-२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥ प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः । अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१-२३-१॥ कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१-२३-२॥ तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ । स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥१-२३-३॥ कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् । अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥१-२३-४॥ तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् । ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥ तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् । बहुवर्षसहस्राणि तप्यतां परमं तपः ॥१-२३-६॥ तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् । ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥१-२३-७॥ कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् । भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥१-२३-८॥ तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः । अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥१-२३-९॥ कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः । तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥१-२३-१०॥ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् । धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१-२३-११॥ अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन । व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥१-२३-१२॥ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना । अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥१-२३-१३॥ अनङ्ग इति विख्यातस्तदा प्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१-२३-१४॥ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा । शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥१-२३-१५॥ इहाद्य रजनीं राम वसेम शुभदर्शन । पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥१-२३-१६॥ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् । इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥१-२३-१७॥ स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम । तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥१-२३-१८॥ विज्ञाय परमप्रीता मुनयो हर्षमागमन् । अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥१-२३-१९॥ रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् । सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥१-२३-२०॥ यथार्हमजपन् संध्यामृषयस्ते समाहिताः । तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥ न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा । कथाभिरभिरामभिरभिरमौ नृपात्मजौ । रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥ ततः प्रभाते विमले कृताह्निकमरिन्दमौ । विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥१-२४-१॥ ते च सर्वे महात्मानो मुनयः संशितव्रताः । उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥१-२४-२॥ आरोहतु भवान् नावं राजपुत्रपुरस्कृतः । अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥१-२४-३॥ विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च । ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥१-२४-४॥ तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् । मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥ ज्ञातुकामो महातेजाः सह रामः कनीयसा । अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ॥१-२४-६॥ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः । राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ॥१-२४-७॥ कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् । कैलासपर्वते राम मनसा निर्मितं परम् ॥१-२४-८॥ ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः । तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥१-२४-९॥ सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता । तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥१-२४-१०॥ वारिसंक्षोभजो राम प्रणामं नियतः कुरु । ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥१-२४-११॥ तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ । स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥ अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् । अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ॥१-२४-१३॥ भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः । नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ॥१-२४-१४॥ सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् । धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ॥१-२४-१५॥ संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् । तमुवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥ श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् । एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ॥१-२४-१७॥ मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ । पुरा वृत्रवधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥ क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् । तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः ॥१-२४-१९॥ कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् । इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च ॥१-२४-२०॥ शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे । निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥१-२४-२१॥ ददौ देशस्य सुप्रीतो वरं प्रादातनुत्तमम् । इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥१-२४-२२॥ मलदाश्च करूषाश्च ममाङ्गमलधारिणौ । साधु साध्विति तं देवाः पाकशासनमब्रुवन् ॥१-२४-२३॥ देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता । एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥१-२४-२४॥ मलदाश्च करूषाश्च मुदिता धनधान्यतः । कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी ॥१-२४-२५॥ बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् । ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः । वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् ॥१-२४-२७॥ राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः । इमौ जनपदौ नित्यं विनाशयति राघव ॥१-२४-२८॥ मलदांश्च करूषांश्च ताटका दुष्टचारिणी । सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ॥१-२४-२९॥ अत एव च गन्तव्यं ताटकाया वनं यतः । स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ॥१-२४-३०॥ मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः । नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् ॥१-२४-३१॥ यक्षिण्या घोरया राम उत्सादितमसह्यया । एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम् । यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥१-२४-३२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥

विश्वामित्रस्य यागस्य रहस्यम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१-२५-१॥ अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥१-२५-२॥ इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥१-२५-३॥ विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥१-२५-४॥ पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥१-२५-५॥ पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥१-२५-६॥ ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥१-२५-७॥ तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥१-२५-८॥ कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥१-२५-९॥ सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् । ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥१-२५-१०॥ भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥१-२५-११॥ राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१-२५-१२॥ पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥१-२५-१३॥ सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१-२५-१४॥ एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१-२५-१५॥ नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१-२५-१६॥ नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना ॥१-२५-१७॥ नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१-२५-१८॥ राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१-२५-१९॥ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥१-२५-२०॥ विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥ एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥१-२५-२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकीयरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥ पितुर्वचननिर्देशात् पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥१-२६-२॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३ सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः । करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥१-२६-४॥ गोब्राह्मणहितार्थाय देशस्य च हिताय च । तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥१-२६-५॥ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः । ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥१-२६-६॥ तेन शब्देन वित्रस्तास्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥ तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता । श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥१-२६-८॥ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥१-२६-९॥ पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः । भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥१-२६-१०॥ एतां पश्य दुराधर्षां मायाबलसमन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥१-२६-११॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥१-२६-१२॥ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता । उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥१-२६-१३॥ विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥१-२६-१४॥ उद्धुन्वाना रजो घोरं ताटका राघवावुभौ । रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥१-२६-१५॥ ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥१-२६-१६॥ शिलावर्षं महत् तस्याः शरवर्षेण राघवः । प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥ ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥१-२६-१८॥ कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥१-२६-१९॥ अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥ ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥ दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् । अलं ते घृणया राम पापैषा दुष्टचारिणी ॥१-२६-२१॥ यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया । वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥ रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि । इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥१-२६-२३॥ दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः । सा रुद्धा बाणजालेन मायाबलसमन्विता ॥१-२६-२४॥ अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी । तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥१-२६-२५॥ शरेणोरसि विव्याध सा पपात ममार च । तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥१-२६-२६॥ साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् । उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥ सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् । मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥१-२६-२८॥ तोषिताः कर्मणानेन स्नेहं दर्शय राघवे । प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥१-२६-२९॥ तपोबलभृतो ब्रह्मन् राघवाय निवेदय । पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥१-२६-३०॥ कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना । एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-३१॥ विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते । ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-३२॥ मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् । इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-३३॥ श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम । विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-३४॥ उवास रजनीं तत्र ताटकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-३५॥ निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः । उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-३६॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥

अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम् ॥१-२७-१॥ परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥१-२७-२॥ देवासुरगणान् वापि सगन्धर्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥१-२७-४॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥१-२७-५॥ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥१-२७-६॥ ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् । गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे ॥१-२७-७॥ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥१-२७-८॥ वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥१-२७-९॥ ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा । आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥१-२७-१०॥ वायव्यं प्रथमं नाम ददामि तव चानघ । अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥१-२७-११॥ शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥१-२७-१२॥ वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥१-२७-१३॥ असिरत्नं महाबाहो ददामि नृवरात्मज । गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥१-२७-१४॥ प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव । वर्षणं शोषणं चैव संतापनविलापने ॥१-२७-१५॥ मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा । गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥१-२७-१६॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः । प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥ तामसं नरशार्दूल सौमनं च महाबलम् । संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥१-२७-१८॥ सत्यमस्त्रं महाबाहो तथा मायामयं परम् । सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥१-२७-१९॥ सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥१-२७-२०॥ एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥१-२७-२१॥ स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥१-२७-२२॥ सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥१-२७-२३॥ जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः । उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥१-२७-२४॥ ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा । इमे च परमोदार किंकरास्तव राघव ॥१-२७-२५॥ यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै । ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥१-२७-२६॥ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥१-२७-२७॥ ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे ॥१-२७-२८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Use the ← → keys to move between chapters.

बालकाण्डम्/सम्पूर्णम् · 2 · Bālakāṇḍa (Book of Childhood) — Valmiki · The Conscious Library