Skip to content
The ConsciousLibrary

Chapter 1 of 9

श्रीमद्भागवतपुराणम्, स्कन्धः ३, अध्यायाः २५–३३ · 1 · 1

शौनक उवाच । कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया । जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम् ॥ १ ॥ न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥ यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया । तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥ सूत उवाच - द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा । प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥ मैत्रेय उवाच - पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया । तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल ॥ ५ ॥ तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् । स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥ देवहूतिरुवाच । निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् । येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७ ॥ तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् । सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥ य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल । लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥ अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि । योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया ॥ १० ॥ तं त्वा गताहं शरणं शरण्यं      स्वभृत्यसंसारतरोः कुठारम् । जिज्ञासयाहं प्रकृतेः पूरुषस्य      नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥ मैत्रेय उवाच - इति स्वमातुर्निरवद्यमीप्सितं      निशम्य पुंसां अपवर्गवर्धनम् । धियाभिनन्द्यात्मवतां सतां गतिः      बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥ श्रीभगवानुवाच - योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥ तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे । ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥ चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् । गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥ अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः । वीतं यदा मनः शुद्धं अदुःखं असुखं समम् ॥ १६ ॥ तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम् ॥ १७ ॥ ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना । परिपश्यति उदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥ न युज्यमानया भक्त्या भगवति अखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥ प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्षद्वारं अपावृतम् ॥ २० ॥ तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥ मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ २२ ॥ मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास्तापा नैतान् मद्‍गतचेतसः ॥ २३ ॥ ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः । सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥ सतां प्रसङ्गान् मम वीर्यसंविदो      भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि      श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥ भक्त्या पुमान्जातविराग ऐन्द्रियाद्      दृष्टश्रुतान् मद्रचनानुचिन्तया । चित्तस्य यत्तो ग्रहणे योगयुक्तो      यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥ असेवयायं प्रकृतेर्गुणानां      ज्ञानेन वैराग्यविजृम्भितेन । योगेन मय्यर्पितया च भक्त्या      मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥ देवहूतिरुवाच । काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा । यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥ यो योगो भगवद्‍बाणो निर्वाणात्मंस्त्वयोदितः । कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥ तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥ मैत्रेय उवाच । विदित्वार्थं कपिलो मातुरित्थं      जातस्नेहो यत्र तन्वाभिजातः । तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं      प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥ श्रीभगवानुवाच - देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥ अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥ नैकात्मतां मे स्पृहयन्ति केचिन्      मत्पादसेवाभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य      सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥ पश्यन्ति ते मे रुचिराण्यम्ब सन्तः      प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि      साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥ तैर्दर्शनीयावयवैरुदार      विलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिः      अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥ अथो विभूतिं मम मायाविनस्तां      ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां      परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥ न कर्हिचिन्मत्पराः शान्तरूपे      नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च      सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥ इमं लोकं तथैव अमुं आत्मानं उभयायिनम् । आत्मानं अनु ये चेह ये रायः पशवो गृहाः ॥ ३९ ॥ विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् । भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥ नान्यत्र मद्‍भगवतः प्रधानपुरुषेश्वरात् । आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥ मद्‍भयाद् वाति वातोऽयं सूर्यस्तपति मद्‍भयात् । वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्‍भयात् ॥ ४२ ॥ ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥ एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥

Use the ← → keys to move between chapters.

श्रीमद्भागवतपुराणम्, स्कन्धः ३, अध्यायाः २५–३३ · 1 · 1 · Kapila’s teaching to Devahūti (Kapila-gītā, Bhāgavata Purāṇa III.25–33) — Kapila · The Conscious Library