Chapter 10 of 10
जाबालदर्शनोपनिषत् · 10 · 1
अथातः संप्रवक्श्यामि समाधिं भवनाशनम् । समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ १॥ नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः । एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ २॥ तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥ तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना । नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि ॥ ४॥ सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ ५॥ साहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन । यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ ६॥ समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते । तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ॥ ७॥ यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः । स तु याति च पुंभावं स्वयं साक्शात्परामृतम् ॥ ८॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥ ९॥ यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥ १०॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणाऽसौ तदा भवति केवलः ॥ ११॥ यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः ॥ १२॥ एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः । सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥ १३॥ इति॥ इति दशमः खण्डः ॥ १०॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्शुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥
Use the ← → keys to move between chapters.