Chapter 5 of 6
बृहदारण्यकोपनिषत् (texto sánscrito, seis adhyāya) · 5 · 1
प्रथमोऽध्यायः
द्वितीयोऽध्यायः
तृतीयोऽध्यायः
चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथ पञ्चमोऽध्यायः ।
प्रथमं ब्राह्मणम् । (शांतिब्राह्मणम्[१])
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । खं ब्रह्म । खं पुराणम् । वायुरं खम् । इति ह स्माह कौरव्यायणीपुत्रः । वेदोऽयं ब्राह्मणा विदुः । वेदैनेन यद्वेदितव्यम् ॥ ५,१.१ ॥ (दमदानदयेति त्रिकोपदेशब्राह्मणम्[२]) त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः । देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दाम्यतेति न आत्थेति । ओमिति होवाच व्यज्ञासिष्टेति ॥ बृह. ५,२.१ ॥ अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दत्तेति न आत्थेति । ओमिति होवाच व्यज्ञासिष्टेति ॥ ५,२.२ ॥ अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दयध्वमिति न आत्थेति । ओमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति । दम्यत दत्त दयध्वमिति । तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ बृह. ५,२.३ ॥ एष प्रजापतिर्यद्धृदयम् । एतद्ब्रह्म । एतत्सर्वम् । तदेतत्त्र्यक्षरं हृदयमिति । हृ इत्येकमक्षरम् । अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरम् । ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरम् । एति स्वर्गं लोकं य एवं वेद ॥ ५,३.१ ॥ (हृदयब्रह्मणः सत्यमित्युपासनाविधिब्राह्मणम् [३]) तद्वै तदेतदेव तदास । सत्यमेव । स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्न्वसावसत् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । सत्यं ह्येव ब्रह्म ॥ बृह. ५,४.१ ॥ (सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम् [४]) आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर्देवान् । ते देवाः सत्यमेवोपासते । तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् । तीत्येकमक्षरम् । यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् । तदेतदनृतमुभयतः सत्येन परिगृहीतम् । सत्यभूयमेव भवति । नैवंविद्वांसमनृतं हिनस्ति ॥ बृह. ५,५.१ ॥ तद्यत्तत्सत्यमसौ स आदित्यः । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ । रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति । नैनमेते रश्मयः प्रत्यायन्ति ॥ ५,५.२ ॥ य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः । एकं शिर एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वरिति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ बृह. ५,५.३ ॥ योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः । एकं शिर एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वरिति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ५,५.४ ॥ मनोमयोऽयं पुरुषो भाःसत्यः । तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा । स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ ५,६.१ ॥ विद्युद्ब्रह्मेत्याहुः । विदानाद्विद्युत् । विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ बृह. ५,७.१ ॥ वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः । स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति । स्वाहाकारं च वषट्कारं च । हन्तकारं मनुष्याः । स्वधाकारं पितरः । तस्याः प्राण ऋषभो मनो वत्सः ॥ ५,८.१ ॥ अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे । येनेदमन्नं पच्यते । यदिदमद्यते । तस्यैष घोषो भवति । यमेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ बृह. ५,९.१ ॥ (सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम् )[५] यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति । तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति । तस्मै स तत्र विजिहीते । यथा लम्बरस्य खम् । तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति । तस्मै स तत्र विजिहीते । यथा दुन्दुभेः खम् । तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमम् । तस्मिन् वसति शाश्वतीः समाः ॥ बृह. ५,१०.१ ॥ एतद्वै परमं तपो यद्व्याहितस्तप्यते । परमं हैव लोकं जयति य एवं वेद । एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति । परमं हैव लोकं जयति य एवं वेद । एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति । परमं हैव लोकं जयति य एवं वेद ॥ ५,११.१ ॥ अन्नं ब्रह्मेत्येक आहुः । तन्न तथा । पूयति वा अन्नमृते प्राणात् । प्राणो ब्रह्मेत्येक आहुः । तन्न तथा । शुष्यति वै प्रण ऋतेऽन्नात् । एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः । तद्ध स्माह प्रातृदः पितरम् । किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद । कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति । सर्वाणि भूतानि रमन्ते य एवं वेद ॥ ५,१२.१ ॥ (प्राणोपासनाब्राह्मणम्[६]) उक्थम् । प्राणो वा उक्थम् । प्राणो हीदं सर्वमुत्थापयति । उद्धस्मादुक्थविद्वीरस्तिष्ठति । उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.१ ॥ यजुः । प्राणो वै यजुः । प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय । यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.२ ॥ साम । प्राणो वै साम । प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते । साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.३ ॥ क्षत्रम् । प्राणो वै क्षत्रम् । प्राणो हि वै क्षत्रम् । त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्रमत्रमाप्नोति । क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.४ ॥ (गायत्रब्रह्मोपासनाब्राह्मणम्[७] ) भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.१ ॥ ऋचो यजूषि सामानीत्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.२ ॥ प्राणोऽपानो व्यान इत्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । यद्वै चतुर्थं तत्तुरीयम् । दर्शतं पदमिति ददृश इव ह्येषः । परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति । एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ बृह. ५,१४.३ ॥ सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद्वै तत्सत्ये प्रतिष्ठितम् । चक्षुर्वै सत्यम् । चक्षुर्हि वै सत्यम् । तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति । य एवं ब्रूयादहमदर्शमिति । तस्मा एव श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत्प्राणे प्रतिष्ठितम् । तस्मादाहुर्बलं सत्यादोगीय इति । एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयांस्तत्रे । प्राणा वै गयाः । तत्प्राणास्तत्रे । तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम । स यामेवामूं सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५,१४.४ ॥ तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः । वागनुष्टुप् । एतद्वाचमनुब्रूम इति । न तथा कुर्यात् । गायत्रीमेव सावित्रीमानुब्रूयात् । यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ बृह. ५,१४.५ ॥ स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् । अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । नैव केन चनाप्यम् । कुत उ एतावत्प्रतिगृह्णीयात् ॥ ५,१४.६ ॥ तस्या उपस्थानम् । गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि । अपदसि । न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । असावदो मा प्रापदिति । यं द्विष्यादसावस्मै कामो मा समर्धीति वा । न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते । अहमदः प्रापमिति वा ॥ बृह. ५,१४.७ ॥ एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः । अथ कथं हस्तीभूतो वहसीति । मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच । तस्या अग्निरेव मुखम् । यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति । एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ५,१४.८ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ बृह. ५,१५.१ ॥ इति पञ्चदशं ब्राह्मणम् ॥ ॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥
चतुर्तोऽध्यायः (previous chapter)
षष्ठोऽध्यायः (next chapter)
Use the ← → keys to move between chapters.