Skip to content
The ConsciousLibrary

Chapter 66 of 68

सुन्दरकाण्डम्/सर्गः ६६

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्षष्ठितमः सर्गः ॥५-६६॥

एवमुक्तो हनुमता रामो दशरथात्मजः। तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः॥ १॥ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्॥ २॥ यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला। तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात्॥ ३॥ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे। वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते॥ ४॥ अयं हि जलसम्भूतो मणिः प्रवरपूजितः। यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता॥ ५॥ इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्। अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः॥ ६॥ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये॥ ७॥ किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा॥ ८॥ इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्। मणिं पश्यामि सौमित्रे वैदेहीमागतां विना॥ ९॥ चिरं जीवति वैदेही यदि मासं धरिष्यति। क्षणं वीर न जीवेयं विना तामसितेक्षणाम्॥ १०॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च॥ ११॥ कथं सा मम सुश्रोणी भीरुभीरुः सती तदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्॥ १२॥ शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतो वदनं तस्या न विराजति साम्प्रतम्॥ १३॥ किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा॥ १४॥ मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे। दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी॥ १५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥ ५.६६ ॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Use the ← → keys to move between chapters.

सुन्दरकाण्डम्/सर्गः ६६ · Sundarakāṇḍa (The Beautiful Book) — Valmiki · The Conscious Library