Skip to content
The ConsciousLibrary

Chapter 32 of 68

सुन्दरकाण्डम्/सर्गः ३२

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥५-३२॥

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम्॥ १॥ सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्। फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्॥ २॥ साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्। मैथिली चिन्तयामास विस्मयं परमं गता॥ ३॥ अहो भीममिदं सत्त्वं वानरस्य दुरासदम्। दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा॥ ४॥ विललाप भृशं सीता करुणं भयमोहिता। राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी॥ ५॥ रुरोद सहसा सीता मन्दमन्दस्वरा सती। साथ दृष्ट्वा हरिवरं विनीतवदुपागतम्। मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ ६॥ सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिंगप्रवरं महार्हं वातात्मजं बुद्धिमतां वरिष्ठम्॥ ७॥ सा तं समीक्ष्यैव भृशं विपन्ना गतासुकल्पेव बभूव सीता। चिरेण संज्ञां प्रतिलभ्य चैवं विचिन्तयामास विशालनेत्रा॥ ८॥ स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः॥ ९॥ स्वप्नो हि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतो विहीना तेनेन्दुपूर्णप्रतिमाननेन॥ १०॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपं च कथां तदर्था- मेवं प्रपश्यामि तथा शृणोमि॥ ११॥ अहं हि तस्याद्य मनोभवेन सम्पीडिता तद‍्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि॥ १२॥ मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्॥ १३॥ नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा॥ १४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ५.३२॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Use the ← → keys to move between chapters.

सुन्दरकाण्डम्/सर्गः ३२ · Sundarakāṇḍa (The Beautiful Book) — Valmiki · The Conscious Library