Skip to content
The ConsciousLibrary

Chapter 82 of 84

बालकाण्डम्/सम्पूर्णम् · 5

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥ अफलस्तु ततः शक्रो देवानग्निपुरोगमान्। अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान् ॥१॥ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥२॥ अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया ॥३॥ तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः। सुरकार्यकरं यूयं सफलं कर्तुमर्हथ ॥४॥ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्‍गणैः ॥५॥ अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः। मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥६॥ अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ॥७॥ अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः। उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥८॥ तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः। अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन् ॥९॥ इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव। गौतमस्य प्रभावेण तपसा च महात्मनः ॥१०॥ तदागच्छ महातेज आश्रमं पुण्यकर्मणः। तारयैनां महाभागामहल्यां देवरूपिणीम् ॥११॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह ॥१२॥ ददर्श च महाभागां तपसा द्योतितप्रभाम्। लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥१३॥ प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव। धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव ॥१४॥ सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव। मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥१५॥ सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह। त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्। शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥१६॥ राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा। स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ ॥१७॥ पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता। प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥१८॥ पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः ॥१९॥ साधु साध्विति देवास्तामहल्यां समपूजयन्। तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥२०॥ गौतमोऽपि महातेजा अहल्यासहितः सुखी। रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः ॥२१॥ रामोऽपि परमां पूजां गौतमस्य महामुनेः। सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः ॥२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥ ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह। विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥१॥ रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥२॥ बहूनीह सहस्राणि नानादेशनिवासिनाम्। ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥३॥ ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः। देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥४॥ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवासमकरोद् देशे विविक्ते सलिलान्विते ॥५॥ विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः ॥६॥ ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्। प्रत्युज्जगाम सहसा विनयेन समन्वितः ॥७॥ विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्। प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥८॥ पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥९॥ यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्। अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥१०॥ आसने भगवानास्तां सहैभिर्मुनिपुंगवैः। जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥११॥ पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः। आसनेषु यथान्यायमुपविष्टाः समन्ततः ॥१२॥ दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥१३॥ अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ॥१४॥ यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह। द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः ॥१५॥ ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥१६॥ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ॥१७॥ गजतुल्यगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ ॥१८॥ यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ। कथं पद‍्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥१९॥ वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥२०॥ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥२१॥ तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः। न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ ॥२२॥ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा। तत्रागमनमव्यग्रं विशालायाश्च दर्शनम् ॥२३॥ अहल्यादर्शनं चैव गौतमेन समागमम्। महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥२४॥ एतत् सर्वं महातेजा जनकाय महात्मने। निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥२५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥ तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः। हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥१॥ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः। रामसंदर्शनादेव परं विस्मयमागतः ॥२॥ एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ। सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥३॥ अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपोदीर्घमुपागता ॥४॥ अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥५॥ अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम् ॥६॥ अपि कौशिक भद्रं ते गुरुणा मम संगता। मम माता मुनिश्रेष्ठ रामसंदर्शनादितः ॥७॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज। इहागतो महातेजाः पूजां प्राप्य महात्मनः ॥८॥ अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण पूजितेनाभिवादितः ॥९॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥१०॥ नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया। संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥११॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत् ॥१२॥ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥१३॥ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः। विश्वामित्रो महातेजा वेद्‍म्येनं परमां गतिम् ॥१४॥ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥१५॥ श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः। यथाबलं यथातत्त्वं तन्मे निगदतः शृणु ॥१६॥ राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥१७॥ प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥१८॥ कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥१९॥ विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥२०॥ कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥२१॥ नगराणि च राष्ट्राणि सरितश्च महागिरीन्। आश्रमान् क्रमशो राजा विचरन्नाजगाम ह ॥२२॥ वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥२३॥ देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥२४॥ ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥२५॥ सततं संकुलं श्रीमद‍्ब्रह्मकल्पैर्महात्मभिः। अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ॥२६॥ फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः। ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ॥२७॥ अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्। वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥२८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विपञ्चाशः सर्गः ॥१-५२॥ तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम् ॥१॥ स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥२॥ उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥३॥ प्रतिगृह्य तु तां पूजां वसिष्ठाद् राजसत्तमः। तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥४॥ विश्वामित्रो महातेजा वनस्पतिगणे तदा। सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम् ॥५॥ सुखोपविष्टं राजानं विश्वामित्रं महातपाः। पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥६॥ कच्चित्ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन्। प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक ॥७॥ कच्चित्ते सम्भृता भृत्याः कच्चित् तिष्ठन्ति शासने। कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥८॥ कच्चिद् बलेषु कोशेषु मित्रेषु च परंतप। कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ ॥९॥ सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्। विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम् ॥१०॥ कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा। मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥११॥ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन। विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥१२॥ आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल। तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे ॥१३॥ सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम्। राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥१४॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः। कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया ॥१५॥ फलमूलेन भगवन् विद्यते यत् तवाश्रमे। पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥१६॥ सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः। नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा ॥१७॥ एवं ब्रुवन्तं राजानं वसिष्ठं पुनरेव हि। न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥१८॥ बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह। यथाप्रियं भगवतस्तथास्तु मुनिपुंगव ॥१९॥ एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः। आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम् ॥२०॥ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम। सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्। भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥२१॥ यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्। तत् सर्वं कामधुग् दिव्ये अभिवर्ष कृते मम ॥२२॥ रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्। अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥२३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥१-५२॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा ॥१॥ इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि ॥२॥ उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च ॥३॥ नानास्वादुरसानां च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥४॥ सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम् ॥५॥ विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥६॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥७॥ पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥८॥ गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः ॥९॥ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः ॥१०॥ विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥११॥ राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिंदम ॥१२॥ शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ॥१३॥ आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ॥१४॥ आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा ॥१५॥ कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा ॥१६॥ संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान् ॥१७॥ ददामि कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ॥१८॥ ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत ॥१९॥ नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम ॥२०॥ यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम ॥२१॥ एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन ॥२२॥ एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥२३॥ दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥२४॥ अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥२५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥ कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥१॥ नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥२॥ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता ॥३॥ किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः ॥४॥ इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः। जगाम वेगेन तदा वसिष्ठं परमौजसम् ॥५॥ निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन। जगामानिलवेगेन पादमूलं महात्मनः ॥६॥ शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना ॥७॥ भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः ॥८॥ एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् ॥९॥ न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः ॥१०॥ नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥११॥ इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥१२॥ एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥१३॥ न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम् ॥१४॥ अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥१५॥ नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्। तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः ॥१६॥ इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बलं परबलार्दनम् ॥१७॥ तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा। तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप ॥१८॥ नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ॥१९॥ पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा ॥२०॥ भूय एवासृजद् घोरान् शकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ॥२१॥ प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः। तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ॥२२॥ निर्दग्धं तद‍्बलं सर्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः ॥२३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥ ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥१॥ तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः। ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः ॥२॥ योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः। रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ॥३॥ तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन ॥४॥ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥५॥ अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्। हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः ॥६॥ ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा ॥७॥ दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः। सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा ॥८॥ समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥९॥ हतपुत्रबलो दीनो लूनपक्ष इव द्विजः। हतसर्वबलोत्साहो निर्वेदं समपद्यत ॥१०॥ स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत ॥११॥ स गत्वा हिमवत्पार्श्वे किंनरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपाः ॥१२॥ केनचित् त्वथ कालेन देवेशो वृषभध्वजः। दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥१३॥ किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् ॥१४॥ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् ॥१५॥ यदि तुष्टो महादेव धनुर्वेदो ममानघ। सांगोपांगोपनिषदः सरहस्यः प्रदीयताम् ॥१६॥ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ॥१७॥ तव प्रसादाद् भवतु देवदेव ममेप्सितम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥१८॥ प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः। दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥१९॥ विवर्धमानो वीर्येण समुद्र इव पर्वणि। हतं मेने तदा राम वसिष्ठमृषिसत्तमम् ॥२०॥ ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः। यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा ॥२१॥ उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥२२॥ वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः। विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः ॥२३॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम् ॥२४॥ वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः। नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥२५॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥२६॥ आश्रमं चिरसंवृद्धं यद् विनाशितवानसि। दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि ॥२७॥ इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः। विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥२८॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः। आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत् ॥१॥ ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्। वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥२॥ क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय। नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥३॥ क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्। पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥४॥ तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्। ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥५॥ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा। ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥६॥ मानवं मोहनं चैव गान्धर्वं स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापने ॥७॥ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्। ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥८॥ पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा। दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥९॥ धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च। वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥१०॥ शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा। वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥११॥ त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्। एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥१२॥ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्। तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१३॥ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः। तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥१४॥ देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः। त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥१५॥ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा। वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥१६॥ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः। त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥१७॥ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः। मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥१८॥ प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः। विधूम इव कालाग्नेर्यमदण्ड इवापरः ॥१९॥ ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्। अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा ॥२०॥ निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः। अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥२१॥ एवमुक्तो महातेजाः शमं चक्रे महाबलः। विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत् ॥२२॥ धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्। एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥२३॥ तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः। तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम् ॥२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥ ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः। विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥१॥ स दक्षिणां दिशं गत्वा महिष्या सह राघव। तताप परमं घोरं विश्वामित्रो महातपाः ॥२॥ फलमूलाशनो दान्तश्चचार परमं तपः। अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ॥३॥ हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः। पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ॥४॥ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ॥५॥ अनेन तपसा त्वां हि राजर्षिरिति विद्महे। एवमुक्त्वा महातेजा जगाम सह दैवतैः ॥६॥ त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः। विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः ॥७॥ दुःखेन महताविष्टः समन्युरिदमब्रवीत्। तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः ॥८॥ देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्। एवं निश्चित्य मनसा भूय एव महातपाः ॥९॥ तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्। एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ॥१०॥ त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ॥११॥ गच्छेयं स्वशरीरेण देवतानां परां गतिम्। वसिष्ठं स समाहूय कथयामास चिन्तितम् ॥१२॥ अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ॥१३॥ ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ॥१४॥ त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः ॥१५॥ सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः ॥१६॥ अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः ॥१७॥ प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना। यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ॥१८॥ गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ॥१९॥ ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमवाप्नुयाम् ॥२०॥ प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन ॥२१॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥ ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥१॥ प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥२॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥३॥ अशक्यमिति सोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन ॥४॥ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः। याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव ॥५॥ अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम्। तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥६॥ स राजा पुनरेवैतानिदं वचनमब्रवीत्। प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि ॥७॥ अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः। ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥८॥ शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि। इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम् ॥९॥ अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः। नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः ॥१०॥ चित्यमाल्यांगरागश्च आयसाभरणोऽभवत्। तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ॥११॥ प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः। एको हि राजा काकुत्स्थ जगाम परमात्मवान् ॥१२॥ दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्। विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ॥१३॥ चण्डालरूपिणं राम मुनिः कारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परमधार्मिकः ॥१४॥ इदं जगाद भद्रं ते राजानं घोरदर्शनम्। किमागमनकार्यं ते राजपुत्र महाबल ॥१५॥ अयोध्याधिपते वीर शापाच्चण्डालतां गतः। अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः ॥१६॥ अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ॥१७॥ अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन ॥१८॥ मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्। अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ॥१९॥ कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ॥२०॥ गुरवश्च महात्मानः शीलवृत्तेन तोषिताः। धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ॥२१॥ परितोषं न गच्छन्ति गुरवो मुनिपुंगव। दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥२२॥ दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः। तस्य मे परमार्तस्य प्रसादमभिकांक्षतः। कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ॥२३॥ नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे। दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥ उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम् ॥१॥ इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्। शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव ॥२॥ अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥३॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते। अनेन सह रूपेण सशरीरो गमिष्यसि ॥४॥ हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥५॥ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् ॥६॥ सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया ॥७॥ सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ॥८॥ तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्। तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ॥९॥ आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ॥१०॥ ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ॥११॥ सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्। वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ॥१२॥ यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव। क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१३॥ कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम् ॥१४॥ कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः ॥१५॥ वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः। तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ॥१६॥ क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ॥१७॥ भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ॥१८॥ सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ॥१९॥ विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्। महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ॥२०॥ दूषितः सर्वलोकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशतां गतः ॥२१॥ दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति। एतावदुक्त्वा वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः ॥२२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

Use the ← → keys to move between chapters.

बालकाण्डम्/सम्पूर्णम् · 5 · Bālakāṇḍa (Book of Childhood) — Valmiki · The Conscious Library