Skip to content
The ConsciousLibrary

Chapter 4 of 9

श्रीमद्भागवतपुराणम्, स्कन्धः ३, अध्यायाः २५–३३ · 4 · 1

श्रीभगवानुवाच - योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥ स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मवित् चरणार्चनम् ॥ २ ॥ ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥ ३ ॥ अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः । ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥ मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥ स्वधिष्ण्यानां एकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥ ६ ॥ एतैः अन्यैश्च पथिभिः मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैः जितप्राणो ह्यतन्द्रितः ॥ ७ ॥ शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८ ॥ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । प्रतिकूलेन वा चित्तं यथा स्थिरं अचञ्चलम् ॥ ९ ॥ मनोऽचिरात्स्याद् विरजं जितश्वासस्य योगिनः । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥ प्राणायामैः दहेद् दोषान् धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥ यदा मनः स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥ प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥ लसत्पङ्कज किञ्जल्क पीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् ॥ १४ ॥ मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥ १५ ॥ काञ्चीगुणोल्लसत् श्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयन वर्धनम् ॥ १६ ॥ अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥ कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥ स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेत् शुद्धभावेन चेतसा ॥ १९ ॥ तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ २० ॥ सञ्चिन्तयेद् भगवतश्चरणारविन्दं      वज्राङ्कुशध्वज सरोरुह लाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन् नखचक्रवाल      ज्योत्स्नाभिराहतमहद् हृदयान्धकारम् ॥ २१ ॥ यच्छौचनिःसृतसरित् प्रवरोदकेन ।      तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं      ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥ जानुद्वयं जलजलोचनया जनन्या      लक्ष्म्याखिलस्य सुरवन्दितया विधातुः । ऊर्वोर्निधाय करपल्लवरोचिषा यत्      संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥ ऊरू सुपर्णभुजयोरधि शोभमानौ      ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान      काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥ नाभिह्रदं भुवनकोशगुहोदरस्थं      यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य      ध्यायेद् द्वयं विशदहारमयूखगौरम् ॥ २५ ॥ वक्षोऽधिवासमृषभस्य महाविभूतेः      पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं      कुर्यान्मनस्यखिल लोकनमस्कृतस्य ॥ २६ ॥ बाहूंश्च मन्दरगिरेः परिवर्तनेन      निर्णिक्तबाहुवलयान् अधिलोकपालान् । सञ्चिन्तयेद् दशशतारमसह्यतेजः      शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥ कौमोदकीं भगवतो दयितां स्मरेत      दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां      चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥ भृत्यानुकम्पितधियेह गृहीतमूर्तेः      सञ्चिन्तयेद् भगवतो वदनारविन्दम् । यद्विस्फुरन् मकरकुण्डलवल्गितेन ।      विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥ यच्छ्रीनिकेतमलिभिः परिसेव्यमानं      भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं      ध्यायेन् मनोमयमतन्द्रित उल्लसद्‍भ्रु ॥ ३० ॥ तस्यावलोकमधिकं कृपयातिघोर      तापत्रयोपशमनाय निसृष्टमक्ष्णोः । स्निग्धस्मितानुगुणितं विपुलप्रसादं      ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥ हासं हरेरवनताखिललोकतीव्र      शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य      भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥ ध्यानायनं प्रहसितं बहुलाधरोष्ठ      भासारुणायिततनुद्विजकुन्दपङ्‌क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः      भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥ एवं हरौ भगवति प्रतिलब्धभावो      भक्त्या द्रवद्‌धृदय उत्पुलकः प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानः      तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥ मुक्ताश्रयं यर्हि निर्विषयं विरक्तं      निर्वाणमृच्छति मनः सहसा यथार्चिः । आत्मानमत्र पुरुषोऽव्यवधानमेकम्      अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५ ॥ सोऽप्येतया चरमया मनसो निवृत्त्या      तस्मिन् महिम्न्यवसितः सुखदुःखबाह्ये । हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्      स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६ ॥ देहं च तं न चरमः स्थितमुत्थितं वा      सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं      वासो यथा परिकृतं मदिरामदान्धः ॥ ३७ ॥ देहोऽपि दैववशगः खलु कर्म यावत्      स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः      स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८ ॥ (अनुष्टुप्) यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्यः प्रतीयते । अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३९ ॥ यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ ४० ॥ भूतेन्द्रियान्तःकरणात् प्रधानात् जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतान् अन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥ स्वयोनिषु यथा ज्योतिः एकं नाना प्रतीयते । योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४३ ॥ तस्माद् इमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥

Use the ← → keys to move between chapters.

श्रीमद्भागवतपुराणम्, स्कन्धः ३, अध्यायाः २५–३३ · 4 · 1 · Kapila’s teaching to Devahūti (Kapila-gītā, Bhāgavata Purāṇa III.25–33) — Kapila · The Conscious Library