Chapter 1 of 4
गौडपादकारिका (cuatro prakaraṇa) · 1 · 1
अथ गौडपादीयकारिकाः (बहिष्[ष्]बहिः)प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा (स्मृतः /स्थितः) ॥ १.१ ॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ १.२ ॥ विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ १.३ ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ १.४ ॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ १.५ ॥ प्रभवः सर्व(भावानां /भूतानां) सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोअंशून् पुरुषः पृथक् ॥ १.६ ॥ विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमाया(स/स्व)रूपेति सृष्टिरन्यैर्विकल्पिता ॥ १.७ ॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १.८ ॥ भोगार्थं सृष्तिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ १.९ ॥ निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १.१० ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु (द्वौ तौ /द्वे तु) तुर्ये न सिध्यतः ॥ १.११ ॥ नात्मानं न (परांश्[ष्]परं) चैव न सत्यं नापि चानृतम् । प्राज्ञः किंचन संवेत्ति (तुर्यं तत्/तुरीयः) सर्वदृक्सदा ॥ १.१२ ॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १.१३ ॥ स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १.१४ ॥ अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १.१५ ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १.१६ ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १.१७ ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १.१८ ॥ विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १.१९ ॥ तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ १.२० ॥ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ १.२१ ॥ त्रिषु धामसु (यत्/यस्) तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ १.२२ ॥ अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ १.२३ ॥ ओंकारं पादशो विद्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किंचिदपि चिन्तयेत् ॥ १.२४ ॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ १.२५ ॥ प्रणवो ह्यपरं ब्रह्म प्रणवश्च (परः /ष्]परं) स्मृतः । अपूर्वोऽनन्तरोऽबाह्यो अनपरः प्रणवोऽव्ययः ॥ १.२६ ॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ १.२७ ॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ १.२८ ॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ १.२९ ॥ [चोलिति (माण्डूक्योपनिषदर्थाविष्करणपरायां गौडपादीयकारिकायां प्रथममागमप्रकरणम् /गौदपादीये आगमशास्त्रे आगमाख्यं प्रथमं प्रकरणं समाप्तम्) चोल्]
Use the ← → keys to move between chapters.