Skip to content
The ConsciousLibrary

Chapter 1 of 1

गौडपादकारिका/तृतीयप्रकरणम् · 1

अथ गौडपादीयकारिकास्वद्वैताख्यं तृतीयं प्रकरणम् । ओं उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते  । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः  ॥ ३.१ ॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्  । यथा न जायते किंचिज्जायमानं समन्ततः  ॥ ३.२ ॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः  । घटादिवच्च संघातैर्जातावेतन्निदर्शनम्  ॥ ३.३ ॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा  । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि  ॥ ३.४ ॥ यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते  । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः  ॥ ३.५ ॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै  । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः  ॥ ३.६ ॥ नाकाशस्य घटाकाशो विकारावयवौ यथा  । नैवात्मनः सदा जीवो विकारावयवौ तथा  ॥ ३.७ ॥ यथा भवति बालानां गगनं मलिनं मलैः  । तथा भवत्यबुद्धानामात्मापि मलिनो मलैः  ॥ ३.८ ॥ मरणे संभवे चैव गत्यागमनयोरपि  । (स्थितौ /स्थितः) सर्वशरीरेषु (आकाशेना[K,ष्]चाकाशेना)विलक्षणः  ॥ ३.९ ॥ संघाताः स्वप्नवत्(सर्वे /ष्]सर्वे)  आत्ममायाविसर्जिताः  । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते  ॥ ३.१० ॥ रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके  । तेषामात्मा परो जीवः (खं यथा /सयथा) संप्रकाशितः  ॥ ३.११ ॥ द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम्  । पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः  ॥ ३.१२ ॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते  । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम्  ॥ ३.१३ ॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम्  । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं (हि न /न हि) युज्यते  ॥ ३.१४ ॥ मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा  । उपायः सोऽवताराय नास्ति भेदः कथंचन  ॥ ३.१५ ॥ आश्रमास्त्रिविधा हीन  मध्यमोत्कृष्टदृष्टयः  । उपासनोपदिष्टेयं तदर्थमनुकम्पया  ॥ ३.१६ ॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम्  । परस्परं विरुध्यन्ते तैरयं न विरुध्यते  ॥ ३.१७ ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते  । तेषामुभयथा द्वैतं तेनायं न विरुध्यते  ॥ ३.१८ ॥ मायया भिद्यते ह्येतन्नान्यथाजं कथंचन  । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ ३.१९ ॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः  । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति  ॥ ३.२० ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा  । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति  ॥ ३.२१ ॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम्  । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः  ॥ ३.२२ ॥ भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः  । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ ३.२३ ॥ नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि  । अजायमानो बहुधा मायया जायते तु सः  ॥ ३.२४ ॥ संभूतेरपवादाच्च संभवः प्रतिषिध्यते  । को (न्व्[/ष्]त्व्) एनं जनयेदिति कारणं प्रतिषिध्यते  ॥ ३.२५ ॥ स एष नेति नेतीति व्याख्यातं निह्नुते यतः  । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते  ॥ ३.२६ ॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः  । तत्त्वतो जायते यस्य जातं तस्य हि जायते  ॥ ३.२७ ॥ असतो मायया जन्म तत्त्वतो नैव युज्यते  । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते  ॥ ३.२८ ॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः  । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः  ॥ ३.२९ ॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः  । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः  ॥ ३.३० ॥ मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम्  । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते  ॥ ३.३१ ॥ आत्मसत्यानुबोधेन न संकल्पयते यदा  । अमनस्तां तदा याति ग्राह्याभावे (तदग्रहम् /तदग्रहात्)  ॥ ३.३२ ॥ अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते  । ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते  ॥ ३.३३ ॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः  । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः  ॥ ३.३४ ॥ लीयते हि सुषुप्ते तन्निगृहीतं न लीयते  । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः  ॥ ३.३५ ॥ अजमनिद्रमस्वप्नमनामकमरूपकम्  । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन  ॥ ३.३६ ॥ सर्वाभिलापविगतः  सर्वचिन्तासमुत्थितः  । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः  ॥ ३.३७ ॥ ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते  । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम्  ॥ ३.३८ ॥ अस्पर्शयोगो (वै नाम /नामैष)  दुर्दर्शः सर्वयोगिभिः  । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः  ॥ ३.३९ ॥ मनसो निग्रहायत्तमभयं सर्वयोगिणाम्  । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च  ॥ ३.४० ॥ उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिन्दुना  । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः  ॥ ३.४१ ॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः  । सुप्रसन्नं लये चैव यथा कामो लयस्तथा  ॥ ३.४२ ॥ दुःखं सर्वमनुस्मृत्य (काम[ष्]काय)भोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति  ॥ ३.४३ ॥ लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः  । सकषायं (विजानीयात्सम /विजानीयाच्छम)प्राप्तं न चालयेत् ॥ ३.४४ ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरत्चित्तमेकीकुर्यात्प्रयत्नतः  ॥ ३.४५ ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः  । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा  ॥ ३.४६ ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम्  । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते  ॥ ३.४७ ॥ न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते  । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते  ॥ ३.४८ ॥ [चोलिति (गौडपादीयकारिकायामद्वैताख्यं /गौडपादीये आगमशास्त्रेऽद्वैताख्यं) तृतीयं (प्रकरणम्  ॥ ओं तत्सत् ॥ /प्रकरणं समाप्तम्) चोल्]

Use the ← → keys to move between chapters.

गौडपादकारिका/तृतीयप्रकरणम् · 1 · Advaita Prakaraṇa (chapter III: non-duality) — Gaudapada · The Conscious Library